संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय १२७

नागरखण्डः - अध्याय १२७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ ऋषय ऊचुः ॥
या सा कर्णोत्पलानाम त्वयास्माकं प्रकीर्तिता ॥
किञ्चिज्जलाश्रयं प्राप्य तपस्तपति संस्थिता ॥
तस्याः सर्वं समाचक्ष्व यथा तपसि सा स्थिता ॥१॥
 ॥ सूत उवाच ॥
गौरीपादकृतस्थाना श्रद्धया परया युता ॥
तावत्तुष्टिं गता देवी गिरिजा शंकरप्रिया ॥२॥
ततः प्रोवाच ते पुत्रि तुष्टाहं वांछितं वद ॥
येन यच्छाम्यसंदिग्धं यद्यपि स्यात्सुदुर्लभम् ॥३॥
 ॥ कर्णोत्पलोवाच ॥
मम पत्युः कृते देवि मम तातः सुदुःखितः ॥
राज्याद्भ्रष्टः सुखाच्चापि कुटुंबेन विवर्जितः ॥४॥
ततश्चैव तपस्तेपे वैराग्यं परमं गतः ॥
अहं वार्द्धक्यमापन्ना कौमार्येऽपि च संस्थिता ॥५॥
तस्माद्भवतु मे भर्त्ता कश्चिद्रूपोत्कटः स्मृतः ॥
सर्वेषां देवमर्त्यानां त्वत्प्रसादात्सुरेश्वरि ॥६॥
तथा स्यात्परमं रूपं तारुण्यं त्वत्प्रसादतः ॥
यथास्य जायते सौख्यं तापसस्यापि मे पितुः ॥७॥
 ॥ देव्युवाच ॥
माघमासतृतीयायां शनैश्चरदिने शुभे ॥
नक्षत्रे वसुदैवत्ये रूपं ध्यात्वाथ यौवनम् ॥८॥
त्वया स्नानं प्रकर्तव्यं सुपुण्येऽत्र जलाशये ॥
ततो दिव्य वपुर्भूत्वा यौवनेन समन्विता ॥
भविष्यसि न संदेहः सत्यमेतन्मयोदितम् ॥९॥
अन्यापि या महाभागे नारी स्नानं करिष्यति ॥
तस्मिन्नहनि साप्येवं रूपयुक्ता भविष्यति ॥१०॥
 ॥सूत उवाच ॥
एवमुक्त्वाथ सा देवी गता चादर्शनं ततः ॥
सापि चान्वेषयामास तृतीयां शनिना सह ॥११॥
वसुदेवात्मकेनैव नक्षत्रेण प्रयत्नतः ॥
ध्यायमाना च तां देवीं सर्वकामप्रदायिनीम् ॥१२॥
ततः कतिपयाहस्य जाता सा योगसंयुता ॥
तृतीया या यथोक्ता च तया देव्या पुरा द्विजाः ॥१३॥
ततः सा रूपसौभाग्यं यौवनं वांछितं पतिम् ॥
ध्यायमाना जले तस्मिन्नर्द्धरात्रे विवेश च ॥१४॥
ततो दिव्यवपुर्भूत्वा यौवनेन समन्विता ॥
निष्क्रांता सलिलात्तस्माज्जनविस्मयकारिणी ॥१५॥
एतस्मिन्नंतरे प्राप्तो गौरीवाक्यप्रबोधितः ॥
तदर्थं भगवान्कामः पत्न्यर्थं प्रीतिसंयुतः ॥
अब्रवीच्च महाभागे कामोहं स्वयमागतः ॥१६॥
पार्वत्यादेशिता भार्या तस्मान्मे भव मा चिरम् ॥१७॥
यस्मात्प्रीत्या समायातस्तवांतिकमहं शुभे ॥
तस्मात्प्रीतिरिति ख्याता मम भार्या भविष्यसि ॥१८॥
 ॥ कर्णोत्पलोवाच ॥
यद्येवं स्मर मत्तातं तं गत्वा प्रार्थय स्वयम् ॥
स्वच्छंदा स्याद्यतः कन्या न कथंचित्प्रवर्तिता ॥१९॥
य एष दृश्यते रम्यः प्रासादो नाति दूरतः ॥
अस्यांते तिष्ठतेऽस्माकं तातस्तपसि संस्थितः ॥२०॥
अत्राहं पूर्वतो गत्वा तस्य तिष्ठामि चांतिके ॥
भवानागत्य पश्चाच्च प्रार्थयिष्यति मां ततः ॥२१॥
बाढमित्येव कामोक्ते गता सा तत्समीपतः ॥
प्रणिपत्य ततः प्राह दिष्ट्या तात मया पुनः ॥२२॥
संप्राप्तं यौवनं कांतं समाराध्य हरप्रियाम् ॥
तस्मात्कुरु विवाहं मे हृत्स्थं सुखमवाप्नुहि ॥२३॥
मदर्थे प्रेषितो भर्त्ता तया देव्याऽतिसुन्दरः ॥
पुष्प चापः स्वयं प्राप्तः सोऽपि तात तवांतिकम् ॥२४॥
अथ तां स समालोक्य स्वां सुतां यौवनान्विताम् ॥
हर्षेण महता युक्तां कांतयुक्तां विशेषतः ॥
अब्रवीदद्य मे पुत्रि संजातं तपसः फलम् ॥२५॥
जीवितस्य च कल्याणि यत्वं प्राप्ता नवं वयः ॥
भर्तारं च तथाभीष्टं देव्या दत्तं मनोभवम् ॥२६॥
एतस्मिन्नंतरे कामस्तस्यांतिकमुपाद्रवत् ॥
अब्रवीद्देहि मे भूप स्वां कन्यां चारुहासिनीम् ॥२७॥
अस्या अर्थेऽहमादिष्टः स्वयं गौर्या नृपोत्तम ॥
कामदेव इति ख्यातस्त्रैलोक्यं येन मोहितम् ॥२८॥
ततस्तामर्पयामास तां कन्यां स महीपतिः ॥
कृत्वाग्निं साक्षिणं वाक्याद्ब्राह्मणानां द्विजोत्तमाः ॥२९॥
सा चास्य चाभवत्प्रीतिस्थानं यस्मात्सुलोचना ॥
रतेरनंतरा तस्मात्प्रीतिनामाऽभवच्छुभा ॥३०॥
एवं तया तपस्तप्तं तस्मात्तत्र जलाशये ॥
तन्नाम्ना ख्यातिमायातं समस्तेऽत्र महीतले ॥३१॥
सकलं माघमासं च या स्त्री स्नानं समाचरेत् ॥
पुमान्वा प्रातरुत्थाय स प्रयागफलं लभेत् ॥३२॥
रूपवाञ्जायते दक्षः सदा जन्मनि जन्मनि ॥
न वियोगमवाप्नोति कदात्रिद्बांधवैः सह ॥३३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कर्णोत्पलातीर्थमाहात्म्यवर्णनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥१२७॥

N/A

References : N/A
Last Updated : December 29, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP