संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय ७०

नागरखण्डः - अध्याय ७०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
तथान्यापि च तत्रास्ति शक्तिः पापप्रणाशिनी ॥
कार्तिकेयेन निर्मुक्ता हत्वा वै तारकं रणे ॥१॥
तथास्ति सुमहत्कुण्डं स्वच्छोदकसमावृतम् ॥
तेनैव निर्मितं तत्र यः स्नात्वा तां प्रपूजयेत् ॥
स पापान्मुच्यते सद्य आजन्ममरणांति कात् ॥२॥
 ॥ ऋषय ऊचुः ॥
कस्मिन्काले विनिर्मुक्ता सा शक्तिस्तेन नो वद ॥
किमर्थं स्वामिना तत्र किंप्रभावा वद स्वयम् ॥३॥
 ॥ सूत उवाच ॥
पुरासीत्तारकोनाम दानवोऽतिबलान्वितः ॥
हिरण्याक्षस्य दायादस्त्रैलोक्यस्य भयावहः ॥४॥
स ज्ञात्वा जनकं ध्वस्तं विष्णुना प्रभविष्णुना ॥
तपस्तेपे ततस्तीव्रं गोकर्णं प्राप्य पर्वतम् ॥५॥
यावद्वर्षसहस्रांतं शीर्णपर्णा शनः स्थितः ॥
ध्यायमानो महादेवं कायेन मनसा गिरा ॥६॥
वरुपूजोपहारैश्च नैवेद्यैर्विविधैस्ततः ॥
ततो वर्षसहस्रांते स दैत्यो दुःखसंयुतः ॥७॥
ज्ञात्वा रुद्रमसंतुष्टं ततो रौद्रं तपोऽकरोत् ॥
विनिष्कृत्त्यात्ममांसानि जुहोतिस्म हुताशने ॥८॥
ततस्तुष्टो महादेवो वृषारूढ उमापतिः ॥
सर्वैरेव गणैः सार्धं तस्य संदर्शनं ययौ ॥९॥
तत्र प्रोवाच संहृष्टस्तारनादेन नादयन् ॥
दिशः सर्वा महादेवो हर्ष गद्गदया गिरा ॥१०॥
भोभोस्तारक तुष्टोऽस्मि साहसं मेदृशं कुरु ॥
प्रार्थयस्व मनोऽभीष्टं येन ते प्रददाम्यहम् ॥११॥
 ॥ तारक उवाच ॥
अजेयः सर्वदेवानां त्वत्प्रसादादहं विभो ॥
यथा भवामि संग्रामे त्वां विहाय तथा कुरु ॥१२॥
 ॥ भगवानुवाच ॥
मत्प्रसादादसंदिग्धं सर्वमेतद्भविष्यति ॥
त्वया यत्प्रार्थितं दैत्य त्वमेको बलवानिह ॥१३॥
एवमुक्त्वा महादेवः स्वमेव भवनं गतः ॥
तारकश्चापि संहृष्टस्तथैवनिज मन्दिरम् ॥१४॥
ततो दानवसैन्येन महता परिवारितः ॥
गतः शक्रपुरीं योद्धुं विख्याताममरावतीम् ॥१५॥
अथाभवन्महायुद्धं देवानां दानवैः सह ॥
यावद्वर्षसहस्रांते मृत्युं कृत्वा निवर्तनम् ॥१६॥
तत्राभवत्क्षयो नित्यं देवानां रणमूर्धनि ॥
विजयो दानवानां च प्रसादाच्छूलपा णिनः ॥१७॥
ततश्चक्रुरुपायांस्ते विजयाय दिवौकसः ॥
वर्माणि सुविचित्राणि यन्त्राणि परिखास्तथा ॥१८॥
अन्यान्यपि शरीरस्य रक्षणार्थं प्रयत्नतः ॥
तथैव योधमुख्यानां विशेषाद्द्विजसत्तमाः ॥१९॥
ससृजुस्ते सुराधीशा दानवेभ्यो दिवानिशम् ॥२०॥
मुद्गरा भिंडिपालाश्च शतघ्न्योऽथ वरेषवः ॥
प्रासाः कुन्ताश्च भल्लाश्च तस्मिन्काले विनिर्मिताः ॥
विशेषाहवसंबन्धव्यूहानां प्रक्रियाश्च याः ॥२१॥
तथान्यानि विचित्राणि कूटयुद्धान्यनेकशः ॥
भीषिकाः कुहकाश्चैव शक्रजालानि कृत्स्नशः ॥२२॥
न च ते विजयं प्रापुस्तथापि द्विजसत्तमाः ॥
दानवेभ्यो महायुद्धे प्रहारैर्जर्जरीकृताः ॥२३॥
अथ प्राह सहस्राक्षो भयत्रस्तो बृहस्पतिम् ॥
दिनेदिने वयं दैत्यैर्विजयामो द्विजोत्तम ॥२४॥
यथायथा रणार्थाय सदुपायान्करोम्यहम् ॥
तथातथा पराभूतिर्जायते मे महाहवे ॥२५॥
तदुपायं सुराचार्य स्वबुद्ध्या त्वं प्रचिन्तय ॥
येन मे स्याज्जयो युद्धे तव कीर्तिरनिन्दिता ॥२६॥
 ॥ सूत उवाच ॥
ततो बृहस्पतिः प्राह चिरं ध्यात्वा शचीपतिम् ॥
प्रहृष्टवदनो ज्ञात्वा जयोपायं महाहवे ॥२७॥
मया शक्र परिज्ञातः स उपायो महाहवे ॥
जीयन्ते शत्रवो येन लीलयैवापि भूरिशः ॥२८॥
यदाभीष्टं वरं तेन प्रार्थितस्त्रिपुरांतकः ॥
तदैवं वचनं प्राह प्रणिपत्य मुहुर्मुहुः ॥२९॥
अजेयः सर्वदेवानां त्वत्प्रसादादहं विभो ॥
यथा भवामि संग्रामे त्वां विहाय तथा कुरु ॥३०॥
न तं स्वयं महादेवः स्वशिष्यं सूदयिष्यति ॥
विषवृक्षमपि स्थाप्य कश्छिनत्ति पुनः स्वयम् ॥३१॥
यो वै पिता स पुत्रः स्याच्छ्रुतिवाक्यमिदं स्मृतम् ॥
तस्माज्जनयतु क्षिप्रं हरस्तन्नाशकृत्सुतम् ॥३२॥
येन सेनाधिपत्ये तं विनियोज्य महाहवम् ॥
कुर्मो दैत्यैः समं शस्त्रैः प्राप्नुयाम ततो जयम् ॥३३॥
एष एव उपायोऽत्र मया ते परिकीर्तितः ॥
विजयाय सहस्राक्ष नान्योऽस्ति भुवनत्रये ॥३४॥
ततो देवगणैः सर्वैः समेतः पाकशासनः ॥
तमर्थं प्रोक्तवाञ्छंभुं विनयावनतः स्थितः ॥३५॥
सुतस्य जननार्थाय कुरु यत्नं वृषध्वज ॥
येन सेनाधिपत्ये तं योजयामि दिवौकसाम् ॥३६॥
प्राप्नोम्यहं च संग्रामे विजयं त्वत्प्रसादतः ॥
निहत्य दानवान्सर्वांस्तारकेण समन्वितान् ॥३७॥
नान्यथा विजयो मे स्यात्संग्रामे दानवैः सह ॥
इति मां प्राह देवेज्यो ज्ञात्वा सम्यङ्महामतिः ॥३८॥
अथोवाच विहस्योच्चैः शंकरस्त्रिदशेश्वरम् ॥
करिष्यामि वचः क्षिप्रं तव शक्र न संशयः ॥३९॥
पुत्रमुत्पादयिष्यामि सर्वदैत्यविनाशकम् ॥
यं त्वं सेनापतिं कृत्वा जयं प्राप्स्यसि सर्वदा ॥४०॥
एवमुक्त्वा महादेवो गत्वा कैलास पर्वतम् ॥
गौर्या समं ततश्चक्रे कामधर्मं यथोचितम् ॥४१॥
हावैर्भावैः समोपेतं हास्यैरन्यैस्तदात्मिकैः ॥
यावद्वर्षसहस्रांतं दिव्यं चैव निमेषवत् ॥४२॥
अथ देवगणाः सर्वे भयसंत्रस्तमानसाः ॥
चक्रुर्मंत्रं तदर्थं हि तारकेण प्रपीडिताः ॥४३॥
सहस्रं वत्सराणां तु रतासक्तस्य शूलिनः ॥
अतिक्रांतं न देवानां तेन कृत्यं विनिर्मितम् ॥४४॥
तस्माद्गच्छामहे तत्र यत्र देवो महेश्वरः ॥
संतिष्ठते समं गौर्या कैलासे विजने स्थितः ॥४५॥
ततस्तत्रैव संजग्मुः सर्वे देवाः सवासवाः ॥
उद्वहन्तः परामार्तिं तारकारिसमुद्भवाम् ॥४६॥
अथ कैलासमासाद्य यावद्यांति भवांतिकम् ॥
निषिद्धा नंदिना तावन्न गंतव्यमतः परम् ॥४७॥
रहस्ये भगवान्सार्धं पार्वत्या समवस्थितः ॥
अस्माकमपि नो गम्यं तस्मात्तावन्न गम्यताम् ॥४८॥
ततस्तैर्विबुधैः सर्वैः प्रेषितस्तत्र चानिलः ॥
किं करोति महादेवः शीघ्रं विज्ञायतामिति ॥४९॥
अथ वायुर्गतस्तत्र यत्रास्ते भगवाञ्छिवः ॥
गौर्या सह रतासक्त आनन्दं परमं गतः ॥५०॥
अथ प्रचलिते शुक्रे स्थानादप्राप्तयोनिके ॥
देवेन वीक्षितो वायुर्नातिदूरे व्यवस्थितः ॥५१॥
ततो व्रीडा समोपेतस्तत्क्षणादेव चोत्थितः ॥
भावासक्तां प्रियां त्यक्त्वा मा मोत्तिष्ठेतिवादिनीम् ॥५२॥
अब्रवीदथ तं वायुं विनयावनतं स्थितम् ॥
किमर्थं त्वमिहायातः कच्चित्क्षेमं दिवौकसाम् ॥५३॥
 ॥ वायुरुवाच ॥
एते शक्रादयो देवा नंदिना विनिवारिताः ॥
तारकेण हतोत्साहास्तिष्ठंति गिरिरोधसि ॥५४॥
तस्मादेतान्समाभाष्य समाश्वास्य च सादरम् ॥
प्रेषयस्व द्रुतं तत्र यत्र ते दानवाः स्थिताः ॥५५॥
अथ तानाह्वयामाम तत्क्षणात्त्रिपुरांतकः ॥
संप्राह चविषण्णास्यः कृतांजलिपुटान्स्थितान् ॥५६॥
 ॥ श्रीभगवानुवाच ॥
युष्मत्कृते समारंभः पुत्रार्थं यो मया कृतः ॥
स्वस्थानाच्चलिते शुक्रे कृतो मोघोद्य वायुना ॥५७॥
एतद्वीर्यं मया धैर्यात्स्तंभितं लिंगमध्यगम् ॥
अमोघं तिष्ठते सर्वं क्व दधामि निवेद्यताम् ॥५८॥
येन संजायते पुत्रो दानवांतकरः परः ॥
सेनानाथश्च युष्माकं दुर्द्धरः समरे परैः ॥५९॥
एतत्कल्पाग्निसंकाशं धर्तुं शक्नोति नापरः ॥
विना वैश्वानरं तस्माद्दधात्वेष सनातनम् ॥६०॥
येन तत्र प्रमुञ्चामि सुताय विजयाय च ॥
एतद्वीर्यं महातीव्रं द्वादशार्कसमप्रभम् ॥६१॥
अथ प्राहुः सुराः सर्वे वह्निं संश्लाघ्य सादराः ॥
त्वं धारयाग्ने वक्त्रांते वीर्यमेतद्भवोद्भवम् ॥६२॥
ततः प्रसारयामास स्ववक्त्रं पावको द्रुतम् ॥
कुर्वञ्छक्रसमादेशमविकल्पेन चेतसा ॥६३॥
शंकरोऽप्यक्षिपत्तत्र कामबाणप्रपीडितः ॥
गौरीं भगवतीं ध्यायन्नानन्दं परमं गतः ॥६४॥
पावकोऽपि भृशं तेन कल्पाग्निसदृशेन च ॥
दह्यमानोऽक्षिपद्भूमौ शरस्तंबे सुविस्तरे ॥६५॥
एतस्मिन्नंतरे प्राप्ता भ्रममाणा इतस्ततः ॥
भार्यास्तत्र मुनीनां ताः षण्णां षट्कृत्तिकाः शुभाः ॥६६॥
तासां निदेशयामास स्वयमेव शतक्रतुः ॥
एतद्बीजं त्रिनेत्रस्य परिपाल्यं प्रयत्नतः ॥६७॥
अत्र संपत्स्यते पुत्रो द्वादशार्कसमप्रभः ॥
भवतीनामपि प्रायः पुत्रत्वं संप्रयास्यति ॥६८॥
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खंडे हाटकेश्वरक्षेत्रमाहात्म्ये कार्तिकेयोत्पत्तिवृत्तांतवर्णनंनाम सप्ततितमोऽध्यायः ॥७०॥

N/A

References : N/A
Last Updated : December 26, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP