संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय १७५

नागरखण्डः - अध्याय १७५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
एवं संशोचते यावदात्मानं परिगर्हयन् ॥
ततस्तु ब्रह्मणा प्रोक्तः स्वयमभ्येत्य भो द्विजाः ॥१॥
त्वया शंका न कर्तव्या सुतस्यास्य कृते द्विज ॥
अज्ञानादेव ते जातो दैवयोगेन बालकः ॥२॥
 ॥याज्ञवल्क्य उवाच ॥
तथापि देव मे शुद्धिर्हृदयस्य न जायते ॥
तस्माद्वद सुरश्रेष्ठ प्रायश्चित्तं विशुद्धये ॥३॥
 ॥ ब्रह्मोवाच ॥
यदि ते चित्तशुद्धिस्तु न कथंचित्प्रवर्तते ॥
तत्स्थापय महाभाग लिंगं देवस्य शूलिनः ॥४॥
अज्ञानाज्ज्ञानतोवापि यत्पापं कुरुते नरः ॥
ब्रह्महत्यादिकं चापि स्त्रीवधाद्वापि यद्भवेत् ॥५॥
पंचेष्टिकामयं वापि यः कुर्याद्धरमन्दिरम् ॥
तस्य तन्नाशमायाति तमः सूर्योदये यथा ॥६॥
विशेषेण महाभाग हाटकेश्वरसंभवे ॥
क्षेत्रे तत्र सुमेध्ये तु सर्वपातकनाशने ॥७॥
कलिकाले च संप्राप्ते यत्र पापं न विद्यते ॥
अहमप्यत्र वांछामि यज्ञं कर्तुं द्विजोत्तम ॥८॥
आनयिष्यामि तत्तीर्थं पुष्करं चात्मनः प्रियम् ॥
कलिकालभयाच्चैतद्यावन्नो व्यर्थतां व्रजेत् ॥९॥
कलिकाले तु संप्राप्ते तीर्थानि सकलानि च ॥
यास्यंति व्यर्थतां विप्र मुक्त्वेदं क्षेत्रमुत्तमम् ॥१०॥
 ॥ सूत उवाच ॥
एवमुक्त्वा चतुर्वक्त्रस्ततश्चादर्शनं गतः ॥
याज्ञवल्क्योऽपि तच्छ्रुत्वा पितामहवचोऽ खिलम् ॥११॥
लिंगं संस्थापयामास ज्ञात्वा क्षेत्रमनुत्तमम् ॥
अब्रवीच्च ततो वाक्यं मेघगंभीरया गिरा ॥१२॥
अष्टम्यां च चतुर्दश्यां यो लिंगं मामकं त्विदम् ॥
स्नापयिष्यति सद्भक्त्या तस्य पापं प्रयास्यति ॥१३॥
परदारकृतं यच्च मात्रापि च समं कृतम् ॥
क्षालयिष्यति तत्पापं स्नापितं पूजितं परैः ॥१४॥
अस्मिन्नहनि संप्राप्ते तस्य पक्षसमुद्भवम् ॥
प्रयास्यति कृतं पापं यदज्ञानाद्विनिर्मितम् ॥१५॥
ततःप्रभृति विख्यातो याज्ञव ल्क्येश्वरः शुभः ॥
तस्मिन्क्षेत्रे द्विजश्रेष्ठा हाटकेश्वरसंज्ञके ॥१६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये याज्ञवल्क्येश्वरोत्पत्तिमाहात्म्यवर्णनंनाम पंचसप्तत्युत्तरशततमोऽध्यायः ॥१७५॥

N/A

References : N/A
Last Updated : December 31, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP