संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय ४८

नागरखण्डः - अध्याय ४८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
तत्रैवास्य समुद्देशे हरिश्चंद्रस्य भूपतेः ॥
आश्रमो ऽस्ति सुविख्यातो नानाद्रुमसमावृतः ॥१॥
यत्र तेन तपस्तप्तं संस्थाप्योमामहेश्वरौ ॥
यच्छता विविधं दानं ब्राह्मणेभ्योऽभिवांछितम् ॥२॥
आसीद्राजा हरिश्चंद्रस्त्रिशंकुतनयः पुरा ॥
अयोध्याधिपतिः श्रीमान्सूर्यवंशसमुद्भवः ॥३॥
न दुर्भिक्षं न च व्याधिर्नाकालमरणं ध्रुवम् ॥
तस्मिञ्छासति धर्मेण न च चौरकृतं भयम् ॥४॥
कालवर्षी सदा मेघः सस्यानि प्रचुराणि च ॥
रसवंति च तोयानि सर्वर्तुफलिता द्रुमाः ॥५॥
दंडस्तत्राभवद्वास्तौ गृहरोधोऽक्षदेवने ॥
 एको दोषाकरश्चंद्रः प्रियदोषाश्च कौशिकाः ॥६॥
स्नेहक्षयश्च दीपेषु विवाहे च करग्रहः ॥
वृत्तभंगस्तथा गद्ये दानोत्थितिर्गजानने ॥७॥
तस्यैवं गुणयुक्तस्य सार्वभौमस्य भूपतेः ॥
एक एव महानासीद्दोषः पुत्रविवर्जितः ॥८॥
ततः पुत्रकृते गत्वा चकार सुमहत्तपः ॥
चमत्कारपुरे क्षेत्रे लिंगं संस्थाप्य भक्तितः ॥९॥
पंचाग्निसाधको ग्रीष्मे वर्षास्वाकाशसंस्थितः ॥
जलाश्रयश्च हेमंते स ध्यायति महेश्वरम् ॥१०॥
ततो वर्षसहस्रांते तस्य तुष्टो महेश्वरः ॥
प्रत्यक्षोऽभूत्समं गौर्या गणसंघैः समावृतः ॥११॥
उवाच वरदोऽस्मीति प्रार्थयस्व यथेप्सितम् ॥
अहं ते संप्रदास्यामि यद्यपि स्यात्सुदुर्लभम् ॥१२॥
ततस्तं प्रणिपत्योच्चैः स्तुत्वा सूक्तैः श्रुतैरपि ॥
प्रोवाच विनयोपेतः कृतांजलिपुटः स्थितः ॥१३॥
त्वत्प्रसादात्सुरश्रेष्ठ यत्किंचिद्धरणीतले ॥
तदस्ति मे गृहे सर्वं वांछितं स्वेन चेतसा ॥१४॥
सुरूपाणि कलत्राणि राज्यं निहतकंटकम् ॥
शरीरं रोगनिर्मुक्तं संख्याहीनं तथा धनम् ॥१५॥
एकं मे सुमहद्दुःखं यदपत्यं न विद्यते ॥
तस्माद्देहि सुतं देव प्रसन्नो यदि शंकर ॥१६॥
 ॥ श्रीभगवानुवाच ॥
अचिरेण नृपश्रेष्ठ पुत्रस्तव भविष्यति ॥
मत्प्रसादान्न संदेहस्तस्माद्गच्छ द्रुतं गृहम् ॥१७॥
 ॥ सूत उवाच ॥
एतस्मिन्नंतरे गौरी कोपसंरक्तलोचना ॥
भर्त्सयित्वा महादेवं ततः प्रोवाच तं नृपम् ॥१८॥
यस्मात्त्वया महामूर्ख न प्रणामः कृतो मम ॥
हरादनंतरं तस्माच्छापं दास्याम्यहं तव ॥१९॥
तव संलप्स्यते पुत्रो यथोक्तः शूलपाणिना ॥
परं तन्मृत्युजं दुःखं त्वं शिशुत्वेपि लप्स्यसे ॥२०॥
एवमुक्त्वा भगवती सार्धं देवेन शंभुना ॥
अदर्शनं ययौ पश्चात्तथान्यैरपि पार्श्वगैः ॥२१॥
सोऽपि राजा वरं लब्ध्वा शापं च तदनंतरम् ॥
न जगाम गृहं भूयश्चकार सुमहत्तपः ॥२२॥
एकासनं समारूढौ कृत्वा गौरी महेश्वरौ ॥
ततश्चाराधयामास समं पुष्पानुलेपनैः ॥२३॥
विशेषेण ददौ दानं ब्राह्मणेभ्यो महीपतिः ॥
भूमिशायी प्रशांतात्मा षष्ठकालकृताशनः ॥२४॥
ततः संवत्सरस्यांते भगवान्वृषभध्वजः ॥
पार्वत्या सहितो भूयस्तस्य संदर्शनं गतः ॥२५॥
ततः स नृपतिस्ताभ्यां युगपद्विधिपूर्वकम् ॥
कृत्वा नतिं ततो वाक्यं विनयादिदमब्रवीत् ॥२६॥
पुरा देवि मयानंदपूरे व्याकुल चेतसा ॥
न नता त्वं न मे कोपं तस्मात्त्वं कर्तुमर्हसि ॥२७॥
देहार्धधारिणी देवि सदा त्वं शूलधारिणः ॥
तदैकस्मिन्नते कस्मान्न नता त्वं वदस्व मे ॥२८॥
यस्तं नमति देवेशं तेन त्वं सर्वदा नता ॥
नतायां त्वयि देवेशो नतः स्यादिति मे मतिः ॥२९॥
तथापि च पृथक्त्वेन मया त्वं तु नता सह ॥
एकासनं समारूढा तत्समं देवि पूजिता ॥३०॥
तस्मात्कुरु प्रसादं मे यः पुरोक्तः पुरारिणा ॥
सोस्तु वै सफलः सद्यो वरः पुत्रकृते मम ॥३१॥
यया वंशधरः पुत्रो दीर्घायुर्दृढविक्रमः ॥
त्वत्प्रसादाद्भवेद्देवि तथा त्वं कर्तुमर्हसि ॥३२॥
 ॥ श्रीदेव्युवाच ॥
नान्यथा मे वचो राजञ्जायतेऽत्र कथंचन ॥
तस्माद्बालोऽपि ते पुत्रः पंचत्वं समुपैष्यति ॥३३॥
दर्शयित्वा तु ते दुःखमल्पमृत्युसमुद्भवम् ॥
भूयः संप्राप्स्यति प्राणानचिरान्मे प्रसादतः ॥३४॥
भविष्यति च दीर्घायुस्ततो वंशधरो जयी ॥
सार्वभौमप्रधानश्च दानी यज्वा च धर्मवित् ॥३५॥
तस्माद्राजन्गृहं गत्वा कुरु राज्यमभीप्सितम् ॥
संप्राप्स्यसि सुतं श्रेष्ठं यादृशं कीर्तितं मया ॥३६॥
अन्योऽपि मानवो यो मां रूपेणा नेनसंस्थिताम् ॥
पूजयिष्यति चात्रैव समं देवेन शंभुना ॥३७॥
तस्याहं संप्रदास्यामि पुत्रान्हृदयवांछितान् ॥
तथान्यदपि यत्किंचिदचिरान्नात्र संशयः ॥३८॥
श्रीमहादेव उवाच ॥
भूय एव नृपश्रेष्ठ मत्तः प्रार्थय वांछितम् ॥
न वृथा दर्शनं मे स्यात्सत्यमेतद्ब्रवीमि ते ॥३९॥
 ॥ हरिश्चंद्र उवाच ॥
कृतकृत्योस्मि देवेश सर्वमस्ति गृहे मम ॥
पुत्रं त्यक्त्वा त्वया सोऽपि दत्तो वंशधरो जयी ॥४०॥
तथापि न तवादेशो व्यर्थः कार्यः कथंचन ॥
एतस्मात्कारणाद्देव याचयिष्यामि वांछितम् ॥४१॥
राजसूयकृतेऽस्माकं सदा बुद्धिः प्रवर्तते ॥
निषेधयंति मां सर्वे मन्त्रिणः सुहृदस्तदा ॥४२॥
सर्वैस्तैर्जायते यज्ञः पार्थिवैः करदीकृतैः ॥
युद्धं विना करं तेऽपि न यच्छन्ति यतो विभो ॥४३॥
ततो युद्धार्थिनं मां ते वारयंति हितैषिणः ॥
कृतोत्साहं मखप्राप्तौ नीतिमार्गसमाश्रिताः ॥४४॥
तस्मात्तव प्रसादेन राजसूयो भवेन्मखः ॥
अविघ्नः सिद्धिमायातु मम नान्यद्वृणोम्यहम् ॥४५॥
 ॥ सूत उवाच ॥
स तथेति प्रतिज्ञाय जगामादर्शन हरः ॥
सोऽपि लब्धवरो भूपः स्वमेव भवनं गतः ॥४६॥
एवं तेन नरेन्द्रेण पूर्वं तत्र विनिर्मितौ ॥
उमामहेश्वरौ पश्चान्निर्मितावितरैरपि ॥४७॥
यस्ताभ्यां कुरुते पूजां संप्राप्ते पंचमी दिने ॥
फलैः सर्वेषु गात्रेषु यावत्संवत्सरं द्विजाः ॥
सुतं प्राप्नोति सोऽभीष्टं स्ववंशोद्धरणक्षमम् ॥४८॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्य उमामहेश्वरोत्पत्तिमाहात्म्यवर्णनंनामाष्टाचत्वारिंशत्तमोऽध्यायः ॥४८॥

N/A

References : N/A
Last Updated : December 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP