नागरखण्डः - अध्याय १०९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ईश्वर उवाच ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि वरानने ॥
सर्वेषामेव तीर्थानां सारं तीर्थसमुच्चयम् ॥१॥
एतेष्वहं वरारोहे सर्वेष्वेव व्यवस्थितः ॥
नाम्ना चान्येषु तीर्थेषु त्रिदशानां हितार्थतः ॥२॥
यो मामेतेषु तीर्थेषु स्नात्वा पश्यति मानवः ॥
कीर्तयेत्कीर्तनान्नाम्ना स नूनं मोक्षमाप्नुयात् ॥३॥
॥ श्रीदेव्युवाच ॥
येषु तीर्थेषु यन्नाम कीर्तनीयं तव प्रभो ॥
तत्कार्त्स्येन मम ब्रूहि यच्चहं तव वल्लभा ॥४॥
॥ ईश्वर उवाच ॥
वाराणस्यां महादेवं प्रयागे च महेश्वरम् ॥
नैमिषे देवदेवं च गयायां प्रपितामहम् ॥५॥
कुरुक्षेत्रे विदुः स्थाणुं प्रभासे शशिशेखरम् ॥
पुष्करे तु ह्यजागन्धिं विश्वं विश्वेश्वरे तथा ॥६॥
अट्टहासे महानादं महेन्द्रे च महाव्रतम् ॥
उज्जयिन्यां महाकालं मरुकोटे महोत्कटम् ॥७॥
शंकुकर्णे महातेजं गोकर्णे च महाबलम् ॥
रुद्रकोट्यां महायोगं महालिंगं स्थलेश्वरे ॥८॥
हर्षिते च तथा हर्षं वृषभं वृषभध्वजे ॥
केदारे चैव ईशानं शर्वं मध्यमकेश्वरे ॥९॥
सुपर्णाक्षं सहस्राक्षे सुसूक्ष्मं कार्तिकेश्वरे ॥
भवं वस्त्रापथे देवि ह्युग्रं कनखले तथा ॥१०॥
भद्रकर्णे शिवं चैव दण्डके दण्डिनं तथा ॥
ऊर्ध्वरेतं त्रिदण्डायां चण्डीशं कृमिजांगले ॥११॥
कृत्तिवासं तथैकाम्रे छागलेये कपर्दिनम् ॥
कालिञ्जरे नीलकण्ठं श्रीकण्ठं मण्डलेश्वरे ॥१२॥
विजयं चैव काश्मीरे जयन्तं मरुकेश्वरे ॥
हरिश्चन्द्रे हरं चैव पुरश्चन्द्रे च शंकरम् ॥१३॥
जटिं वामेश्वरे विन्द्यात्सौम्यं वै कुक्कुटेश्वरे ॥
भूतेश्वरं भस्मगात्रे ओंकारेऽमरकण्टकम् ॥१४॥
त्र्यंबकं च त्रिसंध्यायां विरजायां त्रिलोचनम् ॥
दीप्तमर्केश्वरे ज्ञेयं नेपाले पशुपालकम् ॥१५॥
यमलिंगं च दुष्कर्णे कपाली करवीरके ॥
जागेश्वरे त्रिशूली च श्रीशैले त्रिपुरांतकम् ॥१६॥
रोहणं तु अयोध्यायां पाताले हाटकेश्वरम् ॥
कारोहणे नकुलीशं देविकायामुमापतिम् ॥१७॥
भैरवे भैरवाकारममरं पूर्वसागरे ॥
सप्तगोदावरे भीमं स्वयंभूर्निर्मलेश्वरे ॥१८॥
कर्णिकारे गणाध्यक्षं कैलासे तु गणाधिपम् ॥
गंगाद्वारे हिमस्थानं जल लिंगे जलप्रियम् ॥१९॥
अनलं वाडवेऽग्नौ च भीमं बदरिकाश्रमे ॥
श्रेष्ठे कोटीश्वरं चैव वाराहं विन्ध्यपर्वते ॥२०॥
हेमकूटे विरूपाक्षं भूर्भुवं गन्धमादने ॥
लिंगेश्वरे च वरदं लंकायां च नरांतकम् ॥२१॥
अष्टषष्टिरियं देवि तवाख्याता विशेषतः ॥
पठतां शृण्वतां वापि सर्वपातकनाशिनी ॥२२॥
तस्मात्सर्वप्रयत्नेन कीर्तनीया विचक्षणैः ॥
कालत्रयेऽपि शुचिभिर्विशेषाच्छिवदीक्षितैः ॥२३॥
लिखितापि वरारोहे यस्यैषा तिष्ठते गृहे ॥
न तत्र जायते दोषो भूतप्रेतसमुद्भवः ॥२४॥
न व्याधेर्न च सर्पाणां न चौराणां वरानने ॥
नान्येषां भूभुजादीनां कदाचिदपि कुत्रचित् ॥२५॥
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्येऽष्टषष्टितीर्थमाहात्म्य कथनंनाम नवोत्तरशततमोध्यायः ॥१०९॥ छ ॥
N/A
References : N/A
Last Updated : December 29, 2024
TOP