संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २३०

नागरखण्डः - अध्याय २३०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
एवं गणत्वमापन्ने ह्यन्धके दानवोत्तमे ॥
तस्य पुत्रो वृकोनाम निरुत्साहो द्विषज्जये ॥१॥
भयेन महता युक्तो हतशेषैश्च दानवैः ॥
प्रविवेश समुद्रांतं सुदुर्गं ब्राह्मणोत्तमाः ॥२॥
ततः शक्रः प्रहृष्टात्मा प्रणम्य वृषभध्वजम् ॥
तस्यादेशं समासाद्य प्रविवेशामरावतीम् ॥३॥
चकार च सुखी राज्यं त्रैलोक्येऽपि द्विजोत्तमाः ॥
यज्ञभागान्पुनर्लेभे यथार्थं च धरातले ॥४॥
एतस्मिन्नेव काले तु ह्यंधकस्य सुतो वृकः ॥
निष्क्रम्य सागरात्तूर्णं जंबुद्वीपं समागतः ॥५॥
हाटकेश्वरजं क्षेत्रं मत्वा पुण्यं सुसिद्धिदम् ॥
पित्रा यत्र तपस्तप्तमंधकेन दुरात्मना ॥६॥
सगुप्तस्तु तपस्तेपेऽयथा वेत्ति न कश्चन ॥
ध्यायमानः सुरश्रेष्ठं भक्त्या कमलसंभवम् ॥७॥
यावद्वर्षसहस्रांतं जलाहारो द्वितीयकम् ॥
तपस्तेपे स दैत्येन्द्रो ध्यायमानः पितामहम् ॥८॥
वायुभक्षस्ततो जातस्तावत्कालं द्विजोत्तमाः ॥
अंगुष्ठाग्रेण भूपृष्ठं स्पर्शमानो जितेन्द्रियः ॥९॥
एवं च पञ्चमे प्राप्ते सहस्रे द्विजसत्तमाः ॥
ब्रह्मा तस्य गतस्तुष्टिं दृष्ट्वा तस्य तपो महत् ॥१०॥
ततोऽब्रवीत्तमागत्य तां गर्तां ब्राह्मणोत्तमाः ॥
भोभो वृक निवर्तस्व तपसोऽस्मात्सुदारुणात् ॥११॥
वरं वरय भद्रं ते यो नित्यं मन सि स्थितः ॥१२॥
 ॥ वृक उवाच ॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
जरामरणहीनं मां तत्कुरुष्व पितामह ॥१३॥
 ॥ श्रीब्रह्मोवाच ॥
मम प्रसादतो वत्स जरामरणवर्जितः ॥
भविष्यसि न सन्देहः सत्यमेतन्मयोदितम् ॥१४॥
एवमुक्त्वा ततो ब्रह्मा तत्रैवांतरधी यत ॥
वृकोऽपि कृतकृत्यस्त्वागतश्च स्वगृहं पितुः ॥१५॥
गिरिं रैवतकं नाम सर्वर्तुकुसुमोज्ज्वलम् ॥
तत्र गत्वा निजामात्यैः समं मन्त्र्य च सत्व रम् ॥
इन्द्रोपरि ततश्चक्रे यानं युद्धपरीप्सया ॥१६॥
इंद्रोऽपि च परिज्ञाय दानवं तं महाबलम् ॥
जरामृत्युपरित्यक्तं प्रभावात्परमेष्ठिनः ॥१७॥
परित्यज्य भयाच्चैव पुरीं चैवामरावतीम् ॥
ब्रह्मलोकं गतस्तूर्णं देवैः सर्वैः समन्वितः ॥१८॥
एतस्मिन्नंतरे प्राप्तो वृकश्च त्रिदशालये ॥
ससैन्यपरिवारेण प्रहृष्टेन समन्वितः ॥१९॥
ततश्चैंद्रपदे तस्मिन्स्वयमेव व्यवस्थितः ॥
शुक्रात्प्राप्याभिषेकं च पुष्पस्नानसमुद्भवम् ॥२०॥
सोऽभिषिक्तस्तु शुक्रेण देवराज्यपदे वृकः ॥
स्थापयामास दैतेयान्देवतानां पदेषु च ॥२१॥
आदित्यानां वसूनां च रुद्राणां मरुतामपि ॥
यज्ञभागकृते विप्राः शुक्रशासनमाश्रिताः ॥२२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्याने वृकेन्द्रराज्यलंभनवर्णनंनाम त्रिंशदुत्तरद्विशततमोऽध्यायः ॥२३०॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP