संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २०४

नागरखण्डः - अध्याय २०४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ विश्वामित्र उवाच ॥
एतदर्थं पुरा पृष्टो भर्तृयज्ञश्च नागरैः ॥
नष्टवंशकृते राजन्यथा पृष्टोऽस्मि वै त्व या ॥३॥
 ॥ भर्तृयज्ञ उवाच ॥
नष्टवंशस्तु यो ब्रूयान्नागरोऽस्मीति संसदि ॥
तस्य शीलं प्रविज्ञेयं ततः शुद्धिं समादिशेत् ॥४॥
नागराणां तु ये धर्मा व्यवहाराश्च केवलाः ॥
तेषु चेद्वर्तते नित्यं संभाव्यो नागरो हि सः ॥५॥
तस्य शुद्धिकृते देयं धटं ब्राह्मणसत्तमाः ॥
धटे तु शुद्धिमापन्ने ततोऽसौ शुद्धतां व्रजेत् ॥६॥
श्राद्धार्हः कन्यकार्हश्च सोमार्हश्च विशेषतः ॥
सामान्यपदयोग्यश्च समस्ते स्थानकर्मणि ॥७॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नरोत्तम ॥
द्वितीया जायते शुद्धिर्यथा नष्टान्वये द्विजे ॥
तस्माद्वद महाराज यद्भूयः श्रोतुमर्हसि ॥८॥
 ॥ आनर्त उवाच ॥
तस्मात्ते नागरा भूत्वा विप्राश्चाष्टकुलोद्भवाः ॥
सर्वेषामुत्तमा जाताः प्राधान्येन व्यवस्थिताः ॥९॥
तपसः किं प्रभावः स तेषां वा यजनोद्भवः ॥
विद्योद्भवोऽथवा विप्र किं वा दानसमुद्भवः ॥१०॥
 ॥ विश्वामित्र उवाच ॥
ते सर्वे गुणसंपन्ना यथान्ये नागरास्तथा ॥
विशेषश्चापरस्तेषां ते शक्रेण प्रतिष्ठिताः ॥११॥
तेन ते गौरवं प्राप्ताः सर्वेषां तु द्विजन्मनाम् ॥१२॥
 ॥ आनर्त उवाच ॥
कस्मिन्काले तु ते विप्राः शक्रे णात्र प्रतिष्ठिताः ॥
किमर्थं च वदास्माकं विस्तरेण महामते ॥१३॥
 ॥ विश्वामित्र उवाच ॥
हिरण्याक्ष इति ख्यातः पुराऽऽसीद्दानवो त्तमः ॥
अभवत्तस्य संग्रामः शक्रेण सह दारुणः ॥१४॥
तत्र देवासुरे युद्धे मृता भूरिदिवौकसः ॥
दानवाश्च महाराज परस्परजिगीषवः ॥१५॥
अथ ते दानवाः संख्ये शक्रेण विनिपातिताः ॥
विद्याबलेन ताञ्छुक्रः सजीवान्कुरुते पुनः ॥१६॥
देवाश्च निधनं प्राप्ता न जीवंति कथंचन ॥
कस्यचित्त्वथ कालस्य विष्णुं प्रोवाच वृत्रहा ॥१७॥
धारातीर्थमृतानां च प्रहारैः सन्मुखैः प्रभो ॥
या गतिश्च समादिष्टा तां मे वद जनार्दन ॥१८॥
पराङ्मुखा मृता ये च पलायनपरायणाः ॥
तेषामपि गतिं ब्रूहि यादृग्जायेतवाच्युत ॥१९॥
 ॥ विष्णुरुवाच ॥
धारातीर्थमृतानां च सन्मुखानां महाहवे ॥
यथा चोच्छिन्नबीजानां पुनर्जन्म न विद्यते ॥२०॥
ये पुनः पृष्ठदेशे तु हन्यते भयविक्लवाः ॥
भुज्यमानाः परैस्ते च प्रेताः स्युस्त्रिदशाधिप ॥२१॥
 ॥ इन्द्र उवाच ॥
केचिद्देवा मृता युद्धे युध्यमानाश्च सन्मुखाः ॥
तथैवान्ये मया दृष्टा हन्यमानाः पराङ्मुखाः ॥
प्रेतत्वं दानवानां च सर्वेषां स्यान्न वा प्रभो ॥२२॥
 ॥ विष्णुरुवाच ॥
असंशयं सहस्राक्ष हता युद्धे पराङ्मुखाः ॥
प्रेतत्वे यांति ते सर्वे देवा वा मानुषा यदि ॥२३॥
विषादग्नेः कुलघ्नानां तया चैवात्मघातिनाम् ॥
दंष्ट्रिभिर्हतदेहानां शृंगिभिश्च सुरेश्वर ॥
प्रेतत्वं जायते नूनं सत्यमेतदसंशयम् ॥२४॥
 ॥ इन्द्र उवाच ॥
कथं तेषां भवेन्मुक्तिः प्रेतत्वाद्दारुणाद्विभो ॥
एतन्मे सर्वमाचक्ष्व येन यत्नं करोम्यहम् ॥२५॥
 ॥ श्रीभगवानुवाच ॥
तेषां संयुज्यते श्राद्धं कन्यासंस्थे दिवाकरे ॥
कृष्णपक्षे चतुर्दश्यां नभस्यस्य सुरेश्वर ॥२६॥
गयायां भक्तिपूर्वं तु पितामहवचो यथा ॥
ततः प्रयांति ते मोक्षं सत्यमेतदसंशयम् ॥२७॥
 ॥ इन्द्र उवाच ॥
कस्मात्तत्र दिने श्राद्धं क्रियते मधुसूदन ॥
शस्त्रैर्विनिहतानां च सर्वं मे विस्तराद्वद ॥२८॥
 ॥ श्रीभगवानुवाच ॥
भूतप्रेतपिशाचैश्च कूष्मांडै राक्षसैरपि ॥
पुरा संप्रार्थितः शंभुर्दिने तत्र समागते ॥
अद्यैकं दिवसं देव कन्यासंस्थे दिवाकरे ॥२९॥
अस्माकं देहि येन स्यात्तृप्तिर्वर्षसमुद्भवा ॥
प्रदत्ते वंशजैः श्राद्धे दीनानां त्वं दयां कुरु ॥३०॥
 ॥ श्रीभगवानुवाच ॥
यः करिष्यति वै श्राद्धमस्मिन्नहनि संस्थिते ॥
कृष्णपक्षे चतुर्दश्यां नभस्यस्य च वंशजः ॥
भविष्यति परा प्रीतिर्यावत्संवत्सरः स्थितः ॥३१॥
यः पुनस्तु गयां गत्वा युष्मद्वंशसमुद्भवः ॥
करिष्यति तथा श्राद्धं तेन मुक्तिमवाप्स्यथ ॥३२॥
शस्त्रेण निहतानां च स्वर्गस्थानामपि ध्रुवम् ॥
न करिष्यति यः श्राद्धं तस्मिन्नहनि संस्थिते ॥३३॥
क्षुत्पिपासार्तदेहाश्च पितरस्तस्य दुःखिताः ॥
स्थास्यंति वत्सरं यावदेतदाह पितामहः ॥३४॥
तस्मात्सर्वप्रयत्नेन तस्मिन्नहनि कारयेत् ॥
अन्यमुद्दिश्य तत्सर्वं प्रेतानामिह जायते ॥३५॥
ततो भगवता दत्ता तेषां चैव तु सा तिथिः ॥
श्राद्धकर्मणि संजाते विना शस्त्रहतं जनम् ॥३६॥
संमुखस्यापि संग्रामे युध्यमानस्य देहिनः ॥
कदाचिच्चलते चित्तं तीक्ष्णशस्त्रहतस्य च ॥३७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्र माहात्म्ये शक्रविष्णुसंवादे प्रेतश्राद्धकथनंनाम चतुरधिकद्विशततमोऽध्यायः ॥२०४॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP