संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २४१

नागरखण्डः - अध्याय २४१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ ईश्वर उवाच ॥
एतत्ते पूजनं विष्णोः षोडशोपायसंभवम् ॥
कथितं यद्द्विजः कृत्वा प्राप्नोति परमं पदम् ॥१॥
तथा च क्षत्रियविशां करणान्मुक्तिरुत्तमा ॥
शूद्राणां नाधिकारोऽस्मिन्स्त्रीणां नैव कदाचन ॥२॥
 ॥ कार्तिकेय उवाच ॥
शूद्राणां च तथा स्त्रीणां धर्मं विस्तरतो वद ॥
केन मुक्तिर्भवेत्तेषां कृष्णस्याराधनं विना ॥३॥
 ॥ ईश्वर उवाच ॥
सच्छूद्रैरपि नो कार्या वेदाक्षरविचारणा ॥
न श्रोतव्या न पठ्या च पठन्नरकभाग्भवेत् ॥४॥
पुराणानां नैव पाठः श्रवणं कारयेत्सदा ॥
स्मृत्युक्तं सुगुरोर्ग्राह्यं न पाठः श्रवणादिकम् ॥५॥
 ॥ स्कंद उवाच ॥
सच्छूद्राः के समाख्यातास्तांश्च विस्तरतो वद ॥
के संतः के च शूद्राश्च सच्छूद्रा नामतश्च के ॥६॥
 ॥ ईश्वर उवाच ॥
धर्मोढा यस्य पत्नी स्यात्स सच्छूद्र उदाहृतः ॥
समानकुलरूपा च दशदोषविवर्जिता ॥७॥
उद्वोढा वेदविधिना स सच्छूद्रः प्रकीर्तितः ॥
अक्लीवाऽव्यंगिनी शस्ता महारोगाद्यदूषिता ॥८॥
अनिंदिता शुभकला चक्षुरोगविवर्जिता ॥
बाधिर्यहीना चपला कन्या मधुरभाषिणी ॥९॥
दूषणैर्दशभिर्हीना वेदोक्तविधिना नरैः ॥
विवाहिता च सा पत्नी गृहिणी यस्य सर्वदा ॥१०॥
सच्छूद्रः स तु विज्ञेयो देवादीनां विभागकृत् ॥
पुण्यकार्येषु सर्वेषु प्रथमं सा प्रकीर्तिता ॥११॥
तया सुविहितो धर्मः संपूर्णफलदायकः ॥
चातुर्मास्ये विशेषेण तया सह गुणाधिकः ॥१२॥
भार्यारतिः शुचिर्भृत्यादीनां पोषणतत्परः ॥
श्राद्धादिकारको नित्यमिष्टापूर्त्तप्रसाधकः ॥१३॥
नमस्कारान्तमन्त्रेण नामसंकीर्तनेन च ॥
देवा स्तस्य च तुष्यन्ति पंचयज्ञादिकैः शुभैः ॥१४॥
स्नानं च तर्पणं चैव वह्निहोमोऽप्यमंत्रकः ॥
ब्रह्मयज्ञोऽतिथेः पूजा पंचयज्ञान्न संत्यजेत् ॥१५॥
कार्यं स्त्रीभिश्च शूद्रैश्च ह्यमंत्रं पंचयज्ञकम् ॥
पंचयज्ञैश्च संतुष्टा यथैषां पितृदेवताः ॥१६॥
तथा पतिव्रतायाश्च पतिशुश्रूषया सदा ॥
पतिव्रताया देहे तु सर्वे देवा वसंति हि ॥१७॥
अतस्ताभ्यां समेताभ्यां धर्मादीनां समागमः ॥
यदोभयोर्मते पृष्टे संतुष्टाः पितृदेवताः ॥१८॥
कार्यादीनां च सर्वेषां संगमस्तत्र नित्यदा ॥
चातुर्मास्ये समायाते विष्णुभक्त्या तयोः शिवम् ॥१९॥
समानजातिसंभूता पत्नी यस्य धृता भवेत् ॥
पूर्वो भर्त्ताऽर्द्धभागी स्याद्द्वितीयस्य न किंचन ॥२०॥
अर्थकार्याधिकारोऽस्यास्तेन धर्मार्धधारिणी ॥
स्वंस्वं कृतं सदैव स्यात्तयोः कर्म शुभाशुभम् ॥२१॥
याऽनुगच्छति भर्तारं मृतं सुतपसा द्विज ॥
साध्वी सा हि परिज्ञेया तया चोद्ध्रियते कुलम् ॥२२॥
अन्यजातेर्मृतस्याथ धृता वापि विवाहिता ॥
वैश्वानरस्य मार्गेण सा तमुद्धरते पतिम् ॥२३॥
यथा जलाच्च जंबालः कृष्यते धार्मिकैर्नृभिः ॥
एवमुद्धरते साध्वी भर्त्तारं याऽनुग च्छति ॥२४॥
अन्यजातिसमुद्भूता अन्येन विधृता यदि ॥
तावुभौ धर्मकार्येषु संत्याज्यौ नित्यदा मतौ ॥२५॥
स्वंस्वं कर्म प्रकुरुतः सत्कर्म जं स्वकं फलम् ॥
तस्माद्वरिष्ठा हीना वा सत्कुल्या शूद्रसंभवैः ॥२६॥
धृता न कार्या सा पत्नी यत्करोति न वर्द्धते ॥
तया सह कृतं पुण्यं वर्द्धते दशधोत्तरम् ॥२७॥
अनन्ततृप्तिदं नैव तत्सुतैरपि वा तथा ॥
क्रयक्रीता च या कन्या दासी सा परिकीर्तिता ॥२८॥
सच्छूद्रस्याधिकारे सा कदाचिन्नैव जायते ॥
या कन्या स्वयमुद्यम्य पित्रा दत्ता वराय च ॥२९॥
विवाहविधिनोदूढा पितृदेवार्थसाधिनी ॥
सुलक्षणा विनीता सा विवेकादिगुणा शुभा ॥३०॥
सच्चरित्रा पतिपरा सा तेभ्यो दातुमर्हति ॥
विशुद्धकुलजा कन्या धर्मोढा धर्मचारिणी ॥३१॥
सा पुनाति कुलं सर्वं मातृतः पितृतस्तथा ॥
एष एव मया प्रोक्तः सच्छूद्राणां परो विधिः ॥३२॥
अधोजातिसमुद्भूता सच्छूद्रात्क्रमहीनजा ॥
विवाहो दशधा तेषां दशधा पुत्रता भवेत् ॥३३॥
चत्वार उत्तमाः प्रोक्ता विवाहा मुनिसत्तम ॥
शेषाः सर्वप्रकृतिषु कथिताश्च पुराविदैः  ॥ ३४॥
प्राजापत्यस्तथा ब्राह्मो दैवार्षो चातिशोभना ॥
गांधर्वश्चासुरश्चैव राक्षसश्च पिशाचकः ॥३५॥
प्रातिभो घातनश्चेति विवाहाः कथिता दश ॥
एते हि हीनजातीनां विवाहाः परिकीर्तिताः ॥३६॥
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ॥
गूढोत्पन्नोऽपविद्धश्च कानीनश्च सहोढजः ॥३७॥
क्रीतः पौनर्भवश्चापि पुत्रा दशविधाः स्मृताः ॥
औरसादपि हीनाश्च तेऽपि तेषां शुभावहाः ॥३८॥
अष्टादशमिता नीचाः प्रकृतानां यथातथा ॥
विधिनैव क्रिया नैव स्मृति मार्गोऽपि नैव च ॥३९॥
तासां ब्राह्मणशुश्रूषा विष्णुध्यानं शिवार्चनम् ॥
अमन्त्रात्पुण्यकरणं दानं देयं च वै सदा ॥..४॥
न दानस्य क्षयो लोके श्रद्धया यत्प्रदीयते ॥
अश्रद्धयाऽशुचितया दानं वैरस्यकारणम् ॥४१॥
अहिंसादि समादिष्टो धर्मस्तासां महाफलः ॥
चातुर्मास्ये विशेषेण त्रिदिवेशादिसेवया ॥४२॥
सुदर्शनैस्तथा धर्मः सेव्यते ह्यविरोधिभिः [ ॥
सच्छूद्रैर्दानपुण्यैश्च द्विजशुश्रूषणादिभिः ॥४३॥
वृत्तिश्च सत्यानृतजा वाणिज्यव्यव हारजा ॥
अशीतिभागमारद्याद्व्याजाद्वार्धुषिकः शते ॥४४॥
सपादभागवृद्धिस्तु क्षत्त्रियादिषु गृह्यते ॥
एवं न बन्धो भवति पातकस्य कदाचन ॥४५॥
प्रातःकर्म सुरेशानां मध्याह्ने द्विजसेवनम् ॥
अपराह्णेऽथ कार्याणि कुर्वन्मर्त्यः सुखी भवेत् ॥४६॥
गृहस्थैश्च सदा भाव्यं यावज्जीवं क्रियापरैः ॥
पंचयज्ञरतैश्चैवातिथिद्विजसुपूजकैः ॥४७॥
विष्णुभक्तिरतैश्चैव वेदमन्त्रविपाठकैः ॥
सततं दानशीलैश्च दीनार्तजनवत्सलैः ॥४८॥
क्षमादिगुणसंयुक्तैर्द्वादशाक्षरपूजकैः ॥
षडक्षरमहोद्गारपरमानन्दपूरितैः ॥४९॥
सदपत्यैः सदाचारैः सतां शुश्रूषणैरपि ॥
विमत्सरैः सदा स्थेयं तापक्लेशविवर्जितैः ॥५०॥
प्रव्रज्यावर्जनैरेवं सच्छूद्रैर्धर्मतत्परैः ॥
तोषणं सर्वभूतानां कार्यं वित्तानुसारतः ॥५१॥
सदा विष्णुशिवादीनां ये भक्तास्ते नराः सदा ॥
देववद्दिवि दीव्यंति चातुर्मास्ये विशेषतः ॥५२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये शेषशाय्युपाख्यान ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये तपोऽधिकारे सच्छूद्रकथनंनामैकचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४१॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP