नागरखण्डः - अध्याय १८२
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
एवं पत्नीं समासाद्य गायत्रीं चतुराननः ॥
संप्रहृष्टमना भूत्वा प्रस्थितो यज्ञमण्डपम् ॥१॥
गायत्र्यपि समादाय मूर्ध्नि तामरणिं मुदा ॥
प्रतस्थे संपरित्यज्य गोपभावं विगर्हितम् ॥२॥
वाद्यमानेषु वाद्येषु ब्रह्मघोषे दिवंगते ॥
कलं प्रगायमानेषु गन्धर्वेषु समंततः ॥३॥
सर्वदेवद्विजोपेतः संप्राप्तो यज्ञमण्डपे ॥
गायत्र्या सहितो ब्रह्मा मानुषं भावमाश्रितः ॥४॥
एतस्मिन्नंतरे चक्रे केशनिर्वपणं विधेः ॥
विश्वकर्मा नखानां च गायत्र्यास्तदनंतरम् ॥५॥
औदुम्बरं ततो दण्डं पुलस्त्योऽस्मै समाददे ॥
एणशृंगान्वितं चर्म मन्त्रवद्विजसत्तमाः ॥६॥
पत्नीशालां गृहीत्वा च गायत्रीं मौनधारिणीम् ॥
मेखलां निदधे चान्यां कट्यां मौंजीमयीं शुभाम् ॥७॥
ततश्चक्रे परं कर्म यदुक्तं यज्ञमंडपे ॥
ऋत्विग्भिः सहितो वेधा वेदवाक्यसमादृतः ॥८॥
प्रवर्ग्ये जायमाने च तत्राश्चर्यमभून्महत् ॥
जाल्मरूपधरः कश्चिद्दिग्वासा विकृताननः ॥९॥
कपालपाणिरायातो भोजनं दीयतामिति ॥
निषेध्यमानोऽपि च तैः प्रविष्टो याज्ञिकं सदः ॥
स कृत्वाऽटनमन्याय्यं तर्ज्यमानोऽपि तापसैः ॥१०॥
॥ सदस्या ऊचुः ॥
कस्मात्पापसमेतस्त्वं प्रविष्टो यज्ञमण्डपे ॥
कपाली नग्नरूपो यो यज्ञकर्मविवर्जितः ॥११॥
तस्माद्गच्छ द्रुतं मूढ यावद्ब्रह्मा न कुप्यति ॥
तथाऽन्ये ब्राह्मणश्रेष्ठास्तथा देवाः सवासवाः ॥१२॥
॥ जाल्म उवाच ॥
ब्रह्मयज्ञमिमं श्रुत्वा दूरादत्र समागतः ॥
बुभुक्षितो द्विजश्रेष्ठास्तत्किमर्थं विगर्हथ ॥१३॥
दीनांधैः कृपणैः सवैर्स्तर्पितैः क्रतुरुच्यते ॥
अन्यथाऽसौ विनाशाय यदुक्तं ब्राह्मणैर्वचः ॥१४॥
अन्नहीनो दहेद्राष्टं मन्त्रहीनस्तु ऋत्विजः ॥
याज्ञिकं दक्षिणा हीनो नास्ति यज्ञसमो रिपुः ॥१५॥
॥ ब्राह्मणा ऊचुः ॥
यदि त्वं भोक्तुकामस्तु समायातो व्रज द्रुतम् ॥
एतस्यां सत्रशालायां भुञ्जते यत्र तापसाः ॥
दीनान्धाः कृपणाश्चैव ततः क्षुत्क्षामकंठिताः ॥१६॥
अथवा धनकामस्त्वं वस्त्रकामोऽथ तापस ॥
व्रज वित्तपतिर्यत्र दानशालां समाश्रितः ॥१७॥
अनिंद्योऽयं महामूर्ख यज्ञः पैतामहो यतः ॥
अर्चितः सर्वतः पुण्यं तत्किं निन्दसि दुर्मते ॥१८॥
॥ सूत उवाच ॥
एवमुक्तः कपालं स परिक्षिप्य धरातले ॥
जगामादर्शनं सद्यो दीपवद्द्विजसत्तमाः ॥१९॥
॥ ऋत्विज ऊचुः ॥
कथं यज्ञक्रिया कार्या कपाले सदसि स्थिते ॥
परिक्षिपथ तस्मात्तु एवमूचुर्द्विजोत्तमाः ॥२०॥
अथैको बहुधा प्रोक्तः सदस्यैश्च द्विजोत्तमैः ॥
दण्डकाष्ठं समुद्यम्य प्रचिक्षेप बहिस्तथा ॥२१॥
अथान्यत्तत्र संजातं कपालं तादृशं पुनः ॥
तस्मिन्नपि तथा क्षिप्ते भूयोऽन्यत्समपद्यत ॥२२॥
एवं शतसहस्राणि ह्ययुतान्यर्बुदानि च ॥
तत्र जातानि तैर्व्याप्तो यज्ञवाटः समंततः ॥२३॥
हाहाकारस्ततौ जज्ञे समस्ते यज्ञमण्डपे ॥
दृष्ट्वा कपालसंघांस्तान्यज्ञ कर्मप्रदूषकान् ॥२४॥
अथ संचिंतयामास ध्यानं कृत्वा पितामहः ॥
हरारिष्टं समाज्ञाय तत्सर्वं हृष्टरूपधृक् ॥२५॥
कृतांजलिपुटो भूत्वा ततः प्रोवाच सादरम् ॥
महेश्वरं समासाद्य यज्ञवाटसमाश्रितम् ॥२६॥
किमिदं युज्यते देव यज्ञेऽस्मिन्कर्मणः क्षतिः ॥
तस्मात्संहर सर्वाणि कपालानि सुरेश्वर ॥२७॥
यज्ञकर्मविलोपोऽयं मा भूत्त्वयि समागते ॥२८॥
ततः प्रोवाच संक्रुद्धो भगवाञ्छशिशेखरः ॥
तन्ममेष्टतमं पात्रं भोजनाय सदा स्थितम् ॥२९॥
एते द्विजाधमाः कस्माद्विद्विषंतिपितामह ॥
तथा न मां समुद्दिश्य जुहुवुर्जातवेदसि ॥३०॥
यथान्यादेवता स्तद्वन्मन्त्रपूतं हविर्विधे ॥
तस्माद्यदि विधे कार्या समाप्तिर्यज्ञकर्मणि ॥३१॥
तत्कपालाश्रितं हव्यं कर्तव्यं सकलं त्विदम् ॥
तथा च मां समु द्दिश्य विशषाज्जातवेदसि ॥३२॥
होतव्यं हविरेवात्र समाप्तिं यास्यति क्रतुः ॥
नान्यथा सत्यमेवोक्तं तवाग्रे चतुरानन ॥३३॥
॥ पितामह उवाच ॥
रूपाणि तव देवेश पृथग्भूतान्यनेकशः ॥
संख्यया परिहीनानि ध्येयानि सकलानि च ॥३४॥
एतन्महाव्रतं रूपमाख्यातं ते त्रिलोचन ॥
नैवं च मखकर्म स्यात्तत्रैव च न युज्यते ॥३५॥
अद्यैतत्कर्म कर्तुं च श्रुतिबाह्यं कथंचन ॥
तव वाक्यमपि त्र्यक्ष नान्यथा कर्तुमुत्सहे ॥३६॥
मृन्मयेषु कपालेषु हविः श्राप्यं सुरेश्वर ॥
अद्यप्रभृति यज्ञेषु पुरोडाशात्मिकं द्विजैः ॥
तवोद्देशेन देवेश होतव्यं शतरुद्रियम् ॥३७॥
विशेषात्सर्वयज्ञेषु जप्यं चैव विशेषतः ॥
कपालानां तु द्वारेण त्वया रूपं निजं कृतम् ॥३८॥
प्रकटं च सुरश्रेष्ठ कपालेश्वरसंज्ञितः ॥
तस्मात्त्वं भविता रुद्र क्षेत्रेऽस्मिन्द्वादशोऽपरः ॥३९॥
अत्र यज्ञं समारभ्य यस्त्वां प्राक्पूजयिष्यति ॥
अविघ्नेन मखस्तस्य समाप्तिं प्रव्रजिष्यति ॥४०॥
एवमुक्ते ततस्तेन कपालानि द्विजोत्तमाः ॥
तानि सर्वाणि नष्टानि संख्यया रहितानि च ॥४१॥
ततो हृष्टश्चतुर्वक्त्रः स्थापयामास तत्क्षणात् ॥
लिगं माहेश्वरं तत्र कपालेश्वरसंज्ञितम् ॥४२॥
अब्रवीच्च ततो वाक्यं यश्चैतत्पूजयिष्यति ॥
मम कुण्डत्रये स्नात्वा स यास्यति परां गतिम् ॥४३॥
शुक्लपक्षे चतुर्दश्यां कार्तिके जागरं तु यः ॥
करिष्यति पुनश्चास्य लिंगस्य सुसमाहितः ॥
आजन्मप्रभवात्पापात्स विमुक्तिमवाप्स्यति ॥४४॥
एवमुक्तेऽथ विधिना प्रहृष्टस्त्रिपुरांतकः ॥
यज्ञमण्डपमासाद्य प्रस्थितो वेदिसंनिधौ ॥४५॥
ब्राह्मणैश्च ततः कर्म प्रारब्धं यज्ञसम्भवम् ॥
विस्मयोत्फुल्लनयनैर्नमस्कृत्य महेश्वरम् ॥४६॥
॥ सूत उवाच ॥
एवं च यज तस्तस्य चतुर्वक्त्रस्य तत्र च ॥
ऋषीणां कोटिरायाता दक्षिणापथवासिनाम् ॥४७॥
श्रुत्वा पैतामहं यज्ञं कौतुकेन समन्विताः ॥
कीदृशो भविता यज्ञो दीक्षितो यत्र पद्मजः ॥४८॥
कीदृक्क्षेत्रं च तत्पुण्यं हाटकेश्वरसंज्ञितम् ॥
कीदृशास्ते च विप्रेन्द्रा ऋत्विजस्तत्र ये स्थिताः ॥४९॥
अथ ते सुपरिश्रांता मध्यंदिनगते रवौ ॥
रविवारेण संप्राप्ते नक्षत्रे चाश्विसंस्थिते ॥५०॥
वैवस्वत्यां तिथौ चैव प्राप्ता घर्मपीडिताः ॥
कंचिज्जलाशयं प्राप्य प्रविष्टाः सलिलं शुभम् ॥५१॥
शंकुकर्णा महाकर्णा वकनासास्तथापरे ॥
महोदरा बृहद्दन्ता दीर्घोष्ठाः स्थूलमस्तकाः ॥५२॥
चिपिटाक्षास्तथा चान्ये दीर्घग्रीवास्तथा परे ॥
कृष्णांगाः स्फुटितैः पादैर्नखैर्दीर्घैः समुत्थितैः ॥५३॥
ततो यावद्विनिष्क्रांताः प्रपश्यन्ति परस्परम् ॥
तावद्वैरूपस्यनिर्मुक्ताः संजाताः कामसन्निभाः ॥५४॥
ततो विस्मयमापन्ना मिथः प्रोचुः प्रहर्षिताः ॥
रूपव्यत्ययमालोक्य ज्ञात्वा तीर्थं तदुत्तमम् ॥
अत्र स्नानादिदं रूपमस्माभिः प्राप्तमुत्तमम् ॥५५॥
यस्मात्तस्मादिदं तीर्थं रूपतीर्थं भविष्यति ॥
त्रैलोक्ये सकले ख्यातं सर्वपातकनाशनम् ॥५६॥
येऽत्र स्नानं करिष्यन्ति श्रद्धया परया युताः ॥
सुरूपास्ते भविष्यंति सदा जन्मनि जन्मनि ॥५७॥
पितॄंश्च तर्पयिष्यन्ति य त्र श्रद्धासमन्विताः ॥
जलेनापि गयाश्राद्धात्ते लप्स्यन्ते धिकं फलम् ॥५८॥
येऽत्र रत्नप्रदानं च प्रकरिष्यन्ति मानवाः ॥
भविष्यंति न संदेहो राजानस्ते भवेभवे ॥५९॥
स्थास्यामो वयमत्रैव सांप्रतं कृतनिश्चयाः ॥
न यास्यामो वयं तीर्थं यद्यपि स्यात्सुशोभनम् ॥६०॥
एवमुक्त्वाऽथ व्यभजंस्तत्सर्वं मुनयश्च ते ॥
यज्ञोपवीतमात्राणि स्वानि तीर्थानि चक्रिरे ॥६१॥
सूत उवाच ॥
अद्यापि च द्विजश्रेष्ठास्तत्र तीर्थे जगद्गुरुः ॥
प्रथमं स्पृशते तोयं नित्यं स्याद्दयितं शुभम् ॥६२॥
निष्कामस्तु पुनर्मर्त्यो यः स्नानं तत्र श्रद्धया ॥.
कुरुते स परं श्रेयः प्राप्नुयात्सिद्धिलक्षणम् ॥६३॥
एवं ते मुनयः सर्वे विभज्य तन्महत्सरः ॥
सायंतनं च तत्रैव कृत्वा कर्म सुविस्तरम् ॥६४॥
ततो निशामुखे प्राप्ता यत्र देवः पितामहः ॥
दीक्षितस्त्वथ मौनी च यज्ञमण्डपसंश्रितः ॥६५॥
तं प्रणम्य ततः सर्वे गता यत्रर्त्विजः स्थिताः ॥
उपविष्टाः परिश्रान्ता दिवा यज्ञियकर्मणा ॥६६॥
इन्द्रादिकैः सुरैर्भक्त्या मृद्यमानाङ्घ्रयः स्थिताः ॥
अभिवाद्याथ तान्सर्वानुपविष्टास्ततो ग्रतः ॥६७॥
चक्रुश्चाथ कथाश्चित्रा यज्ञकर्मसमुद्भवाः ॥
सोमपानस्य संबन्धो व्यत्ययं च समुद्भवम् ॥६८॥
उद्गातुः प्रभवं चैव तथाध्वर्योः परस्परम् ॥
प्रोचुस्ते तत्त्वमाश्रित्य तथान्ये दूषयन्ति तत् ॥६९॥
अन्ये मीमांसकास्तत्र कोपसंरक्तलोचनाः ॥.
हन्युस्तेषां मतं वादमाश्रिता वाग्विचक्षणाः ॥७०॥
परिशिष्टविदश्चान्ये मध्यस्था द्विजसत्तमाः ॥
प्रोचुर्वादं परित्यज्य साभिप्रायं यथोदितम् ॥७१॥
महावीरपुरोडाशचयनप्रमुखांस्तथा ॥
विवादांश्चक्रिरे चान्ये स्वंस्वं पक्षं समाश्रिताः ॥७२॥
एवं सा रजनी तेषामतिक्रान्ता द्विजन्मनाम् ॥७३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रूपतीर्थोत्पत्तिपूर्वकप्रथमयज्ञदिवसवृत्तान्तवर्णनंनाम द्व्यशीत्युत्तरशततमोऽध्यायः ॥१८२॥
N/A
References : N/A
Last Updated : December 31, 2024
TOP