संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय १०५

नागरखण्डः - अध्याय १०५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
अथ प्राप्ते दिनाधीशे तुलायां द्विजसत्तमाः ॥
प्रेता लिंगोद्भवां भूमिं पूरयामासुरेव हि ॥१॥
यत्किंचित्तत्र संस्थं तु आद्यतीर्थं सुरालयम् ॥
तत्सर्वं व्यन्तरैस्तैश्च पांसुभिः परिपूरितम् ॥२॥
ततः क्षेमं समुत्पन्नं क्षेत्रे तत्र द्विजोत्तमाः ॥
अन्येषामपि लोकानां लिंगैस्तैर्लुप्तिमागतैः ॥३॥
कस्यचित्त्वथ कालस्य बृहदश्वो महीपतिः ॥
शाल्वदेशात्समायातः कस्मिश्चिद्युगपर्यये ॥४॥
स दृष्ट्वा विपुलां भूमिं प्रासादैः परिवर्जिताम् ॥
प्रासादार्थं मतिं चक्रे तत्र क्षेत्रे द्विजोत्तमाः ॥५॥
शिल्पिनश्च समाहूयानेकांस्तत्र सहस्रशः ॥
शोधयामास तां भूमिमधस्ताद्बहुविस्तृताम् ॥६॥
भूमौ निखन्यमानायां ततो लिंगानि भूरिशः ॥
चतुर्वक्त्राणि तान्येव यांति दृष्टेश्च गोचरम् ॥७॥
ततः स पार्थिवस्तैश्च लिंगैर्दृष्ट्वा वृतां भुवम् ॥
तत्क्षणान्मृत्युमापन्नः शिल्पिभिश्च समन्वितः ॥८॥
ततःप्रभृति नो तत्र कश्चिन्मर्त्यो महीतले ॥
प्रासादं कुरुते भीत्या तडागं कूपमेव च ॥९॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये राक्षसलिंगच्छेदनंनाम पञ्चोत्तरशततमोऽध्यायः ॥१०५॥

N/A

References : N/A
Last Updated : December 29, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP