संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय ५०

नागरखण्डः - अध्याय ५०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


एवं तस्य नरेन्द्रस्य व्याघ्ररूपस्य कानने ॥
जगाम सुमहान्कालो निघ्नतो विविधान्द्विज ॥१॥
कस्यचित्त्वथ कालस्य तस्मिन्देशे द्विजोत्तमाः ॥
आ यातं गोकुलं रम्यं गोपगोपीसमाकुलम् ॥२॥
तत्रास्ति नन्दिनीनाम धेनुः पीनपयोधरा ॥
विस्तीर्णजघनाभोगा हंसवर्णा घटस्रवा ॥३॥
अथ सा निजयूथस्य सदाग्रे तृणवांछया ॥
भ्रममाणा निकुञ्जांते लिंगं देवस्य शूलिनः ॥४॥
अपश्यत्तेजसा युक्तं स्वयमेव व्यवस्थितम् ॥
द्वादशार्कप्रतीकाशं चित्ताह्लादकरं परम् ॥५॥
ततस्तस्योपरि स्थित्वा सुस्राव सुमहत्पयः ॥
श्रद्धया परया युक्ता तस्य स्नानकृते द्विजाः ॥६॥
एवं तां स्नपनं तस्य सदा लिंगस्य कुर्वतीम् ॥
न जानाति जनः कश्चिद्वने वृक्षसमाकुले ॥७॥
अन्यस्मिन्दिवसे तत्र स्थाने व्याघ्रः समागतः ॥
तीक्ष्णदंष्ट्रो महाकायः सर्वजन्तुभयावहः ॥८॥
अथ सा तत्र आयाता पतिता दृष्टिगोचरे ॥
नन्दिनी द्वीपिनस्तस्य दैवयोगाद्द्विजोत्तमाः ॥९॥
ततः सा गोकुले बद्धं स्मृत्वा स्वं लघुवत्सकम् ॥
अतृणादं पयोवृत्तिं करुणं पर्यदेवयत् ॥१०॥
अद्यैकाहं च संप्राप्ता कानने जनवर्जिते ॥
पुत्रं बालं परित्यज्य गोपैर्गोष्ठे नियंत्रितम् ॥११॥
येन सत्येन भक्त्याद्य स्नपनायाहमागता ॥
शिवस्य तेन सत्येन भूयान्मे सुतसंगमः ॥१२॥
एवं सा करुणं यावन्नन्दिनी विलपत्यलम् ॥
तावद्व्याघ्रः स्मितं कृत्वा प्रोवाच परुषाक्षरम् ॥१३॥
 ॥ व्याघ्र उवाच ॥
प्रलापान्किं मुधा धेनो करोषि वशगा मम ॥
तस्मादिष्टतमं देवं स्मर स्वर्गकृते शुभे ॥१४॥
 ॥ धेनुरुवाच ॥
नाहमात्मकृते व्याघ्र विलपामि सुदुः खिता ॥
शिवार्चनकृते मृत्युर्मम जातः शुभावहः ॥१५॥
वत्सो मे गोकुले बद्धः स्मरमाणो ममागमम् ॥
सन्तिष्ठते पयोवृत्तिः कथं स्यात्स मया विना ॥१६॥
एतस्मात्कारणाद्व्याघ्र विलपामि सुदुःखिता ॥
न चात्मजीवनार्थाय सत्येनात्मानमालभे ॥१७॥
तस्मान्मुंच महाव्याघ्र मां सद्यः सुतवत्सलाम् ॥
सखीजनस्य तं दत्त्वा समागच्छामि तेंतिकम् ॥१८॥
 ॥ व्याघ्र उवाच ॥
कथं मृत्युमुखं प्राप्य निष्क्रम्य च कथञ्चन ॥
भूयस्तत्रैव निर्यासि तस्मात्त्वां भक्षयाम्यहम् ॥१९॥
 ॥ नन्दिन्युवाच ॥
शपथैरागमिष्यामि यैः पुनर्व्याघ्र तेंऽतिकम् ॥
तानाकर्णय मे वक्त्रात्ततो युक्तं समाचर ॥२०॥
यत्पापं ब्रह्महत्यायां मातापित्रोश्च वंचने ॥
तेन पापेन लिप्येहं नागच्छामि पुनर्यदि ॥२१॥
विवस्त्रं स्नानसक्तानां दिवामैथुनगामिनाम् ॥
यत्पापं तेन लिप्येऽहं नागच्छामि पुनर्यदि ॥२२॥
रजस्वलानुसक्तानां यत्पापं नग्नशायिनाम् ॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥२३॥
विश्वासघातकानां च कृतघ्नानां च यद्भवेत् ॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥२४॥
गोकन्याब्राह्मणानां च दूषकानां च यद्भवेत् ॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥२५॥
वृथापाकप्रकर्तृणां वृथामांसाशिनां च यत् ॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥२६॥
व्रतभंगप्रकर्तृणामनृतौ गामिनां च यत् ॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥२७॥
पैशुन्यसूचकानां च यत्पापं शस्त्रकर्मणाम् ॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥२८॥
इति श्रीस्कान्दे महापुराण एकाशीति साहरस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये कलशेश्वरमाहात्म्ये गोव्याघ्रसंवादवर्णनंनाम पञ्चाशत्तमोऽध्यायः ॥५०॥

N/A

References : N/A
Last Updated : December 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP