संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय ७२

नागरखण्डः - अध्याय ७२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
तत्रैव स्थापितं लिंगं धृतराष्ट्रेण भूभुजा ॥
दुर्योधनेन चालोक्य सर्वपापैः प्रमुच्यते ॥१॥
 ॥ ऋषय ऊचुः ॥
कस्मिन्काले नरेन्द्रेण धृतराष्ट्रेण भूभुजा ॥
तत्र संस्थापितं लिगं वद त्वं रौमहर्षणे ॥२॥
 ॥ सूत उवाच ॥
आसीद्भानुमतीनाम बलभद्रसुता पुरा ॥
सर्वलक्षणसंपन्ना रूपौ दार्यगुणान्विता ॥३॥
तां ददावथ पत्न्यर्थे धार्तराष्ट्राय धीमते ॥
दुर्योधनाय संमन्त्र्य विष्णुना सह यादवः ॥४॥
अथ नागपुरात्सर्वे भीष्म द्रोणादयश्च ये ॥
कौरवाः प्रस्थितास्तूर्णं पुरीं द्वारवतीं प्रति ॥५॥
तथा पांडुसुताः पंच परिवारसमन्विताः ॥
सौभ्रात्रं मन्यमानास्ते दुर्योधनसमन्वि ताः ॥
जग्मुर्द्वारवतीं हृष्टाः सैन्येन महतान्विताः ॥६॥
अथ क्रमेण गच्छंतस्ते सर्वे कुरुपाण्डवाः ॥
आनर्तविषयं प्राप्ता धनधान्यसमाकुलम् ॥७॥
सर्वपापहरं पुण्यं यत्र तत्क्षेत्रमुत्तमम् ॥
हाटकेश्वरदेवस्य विख्यातं भुवनत्रये ॥८॥
अथ प्राह विशुद्धात्मा वृद्धः कुरुपितामहः ॥
धृतराष्ट्रं महीपालं सपुत्रं प्रहसन्निव ॥९॥
 ॥ भीष्म उवाच ॥
एतद्वत्स पुरा दृष्टं मया क्षेत्रमनुत्तमम् ॥
हाटकेश्वरदेवस्य सर्वपातकनाशनम् ॥१०॥
अत्राहं चैव नि र्मुक्तः स्त्रीहत्योद्भवपातकात् ॥
तस्मादत्रैव राजेंद्र तिष्ठामः पंचवासरान् ॥११॥
येन सर्वाणि पश्यामस्तीर्थान्यायतनानि च ॥
यान्यत्र संति पुण्यानि मुनीनां भावितात्मनाम् ॥१२॥
अथ तद्वचनाद्राजा धृतराष्ट्रोंऽबिकासुतः ॥
शतसंख्यैः सुतैः सार्धं कौतूहलसमन्वितः ॥१३॥
जगाम सत्वरं तत्र यत्र तत्क्षेत्रमुत्तमम् ॥
तपस्विगणसंकीर्णं युक्तं चैवाश्रमैः शुभैः ॥१४॥
ब्रह्मघोषेण महता नादितं सर्वतोदिशम् ॥
वह्निपूजोत्थधूम्रेण कलुषीकृतपाद पम् ॥
क्रीडामृगैश्च संकीर्णं धावद्भिर्बहुभिस्तथा ॥१५॥
ततो निवार्य सैन्यं स्वमुपद्रवभयान्नृपः ॥
पञ्चभिः पांडवैः सार्धं शतसंख्यैस्तथा सुतैः ॥१६॥
भीष्मेण सोमदत्तेन बाह्लीकेन समन्वितः ॥
द्रोणाचार्येण वीरेण तत्पुत्रेण कृपेण च ॥१७॥
सौबलेन च कर्णेन तथान्यैरपि पार्थिवैः ॥
परिवारपरित्यक्तैस्तस्मिन्क्षेत्रे चचार सः ॥१८॥
तेऽपि सर्वे महात्मानः क्षत्रियास्तत्र संस्थिताः ॥
चक्रुर्धर्मक्रियाः सर्वाः श्रद्धापूतेन चेतसा ॥१९॥
स्नानं चक्रुर्विधानेन तीर्थेषु द्विजसत्तमाः ॥
भ्रांत्वाभ्रांत्वा सुपुण्येषु श्रुत्वाश्रुत्वा द्विजन्मनाम् ॥२०॥
दानानि च विशिष्टानि ददुरिष्टानि चापरे ॥
दीनेभ्यः कृपणेभ्यश्च तपस्विभ्यो विशेषतः ॥२१॥
चक्रुः श्राद्धक्रियाश्चान्ये पितॄनुद्दिश्य भक्तितः ॥
पितॄणां तर्पणं चान्ये तिलमिश्र जलेन च ॥२२॥
अन्ये होमक्रिया भूपा जपमन्ये निरर्गलम् ॥
स्वाध्यायमपरे शान्ताः सम्यक्छ्रद्धासमन्विताः ॥२३॥
देवतायतनान्यन्ये माहात्म्यसहितानि च ॥
श्रुत्वा पूर्वनृपाणां च पूजयंति विशेषतः ॥२४॥
बलिदानैः सुवस्त्रैश्च गन्धपुष्पोपलेपनैः ॥
मार्जनैध्वजदानैश्च तथा प्रेक्षणकैः शुभैः ॥२५॥
मंडनैः पुष्पमालाभिः समंताद्द्विजसत्तमाः ॥
हस्त्यश्वरथदानैश्च गोर्भिर्वस्त्रैश्च कांचनैः ॥
कृतार्था ब्राह्मणाः सर्वे कृतास्तै स्तत्र भक्तितः ॥२६॥
एवं स्नात्वा तथाऽभ्यर्च्य देवान्विप्रान्नृपोत्तमाः ॥
धृतराष्ट्रसमायुक्ता जग्मुः स्वशिबिरं ततः ॥२७॥
शंसन्तो विस्मया विष्टास्तीर्थान्यायतनानि च ॥
तस्मिन्क्षेत्रे द्विजांश्चैव तापसान्संशितव्रतान् ॥२८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये धृतराष्ट्रादिकृतहाटकेश्वरक्षेत्रदर्शनवर्णनंनाम द्विसप्ततितमोऽध्यायः ॥७२॥

N/A

References : N/A
Last Updated : December 26, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP