संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २०२

नागरखण्डः - अध्याय २०२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ विश्वामित्र उवाच ॥
तच्छ्रुत्वा ब्राह्मणाः सर्वे विनयावनताः स्थिताः ॥
तं पप्रच्छुर्नरश्रेष्ठ कौतुकाविष्टचेतसः ॥१॥
कस्यचिन्निर्णयो देयो मध्यस्थस्य द्विजोत्तमैः ॥
वेदवाक्येन संत्यज्य वाक्यं मनुजसंभवम् ओ ॥२॥
कस्मात्तालत्रयं देयं मध्यगेन महात्मना ॥
एतन्नः सर्वमाचक्ष्व परं कौतूहलं हि नः ॥३॥
तच्छ्रुत्वा भर्तृयज्ञस्तु तानुवाच द्विजोत्तमान् ॥
श्रूयतामभिधास्यामि यदेतत्कारणं स्थितम् ॥४॥
नासत्यं जायते वाक्यं नागराणां कथंचन ॥
ब्रह्मशालास्थितानां च शुभं वा यदि वाऽशुभम् ॥५॥
वेदोक्तेः सवनैस्तस्माद्दर्शयंति द्विजोत्तमाः ॥
इष्टं वा यदि वानिष्टं पृच्छमानस्य चा र्थिनः ॥६॥
भूयोभूयस्ततः कुर्यान्मध्यस्थः स द्विजन्मनाम् ॥
प्रश्नं तस्य निमित्तं च यावत्तस्य विनिर्णयः ॥७॥
ब्रह्मशालोपविष्टानां यदि वाक्यं वृथा भवेत् ॥
माहात्म्यं नश्यते तेषां ततः क्रोधः प्रजायते ॥८॥
क्रोधात्सञ्जायते द्रोहो द्रोहात्पापस्य संगमः ॥
एतस्मात्कारणाद्विप्रा मध्यस्थः पृच्छ्यते मुहुः ॥९॥
समुदायः समस्तानां यथा चैव प्रजायते ॥
तदा तालत्रयं यच्च मध्यस्थः संप्रयच्छति ॥१०॥
तासां तु पूर्वया कामं हंति पृच्छाप्रदायिनाम् ॥
द्वितीयया तथा क्रोधं हंति लोभं तृतीयया ॥११॥
एतस्मात्कारणाद्देयं तेन तालत्रयं द्विजाः ॥१२॥
 ॥ ब्राह्मणा ऊचुः ॥
आथर्वणश्चतुर्थस्तु ब्राह्मणः परिकीर्तितः ॥
स कस्मात्प्रथमः प्रश्नो नागराणां प्रकीर्तितः ॥१३॥
 ॥ भर्तृयज्ञ उवाच ॥
आथर्वः प्रथमः प्रश्नो यस्मात्प्रोक्तो मया द्विजाः ॥
तदहं संप्रवक्ष्यामि शृणुध्वं सुसमाहिताः ॥१४॥
नेर्ष्या चैवात्र कर्तव्या स्वस्थानस्य विनाशनी ॥
निरूपितं मया सम्यक्स्थानस्थस्य विशुद्धये ॥१५॥
ऋग्यजुःसामसंज्ञाख्या अग्निष्टोमादिका मखाः ॥
पारत्रिकाः प्रवर्तंते नैहिकाश्चाभिचारिकाः ॥१६॥
अथर्ववेदे तच्चोक्तं सर्वं चैवाभिचारिकम् ॥
हिताय सर्वलोकानां ब्रह्मणा लोककारिणा ॥१७॥
अथर्ववेदः प्रथमं द्रष्टव्यः कार्यसिद्धये ॥
एतस्मात्कारणादाद्यः स चतुर्थोऽपि संस्थितः ॥१८॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥
पृच्छा संबंधजं सर्वमेकं कार्यं सदैव हि ॥१९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये भर्तृयज्ञवाक्यनिर्णयवर्णनंनाम द्व्युत्तरद्विशततमोऽध्यायः ॥२०२॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP