संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २६२ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २६२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २६२ Translation - भाषांतर ॥ पार्वत्युवाच ॥ध्यानयोगमहं प्राप्य ज्ञानयोगमवाप्नुयाम् ॥तथा कुरुष्व देवेश यथाहममरी भव ॥१॥ ॥ ईश्वर उवाच ॥ ॥१प्रत्युक्तोऽयं मंत्रराजो द्वादशाक्षरसंज्ञितः ॥जप्तव्यः सुकुमारांगि वेदसारः सनातनः ॥२॥प्रणवः सर्ववेदाद्यः सर्वब्रह्मांडयाजकः ॥प्रथमः सर्वकार्येषु सर्वसिद्धिप्रदायकः ॥३॥सितवर्णो मधुच्छंदा ऋषिर्ब्रह्मा तु देवता ॥परमात्मा तु गायत्री नियोगः सर्वकर्मसु ॥४॥एतद्ब्रह्ममयं बीजं विश्वमत्र समन्वितम् ॥वेदवेदांग तत्त्वाख्यं सदसदूपमव्ययम् ॥५॥नकारः पीतवर्णस्तु जलबीजः सनातनः ॥बीजं पृथ्वी मनश्छन्दो विषहा विनियोगतः ॥६॥मोकारः पृथिवी बीजो विश्वामित्रसमन्वितः ॥रक्तवर्णो महातेजा धनदो विनियोजितः ॥७॥भकारः पंचवर्णस्तु जलबीजः सनातनः ॥मरीचिना समायुक्तः पूजितः सर्वभोगदः ॥८॥गकारो हेमरक्ताभो भरद्वाजसमन्वितः ॥वायुबीजो विनिर्योगं कुर्वतामादिभोगदः ॥९॥वकारः कुन्दधवलो व्योमबीजो महाबलः ॥ऋषिमंत्रिपुरस्कृत्य योजितो मोक्षदायकः ॥१०॥तकारो विद्युद्विकारः सोमबीजं महत्स्मृतम् ॥अंगिरावर्द्धमूलं च वर्जितं कर्मका मिकम् ॥११॥वाकारो धूम्रवर्णश्च सूर्यबीजं मनोजवम् ॥पुलस्त्यर्षिसमायुक्तं नियुक्तं सर्वसौख्यदम् ॥१२॥सुकारश्चाक्षरो नित्यं जपाकुसुम भास्वरः ॥मनो बीजं दुर्विषह्यं पुलहाश्रितमर्थिदम् ॥१३॥देकाराक्षरकं बीजं हंसरूपं च कर्बुरम् ॥सिद्धिबीजं महासत्त्वं क्रतौ क्रतुनियोजितम् ॥१४॥वाकारो निर्मलो नित्यं यजमानस्तु बीजभृत् ॥प्रचेताश्रियमाश्रेयं मोक्षे मोक्षप्रदायकम् ॥१५॥यकारस्य महाबीजं पिंगवर्णश्च खेचरी ॥भूचरी च महासिद्धिः सर्वदा भूविचिन्तनम् ॥१६॥भृगुयन्त्रे समाश्रांतिनियोगे सर्वकर्मकृत् ॥गायत्रीछंद एतेषां देहन्यासक्रमो भवेत् ॥१७॥ओंकारं सर्वदा न्यस्यन्नकारं पादयोर्द्वयोः ॥मोकारं गुह्यदेशे तु भकारं नाभिपंकजे ॥१८॥गकारं हृदये न्यस्य वकारः कण्ठ मध्यगः ॥तेकारं दक्षिणे हस्ते वाकारो वामहस्तगः ॥१९॥सुकारं मुखजिह्वायां देकारः कर्णयोर्द्वयोः ॥वाकारश्चक्षुषोर्द्वन्द्वे यकारं मस्तके न्यसेत् ॥२०॥लिंगमुद्रा योनिमुद्रा धेनुमुद्रा तथा त्रयम् ॥सकलं कृतमेतद्धि मंत्ररूपे बिजाक्षरम् ॥२१॥योजयेत्प्रत्यहं देवि न स पापैः प्रलिप्यते ॥एतद्द्वादशलिंगारं कूर्मस्थं द्वादशाक्षरम् ॥२२॥शालग्रामशिलाश्चैव द्वादशैव हि पूजिताः ॥ताभिः सहाकरैरेभिः प्रत्यक्षैः सह संसदि ॥२३॥यथावर्णमनुध्यानैर्मुनिबीजसमन्वितैः ॥विनियोगेन सहितैश्छन्दोभिः समलंकृतैः ॥२४॥ध्यानैजपैः पूजितैश्च भक्तानां मुनिसत्तम ॥मोक्षो भवति बन्धेभ्यः कर्मजेभ्यो न संशयः ॥२५८॥अयं हि ध्यानकर्माख्यो योगो दुष्प्राप्य एव हि ॥ध्यानयोगं पुनर्वच्मि शृणुष्वैकाग्रमानसा ॥२६॥ध्यानयोगेन पापानां क्षयो भवति नान्यथा ॥जपध्यानमयो योगः कर्मयोगो न संशयः ॥शब्दब्रह्मसमुद्भूतो वेदेन द्वादशाक्षरः ॥ध्यानेन सर्वमाप्नोति ध्यानेनाप्नोति शुद्धताम् ॥२८॥ध्यानेन परमं ब्रह्म मूर्त्तौ योगस्तु ध्यानजः ॥सावलम्बो ध्यानयोगो यन्नारायणदर्शनम् ॥२९॥द्वितीयो निखिलालम्बो ज्ञानयोगेन कीर्तितः ॥अरूपमप्रमेयं यत्सर्वकायं महः सदा ॥३०॥तडित्कोटिसमप्रख्यं सदोदितमखंडितम् ॥निष्कलं सकलं वापि निरंजनमयं वियत् ॥३१॥तत्स्वरूपं भोगरूपं तुर्यातीतमनोपमम् ॥विभ्रांतकरणं मूर्तं प्रकृतिस्थं च शाश्वतम् ॥३२॥दृश्यादृश्यमजं चैव वैराजं सततोज्ज्वलम् ॥बहुलं सर्वजं धर्म्यं निर्विकल्पमनीश्वरम् ॥३३॥अगोत्रं वरणं वापि ब्रह्मांडशतकारणम् ॥निरीहं निर्ममं बुद्धिशून्यरूपं च निर्मलम् ॥३४॥तदीशरूपं निर्देहं निर्द्वंद्वं साक्षिमात्रकम् ॥शुद्धस्फटिकसंकाशं ध्यातृध्येयविवर्जितम् ॥नोपमेयमगाधं त्वं स्वीकुरुष्व स्वतेजसा ॥३५॥ ॥ पार्वत्युवाच ॥तत्कथं प्राप्यते सम्यग्ज्ञानं योगिस्वरूपिणम् ॥नारायणममूर्तं च स्थानं तस्य वद प्रभो ॥३६॥ ॥ ईश्वर उवाच ॥शिरः प्रधानं गात्रेषु शिरसा धार्यते महान् ॥३७॥शिरसा पूजितो देवः पूजितं सकलं जगत् ॥शिरसा धार्यते योगः शिरसा ध्रियते बलम् ॥३८॥शिरसा ध्रियते तेजो जीवितं शिरसि स्थितम् ॥सूर्यः शिरो ह्यमूर्त्तस्य मूर्तस्यापि तथैव च ॥३९॥उरस्तु पृथिवीलोकः पादश्चैव रसातलम् ॥अयं ब्रह्मांडरूपे च मूर्त्तामूर्त्तस्वरूपतः ॥४०॥विष्णुरेव ब्रह्मरूपो ज्ञानयोगाश्रयः स्वयम् ॥सृजते सर्वभूतानि पालयत्यपि सर्वशः ॥४१॥विनाशयति सर्वं हि सर्वदेवमयो ह्ययम् ॥सर्वमासेष्वाधिपत्यं यस्य विष्णोः सनातनम् ॥४२॥तस्मात्सर्वेषु मासेषु सर्वेषु दिवसेष्वपि ॥सर्वेषु यामकालेषु संस्मरन्मुच्यते हरिम् ॥४३॥चातुर्मास्ये विशेषेण ध्यानमात्रात्प्रमुच्यते ॥अमूर्त्तसेवनं गंगातीर्थध्यानाद्वरं परम् ॥४४॥सर्वदानोत्तरं चैव चातुर्मास्ये न संशयः ॥सर्वमासकृतं पापं चातुर्मास्ये शुभाशुभम् ॥४५॥अक्षय्यं तद्भवेद्देवि नात्र कार्या विचारणा ॥तस्मात्सर्वप्रयत्नेन ज्ञानयोगो बहूत्तमः ॥४६॥सेवितो विष्णुरूपेण ब्रह्ममोक्षप्रदायकः ॥शृणुष्वावहिता भूत्वा मूर्त्तामूर्ते स्थितिं शुभे ॥४०७॥न कथ्येयं यस्य कस्य सुतस्याप्य परस्य च ॥अदांतायाथ दुष्टाय चलचित्ताय दांभिके ॥४८॥स्ववाक्च्युताय निंद्याय न वाच्या योगजा कथा ॥नित्यभक्ताय दांताय शमादि गुणिने तथा ॥४९॥ ॥विष्णुभक्ताय दातव्या शूद्रायापि द्विजन्मने ॥अभक्तायाप्यशुचये ब्रह्मस्थानं न कथ्यते ॥५०॥मद्भक्त्या योगसिद्धिं त्वं गृहाणाशु तपोधने ॥अभूतं ज्ञानगम्यं तं विद्धि नारायणं परम् ॥५१॥नादरूपेण शिरसि तिष्ठंतं सर्वदेहिनाम् ॥स एव जीवशिरसि वर्त्तते सूर्यबिंबवत् ॥५२॥सदोदितः सूक्ष्मरूपो मूर्त्तो मूर्त्या प्रणीयते ॥अभ्यासेन सदा देवि प्राप्यते परमात्मकः ॥५३॥शरीरे सकला देवा योगिनो निवसंति हि ॥कर्णे तु दक्षिणे नद्यो निवसंति तथाऽपराः ॥५४॥हृदये चेश्वरः शंभुर्नाभौ ब्रह्मा सनातनः ॥पृथ्वी पादतलाग्रे जलं सर्वगतं तथा ॥५५॥तेजो वायुस्तथाऽऽकाशं विद्यते भालमध्यतः ॥हस्ते च पंच तीर्थानि दक्षिणे नात्र संशयः ॥५६॥सूर्यो यद्दक्षिणं नेत्रं चन्द्रो वाममुदाहृतम् ॥भौमश्चैव बुधश्चैव नासिके द्वे उदाहृते ॥५७॥गुरुश्च दक्षिणे कर्णे वामकर्णे तथा भृगुः ॥मुखे शनैश्चरः प्रोक्तो गुदे राहुः प्रकीर्तितः ॥५८॥केतुरिंद्रियगः प्रोक्तो ग्रहाः सर्वे शरीरगाः ॥योगिनो देहमासाद्य भुवनानि चतुर्दश ॥५९॥प्रवर्त्तंते सदा देवि तस्माद्योगं सदाभ्यसेत् ॥चातुर्मास्ये विशेषेण योगी पापं निकृन्तति ॥६०॥मुहूर्त्तमपि यो योगी मस्तके धारयेन्मनः ॥कर्णै पिधाय पापेभ्यो मुच्यतेऽसौ न संशयः ॥६१॥अंतरं नैव पश्यामि विष्णोर्योगपरस्य वा ॥एकोऽपि योगी यद्गेहे ग्रासमात्रं भुनक्ति च ॥६२॥कुलानि त्रीणि सोऽवश्यं तारयेदात्मना सह ॥यदि विप्रो भवेद्योगी सोऽवश्यं दर्शनादपि ॥६३॥सर्वेषां प्राणिनां देवि पापराशि निषूदकः ॥सक्रियो ब्रह्मनिरतः सच्छूद्रो योगभाग्यदि ॥६४॥भवेत्सद्गुरुभक्तो वा सोऽप्यमूर्त्तफलं लभेत् ॥यो योगी नियताहारः परब्रह्म समाधिमान् ॥६५॥चातुर्मास्ये विशेषेण हरौ स लयभाग्भवेत् ॥यथा सिद्धकरस्पर्शाल्लोहं भवति कांचनम् ॥६६॥तथा मूर्त्तं हरिप्रीत्या मनुष्यो लयमाव्रजेत् ॥यथा मार्गजलं गंगापतितं त्रिदशैरपि ॥६७॥सेवितं सर्वफलदं तथा योगी विमुक्तिदः ॥यथा गोमयमात्रेण वह्निर्दीप्यति सर्वदा ॥६८॥देवतानां मुखं तद्धि कीर्त्यते याज्ञिकैः सदा ॥एवं योगी सदाऽभ्यासाज्जायते मोक्षभाजनम् ॥६९॥योगोऽयं सेव्यते देवि ज्ञानासिद्धिप्रदः सदा ॥सनकादिभिराचार्यैर्मुमुक्षुभिरधीश्वरैः ॥७०॥प्रथमं ज्ञानसंपत्तिर्जायते योगिनां सदा ॥तेषां गृहीतमात्रस्तु योगी भवति पार्वति ॥७१॥ततस्तु सिद्धयस्तस्य त्वणिमाद्याः पुरोगताः ॥भवन्ति तत्रापि मनो न दद्याद्योगिनां वरः ॥७२॥सर्वदानक्रतुभवं पुण्यं भवति योगतः ॥योगात्सकलकामाप्तिर्न योगाद्भुवि प्राप्यते ॥७३॥योगान्न हृदयग्रंथिर्न योगान्ममता रिपुः ॥न योगसिद्धस्य मनो हर्त्तुं केनापि शक्यते ॥७४॥स एव विमलो योगी यच्चित्तं शिरसि स्थितम् ॥स्थिरीभूतव्यथं नित्यं दशमद्वारसंपुटे ॥७५॥कणौं पिधाय मर्त्यस्य नादरूपं विचिन्वतः ॥तदेव प्रणवस्याग्रं तदेव ब्रह्म शाश्वतम् ॥७६॥तदेवानंतरूपाख्यं तदेवामृतमुत्तमम् ॥घ्राणवायौ प्रघोषोऽयं जठराग्नेर्महत्पदम् ॥७७॥पंचभूतं निवासं यज्ज्ञानरूपमिदं पदम् ॥पदं प्राप्य विमुक्तिः स्याज्जन्मसंसारबंधनात् ॥७८॥यदाप्तिर्दुलभा लोके योगसिद्धिप्रदायिका ॥७९॥एवं ब्रह्ममयं विभाति सकलं विश्वं चरं स्थावरं विज्ञानाख्यमिदं पदं स भगवान्विष्णुः स्वयं व्यापकः ॥ज्ञात्वा तं शिरसि स्थितं बहुवरं योगेश्वराणां परं प्राणी मुंचति सर्पवज्जगतिजां निर्मोकमायाकृतिम् ॥८०॥इति श्रीस्कांदे महापुराण एकाशीति साहरस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये ज्ञानयोगकथनं नाम द्विषष्ट्युत्तरद्विशततमोऽध्यायः ॥२६२॥ N/A References : N/A Last Updated : January 06, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP