संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २७३

नागरखण्डः - अध्याय २७३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
एतेषां तु सहस्रेण भवेद्ग्राह्यं दिनं द्विजाः ॥
चतुर्दश सहस्राक्षा जायंते तत्र वासरे ॥१॥
सप्तमस्तु सहस्राक्षः सांप्रतं वर्ततेऽत्र यः ॥
एकसप्ततिसंवर्तचतुर्दशदिने विधेः ॥२॥
युगानां कुरुते राज्यं मनवश्च तथा परे ॥
स्वायंभुवप्रभृतयो यथा शक्रास्तथा स्थिताः ॥३॥
जायन्तो नाम शक्रोऽयं सांप्रतं वर्तते तु यः ॥
वैवस्वतो मनुश्चैव अष्टाविंशत्प्रमाणकः ॥४॥
चतुर्युगस्य संजातो गतेस्मिञ्छेषमात्रके ॥
भविष्यति बलिः शक्रो वासुदेवप्रसादतः ॥५॥
तेन तस्य प्रतिज्ञातं राज्यं चैवाष्टमे मनौ ॥६॥
एवं सर्वे सुराश्चान्ये त्रयस्त्रिंशत्प्रमाणतः ॥
कोटयः प्रभविष्यंति यथा चैव तथा पुरा ॥७॥
योऽयं ब्रह्मा स्थितो विप्राः सांप्रतं सृष्टिकारकः ॥
तस्यानेन प्रमाणेन जातं संवत्सराष्टकम् ॥८॥
षण्मासाश्च दिनार्धं च प्रथमं शुक्लपूर्वकम् ॥
सौरसावनचंद्रार्क्षैर्मानैरेभिश्चतुर्विधैः ॥९॥
कलौ निर्याति सर्वेषां भूतानां क्षितिमण्डले ॥
पंचषष्ट्याऽधिकैश्चैव दिनानां च शतैस्त्रिभिः ॥
भवेत्संवत्सरं सौरं पञ्चोनैस्तैश्च सावनम् ॥३.१०॥
चांद्र एकादशोनस्तु त्रिंशद्धीन उडूद्भवः ॥
शीतातपौ तथा वृष्टिः सौरमानेन जायते ॥११॥
वृक्षाणां फलनिष्पत्तिः सस्यानां च तथा परा  ॥
अग्निष्टोमादयो यज्ञा वर्तंते ये धरातले ॥१२॥
उत्साहाश्च विवाहाश्च सावनेन भवंति च ॥
कुसीदाद्याश्च ये केचिद्व्यवहाराश्च वृत्तिजाः ॥१३॥
अधिमासप्रयुक्तेन ते स्युश्चांद्रेण निर्मिताः ॥
नाक्षत्रेण तु मानेन सिध्यंते ग्रहचारिकाः ॥१४॥
नान्यत्किंचिद्धरापृष्ठ एतन्मानचतुष्टयात् ॥
एतेन तु प्रमाणेन देवदैत्याश्च मानवाः ॥१५॥
वर्त्तंते ब्राह्मणश्रेष्ठाः श्रुतिरेषा पुरातनी ॥
एतद्युगप्रमाणं तु यः पठेद्भक्तिसंयुतः ॥१६॥
एतेषामेव लिंगानां सप्तानां ब्राह्मणोत्तमाः ॥
नापमृत्यु भयं तस्य कथंचित्संभविष्यति ॥१७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये युगप्रमाणवर्णनंनाम त्रिसप्तत्युत्तरद्विशततमोऽध्यायः ॥२७३॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP