नागरखण्डः - अध्याय १६५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
ततःप्रभृतिपुण्ये च सरस्वत्यास्तटेशुभे ॥
बाह्यानां नागराणां च स्थानं जातं महत्तरम् ॥१॥
पुत्रपौत्रप्रवृद्धानां दौहित्राणां द्विजोत्तमाः ॥
चमत्कारपुरस्याग्रे यज्ज्ञातं विद्यया धनैः ॥२॥
कस्यचित्त्वथ कालस्य विश्वामित्रेण धीमता ॥
शप्ता सरस्वती कोपात्कृता रुधिरवाहिनी ॥३॥
ततः संसेव्यते हृष्टै राक्षसैः सा दिवानिशम् ॥
गीतनृत्यपरैश्चान्यैर्भूतैः प्रेतैः पिशाचकैः ॥४॥
ततस्ते नागरा बाह्यास्तां त्यक्त्वा दूरतः स्थिताः ॥
कांदिशीकास्ततो याता भक्ष्यमाणास्तु राक्षसैः ॥
नर्मदायास्तटे पुण्ये मार्कण्डाश्रमसंनिधौ ॥५॥
॥ ऋषय ऊचुः ॥
कस्मात्सरस्वती शप्ता विश्वामित्रेण धीमता ॥
महानद्या कोऽपराधस्तया तस्य विनिर्मितः ॥६॥
॥ सूत उवाच ॥
आसीत्पुरा महद्वैरं विश्वामित्रवसिष्ठयोः ॥
ब्राह्मण्यस्य कृते विप्राः प्राणान्तकरणं महत् ॥
स सर्वैर्ब्राह्मणैः प्रोक्तो विश्वामित्रो महामुनिः ॥७॥
क्षत्रियोऽपि पुरस्कृत्य देवदेवं पितामहम् ॥
न चैकेन वसिष्ठेन तेनैतद्वैरमाहितम् ॥८॥
॥ ऋषय ऊचुः ॥
क्षत्रियोऽपि कथं विप्रो विश्वा मित्रो महामते ॥
वसिष्ठेन कथं नोक्तो यः प्रोक्तो ब्रह्मणा स्वयम् ॥९॥
एतन्नः सर्वमाचक्ष्व परं कौतूहलं स्थितम् ॥१०॥
॥ सूत उवाच ॥
आसीत्पुरा ऋचीकाख्यो भृगुपुत्रो महामुनिः ॥
व्रताध्ययनसंपन्नः सुतपस्वी महायशाः ॥११॥
तीर्थयात्राप्रसंगेन स कदाचिन्मुनीश्वरः ॥
स्थानं भोजकटं नाम प्राप्तो गाधिमहीपतेः ॥
यत्र सा कौशिकीनाम नदी त्रैलोक्यविश्रुता ॥१२॥
तस्यां स्नात्वा द्विजश्रेष्ठो यावत्तिष्ठति तीरगः ॥
समाधिस्थो जपं कुर्वन्संतर्प्य पितृदेवताः ॥१३॥
तावत्तत्र समायाता राजकन्या सुशोभना ॥
सर्वलक्षणसम्पूर्णा सर्वैरेव गुणैर्युता ॥१४॥
स तां संवीक्षते यावत्सर्वावयवशोभनाम् ॥
तावत्कामशरैर्व्याप्तः कर्तव्यं नाभ्यविंदत ॥१५॥
ततः पप्रच्छ लोकान्स लब्ध्वा कृच्छ्रेण चेतनाम् ॥
कस्येयं कन्यका साध्वी किमर्थमिह चागता ॥१६॥
क्व यास्यति वरारोहा सर्वं मे कथ्यतां जनाः ॥१७॥
॥ जना ऊचुः ॥
एषा गाधिसुतानाम ख्याता त्रैलोक्यसुन्दरी ॥
अन्तःपुरात्समायाता गौरीपूजनलालसा ॥१८॥
वांछमाना सुभर्त्तारं सर्वैः समुदितंगुणैः ॥
प्रासादोऽयं स्थितो योऽत्र नदीतीरे बृहत्तरः ॥१९॥
उमा संतिष्ठते चात्र सर्वैः संपूजिता सुरैः ॥
एतां च स्नापयित्वेयं पूजयित्वा यथा क्रमम् ॥२०॥
नैवेद्यं विविधं दत्त्वा करिष्यति ततः परम् ॥
वीणाविनोदमात्रं च श्रुतिमार्गसुखावहम् ॥२१॥
ततो यास्यति हर्म्यं स्वं मन्दीभूते च भास्करे ॥
ऋचीकस्तु तदाकर्ण्य लोकानां वचनं च यत् ॥२२॥
ययौ गाधिगृहं शीघ्रं कामबाणप्रपीडितः ॥
तं दृष्ट्वा सहसा प्राप्तमृचीकं भृगु सत्तमम् ॥
संमुखः प्रययौ तूर्णं गाधिः पार्थिवसत्तमः ॥२३॥
गृह्योक्तेन विधानेन कृत्वा चैवार्हणं ततः ॥
कृतांजलिपुटो भूत्वा वाक्यमेतदुवाच ह ॥२४॥
निःस्पृहस्यापि ते विप्र किमागमनकारणम् ॥
तत्सर्वं मे समाचक्ष्व येन यच्छामि तेऽखिलम् ॥२५॥
॥ ऋचीक उवाच ॥
तव कन्याऽस्ति विप्रेंद्र वरार्हा वरवर्णिनी ॥
ब्राह्मोक्तेन विवाहेन तां मे देहि महीपते ॥२६॥
एतदर्थमहं प्राप्तो गृहे तव स्मरार्दितः ॥
सा मया वीक्षिता राजन्गौरीपूजार्थमागता ॥२७॥
॥ सूत उवाच ॥
तच्छ्रुत्वा भयसंत्रस्तो गाधिः पार्थिवसत्तमः ॥
असवर्णं च तं मत्वा दरिद्रं वृद्धमेवच ॥
अदाने शापभीतस्तु ततो व्याजमुवाच सः ॥२८॥
अस्माकं कन्यकादाने शुल्कमस्ति द्विजोत्तम ॥
तच्चेद्यच्छसि कन्यां तां तुभ्यं दास्याम्यसंशयम् ॥२९॥
॥ ऋचीक उवाच ॥
ब्रूहि पार्थिवशार्दूल कन्याशुल्कं मम द्रुतम् ॥
येन यच्छामि ते सर्वं यद्यपि स्यात्सुदुर्लभम् ॥३०॥
॥ गाधिरुवाच ॥
एकतः श्यामकर्णानामश्वानां वातरंहसाम् ॥
शतानि सप्त विप्रेंद्र श्वेतानां चैव सर्वतः ॥३१॥
य आनीय प्रदद्यान्मे तस्मै कन्यां ददाम्यहम् ॥३२॥
॥ सूत उवाच ॥
स तथेति प्रतिज्ञाय ऋचीको मुनिसत्तमः ॥
कान्यकुब्जं समासाद्य गंगातीरे विवेश ह ॥३३॥
अश्वो वोढेति यत्सूक्तं चतुःषष्टिसमुद्भवम् ॥
छंदऋषिदेवतायुक्तं जपं चक्रे ततः परम् ॥३४॥
विनियोगं वाजिकृतं गाधिना यत्प्रकीर्तितम् ॥
ततस्ते वाजिनस्तस्मान्निष्क्रांताः सलिलाद्द्विजाः ॥३५॥
सर्वश्वेताः सुवेगाश्च श्यामैकश्रवणास्तथा ॥
शतानि सप्तसंख्यानि तावत्संख्यै र्नरैयुताः ॥३६॥
ततः प्रभृति विख्यातमश्वतीर्थं धरातले ॥
गंगातीरे शुभे पुण्ये कान्यकुब्जसमीपगम् ॥
यस्मिन्स्नाने कृते मर्त्यो वाजिमेधफलं लभेत् ॥३७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽश्वतीर्थोत्पत्तिवर्णनंनाम पंचषष्ट्यधिकशततमोऽध्यायः ॥१६५॥
N/A
References : N/A
Last Updated : December 31, 2024
TOP