नागरखण्डः - अध्याय २०३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ आनर्त उवाच ॥
एवं शुद्ध्यर्थमायातो नागराणां पुरः स्थितः ॥
नागरः शुद्धिमाप्रोति यथा तन्मे वद द्विजः ॥१॥
॥ विश्वामित्र उवाच ॥१॥
एवं मध्यस्थवचनात्समुदाये स्थिरे सति ॥
स प्रष्टव्यः पितुर्माता कतमा ते वदस्व नः ॥२॥
किं गोत्रः कतमस्तस्याः पिता किंप्रवरः स्मृतः ॥
एवं तस्यान्वयं ज्ञात्वा गोत्रप्रवरसंयुतम् ॥३॥
प्रष्टव्या च ततो माता तस्याश्चापि च या भवेत् ॥
जननी चापि प्रष्टव्या तस्याश्चापि च या भवेत् ॥४॥
ज्ञातव्या सापि यत्नेन ब्राह्मणैः शुद्धि कर्मणि ॥५॥
पिता पितामहश्चैव तथैव प्रपितामहः ॥
शोधनीयाः प्रयत्नेन त्रयश्चैतेऽपि तस्य च ॥६॥
तथा पितामहीपक्षे त्रय एते द्विजोत्तमाः ॥
मातामहस्ततस्तस्य पिता तस्यापि यः पिता ॥७॥
माता मातामही चैव तथैवान्या प्रपूर्विका ॥
पितामह्याश्च या माता सापि शोध्या सभर्तृका ॥८॥
एवं शाखाऽगमं ज्ञात्वा तस्य सर्वं यथाक्रमम् ॥
मूलवंशादधिष्ठानं न्यग्रोधस्येव सर्वतः ॥९॥
ततः शुद्धिः प्रदातव्या सिन्दूरति लकेन तु ॥
चातुश्चरणमंत्रैश्च दत्त्वाशीर्वचनं क्रमात् ॥१०॥
ततो वाच्यं नृपश्रेष्ठ मध्यस्थेन तदग्रतः ॥
दत्त्वा तालत्रयं राजञ्छुद्धोऽयं नागरो द्विजः ॥
सामान्यपदयोग्यश्च संजातः सांप्रतं द्विजः ॥११॥
ततोऽग्निशरणं गत्वा संतर्प्य च हुताशनम् ॥
पञ्चवक्त्रेण मंत्रेण दत्त्वा पूर्णाहुतिं ततः ॥
विप्रेभ्यो दक्षिणां दद्यात्स्वशक्त्या भोजनान्विताम् ॥१२॥
सिन्दूरतिलके जाते ब्रह्माग्रे द्विजवाक्यतः ॥
पितॄणां जायते तुष्टिर्वंशो नोऽद्य प्रतिष्ठि तः ॥१३॥
यस्य नो जायते शुद्धिः शाखाभिर्मूलवंशगा ॥
निग्रहस्तस्य कर्तव्यो द्विजार्हो द्विजसत्तमैः ॥१४॥
यथा नान्यो हि जायेत शुद्धि स्तस्य प्रकल्पिता ॥
एवं संशोधितो विप्रः श्राद्धार्हो जायते ततः ॥१५॥
अपि चाष्टकुलोत्पन्नः सामान्यः किं पुनर्हि यः ॥
अशुद्धेन तु विप्रेण यः श्राद्धा द्यं करोति हि ॥
तस्य भस्महुतं यद्वत्सर्वं तज्जायते वृथा ॥१६॥
तस्मात्सर्वप्रयत्नेन शोध्योऽयं नागरो द्विजः ॥
स्वस्थानस्य विशुद्ध्यर्थं तथैव स्वकु लस्य च ॥१७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागरविशुद्धिप्रकारवर्णनंनाम त्र्युत्तरद्विशततमोऽध्यायः ॥२०३॥
N/A
References : N/A
Last Updated : January 06, 2025
TOP