नागरखण्डः - अध्याय २६७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
सूत उवाच ॥
तस्मादेषा महाराज शिवरात्रिर्विपश्चिता ॥
कर्तव्या पुरुषेणात्र लोकद्वयमभीप्सुना ॥१॥
आनर्त उवाच ॥
मंकणेश्वरमाहात्म्यं मया विस्तरतः श्रुतम् ॥
शिवरात्रिसमोपेतं यत्त्वया परिकीर्तितम् ॥२॥
सांप्रतं वद मे कृत्स्नं सिद्धेश्वरसमुद्भवम् ॥
विस्तरेण महाभाग परं कौतूहलं हि मे ॥३॥
भर्तृयज्ञ उवाच ॥
सिद्धेश्वर इति ख्यातो महादेवो महीपते ॥
तस्योत्पत्तिस्त्वया पूर्वं श्रुतात्र वदतो मम ॥४॥
सांप्रतं तत्फलं वच्मि तस्मिन्दृष्टे तु दानजम् ॥
यत्फलं जायते नॄणां चक्रवर्तित्व संभवम् ॥५॥
तुलापुरुषदानं च तत्र राजन्प्रशश्यते ॥
य इच्छेच्चक्रवर्तित्वं समस्ते धरणीतले ॥६॥
आनर्त उवाच ॥
तुलापुरुषदानस्य यो विधिः परिकीर्तितः ॥
तं मे सर्वं समाचक्ष्व विस्तरेण महामुने ॥७॥
भर्तृयज्ञ उवाच ॥
चंद्रसूर्योपरागे वा अयने विषुवे तथा ॥
तीर्थे वा पुरुषश्रेष्ठ तुलापुरुषसंभवम् ॥८॥
प्रशंसंति विधिं सम्यक्प्राप्ते वा चेंदुसंक्षये ॥
ब्राह्मणानां सुदांतानामनुष्ठानवतां सताम् ॥९॥
वेदाध्ययनयुक्तानां निर्दोषाणां च पार्थिव ॥
विभज्य स भवेद्देयो नैकस्य च कथंचन ॥१०॥
शुचौ देशे समे पुण्ये पूर्वोत्तरप्लवे शुभे ॥
मंडपं कारयेद्विद्वान् रम्यं ष़ोशहस्तकम् ॥
तन्मध्ये कारयेद्वेदिं चतुर्हस्त प्रमाणतः ॥
यजमानस्य हस्तेन हस्तैकेन समुच्छ्रिताम् ॥१२॥
चतुर्हस्तानि कुण्डानि चतुर्दिक्षु प्रकल्पयेत ॥
एकहस्तप्रमाणानि आयामव्यासविस्तरात् ॥
ऐशान्यामपरां वेदिं हस्तमात्रां न्यसेच्छुभाम् ॥
रत्निमात्रोत्थितां चैव ग्रहांस्तत्र प्रकल्पयेत् ॥१४॥
युग्मांश्च ऋत्विजः कार्याश्चतुर्दिक्षु यथाक्रमम् ॥
बह्वृचोऽध्वर्यश्चैव च्छंदोगाथर्वणावपि ॥१५॥
तूष्णीं तु देवताहोमस्तैः कार्यः सुसमाहितैः ॥
तल्लिंगैर्नृपतेमंत्रैः स्वशक्त्या जप एव च ॥१६॥
एकहस्तप्रविष्टं तु चतुर्हस्तोच्छ्रितं तथा ॥
स्तंभद्वयं तु कर्तव्यं वेदियाम्योत्तरे स्थितम् ॥१७॥
तन्मध्ये सुशुभं काष्ठं स्तंभजात्यं दृढं न्यसेत् ॥
चन्दनः खदिरो वाथ बिल्वोवाऽश्वत्थ एव वा ॥१८॥
तिंदुको देवदारुर्वा श्रीपर्णी वा वटोऽथवा ॥
अष्टौ वृक्षाः शुभाः शस्ताः स्तंभार्थं नृपसत्तम् ॥१९॥
शिक्यद्वय समोपेतां तन्मध्ये विन्यसेत्तुलाम् ॥
स्नातः शुक्लांबरधरः शुक्लमाल्यानुलेपनः ॥२० ॥
पूरयित्वा समंताच्च लोकपालान्यथाक्रमम् ॥
स्तंभान्संपूजयत्पश्चाद्गन्धमाल्यानुलेपनैः ॥२१॥
तुलां च पार्थिवश्रेष्ठ पुण्याहं च प्रकीर्तयेत् ॥
यजमानो निजैः सर्वैरायुधैः कायसंस्थितैः ॥२२॥
पश्चिमां दिशमास्थाय प्राङ्मुखः श्रद्धयाऽन्वितः ॥
कृतांजलिपुटो भूत्वा इमं मंत्रमुदीरयेत् ॥२३॥
ब्रह्मणो दुहिता नित्यं सत्यं परममाश्रिता ॥
काश्यपी गोत्रतश्चैव नामतो विश्रुता तुला ॥२४॥
त्वं तुले सत्यनामासि स्वभीष्टं चात्मनः शुभम् ॥
करिष्यामि प्रसादं मे सांनिध्यं कुरु सांप्रतम् ॥२५॥
ततस्तस्यां समारुह्य स्वशक्त्या यत्समाहृतम् ॥
दानार्थं पूर्वमायोज्यं शिक्येन्यस्मिन्नरोत्तम ॥२६॥
सुवर्णं रजतं वाऽथ वस्त्रं चान्यदभीप्सितम् ॥
यावत्साम्यं भवेद्राजन्नात्मनोऽभ्यधिकं च वा ॥
ततोऽभीष्टां समासाद्य देवतां शिक्यमाश्रितः ॥
उदकं जलमध्ये च तदर्थं प्रक्षिपेद्द्रुतम् ॥२८॥
सतिलं सहिरण्यं च साक्षतं विधिपूर्वकम् ॥
अवतीर्य ततः सर्वं ब्राह्मणेभ्यो निवेदयेत् ॥२९॥
यत्फलं प्राप्यते पश्चात्तदिहैकमनाः शृणु ॥३०॥
अजानता जानता वा यत्पापं तु भवेत्कृतम् ॥
तत्सर्वं नाशयेन्मर्त्यो दानस्यास्य प्रभावतः ॥३१॥
यावन्मात्रं कृतं पापमतीतं नृपसत्तम ॥
तावन्मात्रं क्षयं याति तुलापुरुषदानतः ॥३२॥
ईश्वराणां समादिष्टं कायक्लेशभयात्मनाम् ॥
पुरश्चरणमेतद्धि दानं तौल्यसमुद्भवम् ॥३३॥
एतद्दत्तं दिलीपेन कार्तवीर्येण भूपते ॥
पृथुना पुरुकुत्सेन तथान्यैरपि पार्थिवैः ॥३४॥
एतत्पुण्यं प्रशस्यं च सर्वकामप्रदं नृणाम् ॥
तुलापुरुषदानं च सर्वोपद्रवनाशनम् ॥३५॥
आधयो व्याधयो न स्युर्न वैधव्यं गदोद्भवम् ॥
संजायते नृपश्रेष्ठ न वियोगः स्वबन्धुभिः ॥
तुलापुरुषदानस्य फलमेतदुदाहृतम् ॥३६॥
तुलापुरुषदानस्य प्रदत्तस्य नृपोत्तम ॥
न शक्यते कथयितुं फलं यत्स्यात्कलौ युगे ॥३७॥
दक्षिणामूर्तिमासाद्य सिद्धेश्वरविभोः पुरः ॥
यः प्रयच्छति भूपाल सहस्रगुणितं फलम् ॥३८॥
तस्मात्सर्वप्रयत्नेन प्राप्य सिद्धेश्वरं विभुम् ॥
तुलापुरुषदानं च कर्तव्यं सुविवेकिना ॥३९॥
एकत्र सर्वतीर्थानि सर्वाण्यायतनानि च ॥
हाटकेश्वरजे क्षेत्रे कथितानि स्वयंभुवा ॥४०॥
सिद्धेश्वरः सुरश्रेष्ठ एकत्र समुदाहृतः ॥
तस्मिन्दृष्टे तथा स्पृष्टे पूजिते नृपसत्तम ॥
सर्वेषां लभते मर्त्यः फलं यत्परिकीर्तितम् ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्रीसिद्धेश्वरमाहात्म्ये तुलापुरुषदानमाहात्म्यवर्णनं नाम सप्तषष्ट्युत्तरद्विशततमोऽध्यायः ॥२६७॥
N/A
References : N/A
Last Updated : January 06, 2025
TOP