नागरखण्डः - अध्याय ६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
सूत उवाच ॥
तच्छ्रुत्वा वचनं तस्य त्रिशंकोर्मुनिपुंगवः ॥
विश्वामित्रोऽब्रवीद्वाक्यं किंचिल्लज्जासमन्वितः ॥१॥
मा विषादं महीपाल विषयेऽत्र करिष्यसि ॥
अनेनैव शरीरेण त्वां नयिष्याम्यहं दिवम् ॥२॥
तत्तत्कर्म करिष्यामि स्वर्गार्थे नृपसत्तम ॥
तवाभीष्टं करिष्यामि किं वा यास्यामि संक्षयम् ॥३॥
एवमुक्त्वा परं कोपं कृत्वोपरि दिवौकसाम् ॥
उवाच च ततो रौद्रं प्रत्यक्षं तस्य भूपतेः ॥४॥
यथा मया द्विजत्वं हि स्वयमेवार्जितं बलात् ॥
तथा सृष्टिं करिष्यामि स्वकीयां नात्र संशयः ॥५॥
ततस्तं स समालोक्य शंकरं शशिशेखरम् ॥
प्रणम्य विधिवद्भक्त्या स्तुतिं चक्रे महामुनिः ॥६॥
विश्वामित्र उवाच ॥
जय देव जयाचिंत्य जय पार्वतिवल्लभ ॥
जय कृष्ण जगन्नाथ जय कृष्ण जगद्गुरो ॥७॥
जयाचिंत्य जयामेय जयानंत जयाच्युत ॥
जयामर जयाजेय जयाव्यय सुरेश्वर ॥८॥
जय सर्वग सर्वेश जय सर्वसुराश्रय ॥
जय सर्वजनध्येय जय सर्वाघनाशन ॥९॥
त्वं धाता च विधाता च त्वं कर्ता त्वं च रक्षक ॥
चतुर्विधस्य देवेश भूतग्रामस्य शंकर ॥१०॥
यथा तिलस्थितं तैलं यथा दधिगतं घृतम् ॥
तथैवाधिष्ठितं कृत्स्नं त्वया गुप्तेन वै जगत् ॥११॥
त्वं ब्रह्मा त्वं हृषीकेशस्त्वं शक्रस्त्वं हुताशनः ॥
त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्दुस्त्वं दिवाकरः ॥१२॥
अथवा बहुनोक्तेन किं स्तवेन तव प्रभो ॥
समासादेव वक्ष्यामि विभूतिं श्रुतिनोदिताम् ॥१३॥
यत्किंचित्त्रिषु लोकेषु स्थावरं जंगमं विभो ॥
तत्सर्वं भवता व्याप्तं काष्ठं हव्यभुजा यथा ॥१४॥
श्रीभगवानुवाच ॥
परितुष्टोऽस्मि भद्रं ते वरं प्रार्थय सन्मुने ॥
यत्ते हृदि स्थितं नित्यं सर्वं दास्याम्यसंशयम् ॥१५॥
विश्वामित्र उवाच ॥
यदि तुष्टोसि देवेश यदि देयो वरो मम ॥
तन्मे स्यात्सृष्टिमाहात्म्यं त्वत्प्रसादान्महेश्वर ॥१६॥
एवमस्त्विति तं चोक्त्वा भगवान्वृषभध्वजः ॥
सर्वैर्गणैः समायुक्तस्ततश्चादर्शनं गतः ॥१७॥
विश्वामित्रोऽपि तत्रैव स्थितो ध्यानपरायणः ॥
चक्रे चतुर्विधां सृष्टिं स्पर्द्धया हंसगामिनः ॥१८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वक्षेत्रमाहात्म्ये त्रिशंकूपाख्याने विश्वामित्रवरलब्धिर्नाम षष्ठोऽध्यायः ॥६॥
N/A
References : N/A
Last Updated : December 18, 2024
TOP