संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय ९५

नागरखण्डः - अध्याय ९५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
अथान्यापि च तत्रास्ति देशकामप्रदा नृणाम् ॥
अजापालेन भूपेन स्थापिता पापनाशनी ॥१॥
तां च शुक्लचतुर्दश्यामजापालेश्वरीं नरः ॥
यो वै पूजयते भक्त्या धूपपुष्पानुलेपनैः ॥
स प्राप्नोतीप्सितान्कामान्दुर्लभा सर्वमानवैः ॥२॥
तस्या देव्याः प्रसादेन सत्यमेतन्मयोदितम् ॥
अजापालो महीपालः पुराऽऽसीत्संमतः सताम् ॥३॥
हितकृत्सर्वलोकस्य यथा माता यथा पिता ॥
तेन राज्यं समासाद्य पितृपैतामहं शुभम् ॥४॥
चिंतितं मनसा पश्चात्स्वयमेव महात्मना ॥
मया तत्कर्म कर्तव्यं यदन्यैरिह भूमिपैः ॥
न कृतं न करिष्यंति ये भविष्यन्त्यतः परम् ॥५॥
एष एव परो धर्मो भूपतीनामुदाहृतः ॥
यत्प्रजापालनं शश्वत्तासां च सुखसंस्थितिः ॥६॥
यथायथा करं भूपास्ता मां गृह्णंति लोलुपाः ॥
तथातथा मनःक्षोभो हृदये संप्रजायते ॥७॥
न करेण विना भूपा हस्त्यश्वादिबलं च यत् ॥
शक्नुवंति परित्रातुं पादातं च विशेषतः ॥८॥
विना तेन स गम्यः स्यान्नीचानामपि सत्वरम् ॥
एतस्मात्कारणाद्भूपाः करं गृह्णंति लोकतः ॥९॥
तस्मान्मया विनाप्याशु नागैश्चैव नरैस्तथा ॥
तपः शक्त्या प्रकर्तव्यं राज्यं निहतकण्टकम् ॥१०॥
करानगृह्णता तेन लोकान्रंजयता सदा ॥
अन्येषां भूमिपालानां विशेषेण महात्मनाम् ॥११॥
एवं चित्ते समाधाय वसिष्ठं मुनिपुंगवम् ॥
पुरोधसं समाहूय ततः प्रोवाच सादरम् ॥१२॥
अत्र भूमितले विप्र सर्वेषां तीर्थमुत्तमम् ॥
अल्पकालेन सन्तुष्टिं यत्र याति महेश्वरः ॥
वासुदेवोऽथवा ब्रह्मा ह्येतच्छीघ्रं वदस्व मे ॥१३॥
येनाहं सर्वलोकस्य हितार्थं तप आददे ॥
न स्वार्थं ब्राह्मणश्रेष्ठ सत्येनात्मानमालभे ॥१४॥
 ॥ वसिष्ठ उवाच ॥
तिस्रः कोट्योर्धकोटी च तीर्थानामिह भूतले ॥
संति पार्थिवशार्दूल प्रभावसहितानि च ॥१५॥
अष्टषष्टिस्तथा राजन्क्षेत्राणामस्ति भूतले ॥
येषां सांनिध्यमभ्येति सर्वदैव महेश्वरः ॥१६॥
तथा सर्वे सुरास्तुष्टा ब्रह्मविष्णु शिवादयः ॥
परं सिद्धिप्रदं शीघ्रं मानुषाणां महीपते ॥१७॥
हाटकेश्वरदेवस्य क्षेत्रं पातकनाशनम् ॥
देवानामपि सर्वेषां तुष्टिं गच्छति चंडिका ॥१८॥
शीघ्रमाराधिता सम्यक्छ्रद्धायुक्तैर्नरैर्भुवि ॥
तस्मात्तत्क्षेत्रमासाद्य तां देवीं श्रद्धयान्वितः ॥
आराधय महाभाग द्रुतं सिद्धिमवाप्स्यसि ॥१९॥
एवमुक्तः स तेनाथ गत्वा तत्क्षेत्रमुत्तमम् ॥
प्रतिष्ठाप्य च देवीं तां पूजयामास भक्तितः ॥२०॥
ब्रह्मचर्यपरो भूत्वा शुचिर्व्रतपरायणः ॥
नियतो नियताहारस्त्रिकालं स्नानमाचरन् ॥२१॥
एवमाराध्यतस्तत्र गन्धपुष्पानुलेपनैः ॥
पूजापरस्य सा देवी तस्य तुष्टिं ततो गता ॥२२॥
 ॥देव्युवाच ॥
परितुष्टास्मि ते वत्स व्रतेनानेन नित्यथः ॥
बलिपूजाविधानेन विहितेनामुना स्वयम् ॥२३॥
तद्ब्रूहि येन ते सर्वं प्रकरोमि हृदि स्थितम् ॥
सद्य एव महीपाल त्रिदशैरपि दुर्लभम् ॥२४॥
 ॥राजोवाच ॥
लोकानां हितकामेन मयैतद्व्रतमाहृतम् ॥
येन तेषां भवेत्सौख्यं मत्प्रसादादनुत्तमम् ॥२५॥
तस्माद्देहि महाभागे ज्ञानयुक्तानि भूरिशः ॥
ममास्त्राणि विचित्राणि स्वैरगाणि समन्ततः ॥२६॥
यानि जानंति भूपृष्ठे मम पार्श्वे स्थितान्यपि ॥
अपराधं सदा लोके परदारादि यत्कृतम् ॥२७॥
अनुरूपं ततस्तस्य पातकस्य विनिग्रहम् ॥
प्रकुर्वंति मिथो येन न तेषां संकरो भवेत् ॥२८॥
मंत्रग्रामं तथा देवि मम देहि पृथग्विधम् ॥
निग्रहं व्याधिसत्त्वानां येन शीघ्रं करोम्यहम् ॥२९॥
येन स्युर्मनुजाः सर्वे मम राज्ये सुखान्विताः ॥
नीरोगाः पुष्टिसंपन्ना भयशोकविवर्जिताः ॥३०॥
नाहं देवि करिष्यामि हस्त्यश्वरथसंग्रहम् ॥
यतस्तेषां भवेत्पुष्टिर्वित्तैर्वित्तं करैर्भवेत् ॥
गृहीतैः सर्वलोकानां तस्मात्तन्न ममेप्सितम् ॥३१॥
 ॥ श्रीदेव्युवाच ॥
अत्यद्भुततरं कर्म त्वयैतत्पृथिवीपते ॥
प्रारब्धं यन्न केनापि कृतं न च करिष्यति ॥३२॥
तथाप्येवं करिष्यामि तव दास्यामि कृत्स्नशः ॥
ज्ञानयुक्तानि शस्त्राणि मंत्रग्रामं च तादृशम् ॥३३॥
गृह्यन्ते येन ते सर्वे व्याधयोऽपि सुदारुणाः ॥
परं सदैव ते रक्ष्या मन्मन्त्रैरपि संयुताः ॥३४॥
यदि दृष्टिपथात्तुभ्यं क्वचिद्यास्यंति दूरतः ॥
मानवान्पीडयिष्यंति चिरात्प्राप्याधिकं ततः ॥३५॥
यदा त्वं पृथिवीपाल स्वर्गं यास्यसि भूतलात् ॥
तदात्र सलिले स्थाप्या मदग्रे(*) यद्व्यवस्थितम् ॥३६॥
सर्वे मंत्रास्तथाऽस्त्राणि ममवाक्यादसंशयम् ॥
येन स्यात्पूर्ववत्सर्वो व्यवहारो नृपोद्भवः ॥३७॥
 ॥सूत उवाच ॥
बाढमित्येव तेनोक्ते तत्क्षणाद्द्विजसत्तमाः ॥
प्रादुर्भूतानि दिव्यानि तस्यास्त्राणि बहूनि च ॥३८॥
ज्ञानसंपत्प्रयुक्तानि यादृशानि महात्मना ॥
तेन संयाचितान्येव व्याधिमंत्रास्तथैव च ॥३९॥
व्याधयो यैश्च गृह्यंते मुच्यंते स्वेच्छया सदा ॥
सुखेन परिपाल्यंते दृष्टिगोचरसंस्थिताः ॥४०॥
ततस्तं सकलं प्राप्य प्रसादं चंडिकोद्भवम् ॥
तच्च हस्त्यादिकं सर्वं ब्राह्मणेभ्यो ददौ नृप ॥४१॥
एकां मुक्त्वा निजां भार्यामेकं दशरथं सुतम् ॥
तांश्चापि सकलान्व्याधीन्मंत्रैः संयम्य यत्नतः ॥४२॥
अजारूपान्स्वयं पश्चाद्यष्टिमादाय रक्षति ॥
एवं तस्य नरेन्द्रस्य वर्तमानस्य भूतले ॥४३॥
गुप्तोऽपि नापराधः स्यात्कस्यचित्प्रकटः कुतः ॥
प्रमादाद्यदि भूलोके कश्चित्पापं समाचरेत् ॥४४॥
तद्रूपो निग्रहस्तस्य तत्क्षणादेव जायते ॥
वधं वा यदि वा बंधं क्लेशं चाऽरातिसंभवम् ॥४५॥
अदृष्टान्यपि शस्त्राणि तानि कुर्वंति तत्क्षणात् ॥
अन्येषां च महीपानां राज्ये गुप्तान्यनेकशः ॥
कुर्वन्ति मनुजास्तेषां चक्रे वैवस्वतो ग्रहम् ॥४६॥
न तत्र भयसंत्रस्तस्ततः पापसमाचरेत् ॥
प्रत्यक्षं वा विशेषेण ज्ञात्वा शस्त्रभयं च तत् ॥४७॥
ततस्ते पापनिर्मुक्ता लोकाः संशुद्धगात्रकाः ॥
रोगेषु निगृहीतेषु प्राप्ताः सुखमनुत्तमम् ॥४८॥
एवं स्थितेषु लोकेषु गतपापामयेषु च ॥
प्रयाताः शून्यतां सर्वे नरका ये यमालये ॥४९॥
न कश्चिन्नरकं याति न च मृत्युपथं नरः ॥
यथा कृतयुगं तादृक्त्रेतायामपि संस्थितम् ॥५०॥
व्यवहारे ततो नष्टे यमलोकसमुद्भवे ॥
स्वर्गेण तुल्यतां प्राप्ते प्राणिभिर्मृत्युवर्जितैः ॥५१॥
ततो वैवस्वतो गत्वा ब्रह्मणः सदनं प्रति ॥
प्रोवाच दुःखसंपन्नः प्रणिपत्य पितामहम् ॥५२॥
अहं पुरा त्वया देव धर्माधर्मदिदृक्षया ॥
मानुषाणां समादिष्टो निग्रहानुग्रहं प्रति ॥५३॥
अजापालेन भूपेन तत्सर्वं विफलीकृतम् ॥
तपःशक्त्या सुरश्रेष्ठ देवीमाराध्य चंडिकाम् ॥५४॥
नाधयो व्याधयस्तत्र न पापानि महीतले ॥
कस्यचिद्देव जायंते यथा कृतयुगे तथा ॥५५॥
तस्मात्कुरु सुरश्रेष्ठ पुनरेव यथा पुरा ॥
मदीयभवने कृत्स्नो व्यवहारः प्रजायते ॥५६॥
तस्य तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥
समीप उपविष्टस्य शिवस्याऽऽस्यं व्यलोकयत् ॥९७॥
अथाब्रवीत्प्रहस्योच्चैस्त्रिनेत्रश्चतुराननम् ॥
अत्यद्भुततमां श्रुत्वा तां वार्तां यमसंभवाम् ॥५८॥
 ॥ महेश्वर उवाच ॥
धर्ममार्गप्रवृत्तस्य सदाचारस्य भूपतेः ॥
कथं निवारणं तत्र क्रियते कश्च निग्रहः ॥५९॥
तस्मात्तेन महीपेन यस्मान्मार्गः प्रदर्शितः ॥
अपूर्वो धर्मसंभूतः कृतः सम्यङ्महात्मना ॥६०॥
तन्मयापि यथा चास्य प्रसादः सुरसत्तम ॥
अपूर्वः करणीयश्च यथा धर्मो न दुष्यति ॥६१॥
एवमुक्त्वा चतुर्वक्त्रं यमं प्राह ततः शिवः ॥
वदायुषोऽस्य यच्छेषमजापालस्य भूपतेः ॥
येन तत्समये प्राप्ते तं नयामि निजालयम् ॥६२॥
 ॥ यम उवाच ॥
पञ्चवर्षसहस्राणि तस्यातीतानि चायुषः ॥
तिष्ठंति पञ्चपञ्चाशत्प्रतीक्ष्येऽहं ततः कथम् ॥६३॥
यावत्कालं सुरश्रेष्ठ शून्ये जाते स्व आश्रये ॥
तस्मात्कुरु द्रुतं कंचिदुपायं तद्विनाशने ॥६४॥
एवमुक्ते यमेनाथ तं विसृज्य गृहं प्रति ॥
व्याघ्ररूपं समास्थाय स्वयं तत्संनिधौ ययौ ॥६५॥
यत्र संस्थो महीपः स प्रजापालनतत्परः ॥
मेघगम्भीरनिर्घोषं गर्जमानो मुहुर्मुहुः ॥६६॥
अजास्तास्तं च संवीक्ष्य व्याघ्रं रौद्रवपुर्द्धरम् ॥
अजापालं समुद्दिश्य संत्रस्ताः शरणं गताः ॥६७॥
तस्य यत्नपरस्यापि रक्षमाणस्य भूपतेः ॥
अजास्ता व्याघ्ररूपेण शंकरेण प्रभक्षिताः ॥६८॥
अजानां कदनं दृष्ट्वा ततः स पृथिवीपतिः ॥
स्वहस्ताद्यष्टिमुत्सृज्य जग्राह निशितायुधम् ॥६९॥
यत्तस्य तुष्टया दत्तं चंडं चंडार्चिषा समम् ॥
तच्छस्त्रं च तथान्यानि देवीदत्तानि शंकरः ॥
शनैःशनैः प्रजग्राह स्ववक्त्रेण महेश्वरः ॥७०॥
अस्त्राभावात्ततस्तूर्णं ध्रियमाणेऽपि कांतया ॥
द्वंद्वयुद्धेन तं व्याघ्रं योधयामास भूपतिः ॥७१॥
ततस्तस्यांगसंस्पर्शान्मुक्त्वा व्याघ्रतनुं च ताम् ॥
दधार भस्मसंदिग्धां तनुं चन्द्रविभूषिताम् ॥७२॥
रुंडमालावरां दिव्यां सखट्वांगां सपन्नगाम् ॥
तां दृष्ट्वा स महीपालः सभार्यः प्रणतस्ततः ॥७३॥
प्रोवाचाथ स्तुतिं कृत्वा विनयावनतः स्थितः ॥
आनंदाश्रुपरिक्लिन्नो हर्षगद्गदया गिरा ॥७४॥
 ॥ राजोवाच ॥
अज्ञानाद्यन्मया देव प्रहारास्तव निर्मिताः ॥
तिरस्कारस्तथा दत्तस्तत्सर्वं क्षम्यतां विभो ॥७५॥
 ॥ श्रीभगवानुवाच ॥
क्षांत एष मया पुत्र तव सर्वः पराभवः ॥
परितुष्टेन ते कर्म दृष्ट्वा चैवातिमानुषम् ॥७६॥
यथा कृतं त्वया राज्यं प्रजाः संरक्षिता नृप ॥
तथान्यो भूपतिः कश्चिन्न कर्ता न करिष्यति ॥७७॥
तस्माद्गच्छ मया सार्धं पाताले पार्थिवोत्तम ॥
अनेनैव शरीरेण धर्मपत्न्यानया सह ॥७८॥
नातः परं त्वया स्थेयं मर्त्यलोके कथंचन ॥
विरुद्धं सर्वदेवानां यतः कर्म त्वदुद्भवम् ॥७९॥
 ॥ राजोवाच ॥
एवं देव करिष्यामि गत्वाऽयोध्यां महापुरीम् ॥
पुत्रं राज्ये प्रतिष्ठाप्य मंत्रिणां संनिवेद्य च ॥८०॥
तथाहं देव देव्या च प्रोक्तः संतुष्टया पुरा ॥
मन्त्रग्रामो यया दत्तः शस्त्राणि विविधानि च ॥८१॥
यदा त्वं त्यजसि प्राज्ञ मर्त्यलोकं सुदुस्त्यजम् ॥
तदात्र मामके कुण्डे प्रक्षेप्तव्यानि कृत्स्नशः ॥८२॥
तानि चार्पय मे भूयो येनानृण्यं व्रजाम्यहम् ॥
तस्या देव्याः सुराधीश त्वत्प्रसादेन सांप्रतम् ॥८३॥
एवमुक्तस्ततस्तेन भगवांस्त्रिपुरांतकः ॥
आज्ञाप्य तानि सर्वाणि ददौ तत्र द्रुतं गतः ॥८४॥
अब्रवीच्च सुतस्तत्र स्वयं राजा भविष्यति ॥
वीर्यौदार्यसमोपेतो वंशस्योद्धरणक्षमः ॥८५॥
त्वं चागच्छ मया सार्धमद्यैव मम मंदिरे ॥
प्रविश्यात्र जले पुण्ये देवीकुण्डसमुद्भवे ॥८६॥
अद्य माघचतुर्दश्यां शुक्लायामपरोऽपि यः ॥
देवीमिमां च संपूज्य जलेऽस्मिन्भक्तिसंयुतः ॥८७॥
करिष्यति प्रवेशेन प्राणत्यागं नृपोत्तम ॥
स च यास्यति यत्रास्ते पाताले हाटकेश्वरः ॥८८॥
स्नानं वा पार्थिवश्रेष्ठ यः करिष्यति मानवः ॥
अष्टोत्तरशतं तस्य व्याधीनां न भविष्यति ॥८९॥
एवमुक्त्वा तमादाय नृपं भार्यासमन्वितम् ॥
अजाभिस्ताभिरस्त्रैश्च तैश्चापि परमेश्वरः ॥
प्रविवेश जले तस्मिन्देवीकुण्डसमुद्भवे ॥९०॥
ततश्च मंदिरं नीतः स्वकीयं द्विजसत्तमाः ॥
तेनैव नरदेहेन स कलत्रसमन्वितः ॥९१
अद्यापि तिष्ठते तत्र जरामरणवर्जितः ॥
पूजयानश्च तं देवं पाताले हाटकेश्वरम् ॥९२॥
एवं तत्र समुद्भूता सा देवी परमेश्वरी ॥
स्थापिता तेन भूपेन श्रद्धापूतेन चेतसा ॥९३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्येऽजापालेश्वरीमाहात्म्यवर्णनंनाम पञ्चनवतितमोऽध्यायः ॥९५॥

N/A

References : N/A
Last Updated : December 26, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP