संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय १८४

नागरखण्डः - अध्याय १८४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
तृतीये च दिने प्राप्ते त्रयोदश्यां द्विजोत्तमाः ॥
प्रातःसवनमादाय ऋत्विजः सर्व एव ते ॥
स्वेस्वे कर्मणि संलग्ना यज्ञकृत्यसमुद्भवे ॥१॥
ततः प्रवर्तते यज्ञस्तदा पैतामहो महान् ॥
सर्वकामसमृद्धस्तु सर्वैः समुदितो गुणैः ॥२॥
दीयतां दीयतां तत्र भुज्यतां भुज्यतामिति ॥
एकः संश्रूयते शब्दो द्वितीयो द्विजसंभवः ॥३॥
नान्यस्तत्र तृतीयस्तु यज्ञे पैतामहे शुभे ॥
यो यं कामयते कामं हेमरत्नसमुद्भवम् ॥४॥
स तत्प्राप्नोत्यसंदिग्धं वांछिताच्च चतुर्गुणम् ॥
पक्वान्नस्य कृतास्तत्र दृश्यंते पर्वताः शुभाः ॥५॥
घृतक्षीर महानद्यो दानार्थं वित्तराशयः ॥
एतस्मिन्नंतरे प्राप्तः कश्चिज्ज्ञानी द्विजोत्तमाः ॥६॥
अतीतानागतान्वेत्ति वर्तमानं च यः सदा ॥
स ब्रह्माणं नमस्कृत्य निविष्टश्च तदग्रतः ॥७॥
कर्मांतरेषु विप्राणां स सर्वेषां द्विजोत्तमाः ॥
कथयामास यद्वृत्तं बाल्यात्प्रभृति कृत्स्नशः ॥८॥
ततस्त ऋत्विजः सर्वे कौतुकाविष्टचेतसः ॥
पप्रच्छुर्ज्ञानिनं तं च विस्मयोत्फुल्ललोचनाः ॥९॥
विस्मृतानि स्मरंतस्ते निजकृत्यानि वै ततः ॥
प्रोक्तानि गर्हणीयानि ह्यसंख्यातानि सर्वशः ॥१०॥
ततस्ते पुनरेवाथ पप्रच्छुर्ज्ञानिनं च तम् ॥
लोकोत्तरमिदं ज्ञानं कथं ते संस्थितं द्विज ॥११॥
को गुरुस्ते समाचक्ष्व परं कौतूहलं हि नः ॥
अहोज्ञानमहो ज्ञानं नैतद्दृष्टं श्रुतं च न ॥१२॥
यादृशं ते द्विजश्रेष्ठ दृश्यते पार्थसंस्थितम् ॥
किं ब्रह्मणा स्वयं विप्र त्वमेवं प्रतिबोधितः ॥१३॥
किं वा हरेण तुष्टेन किं वा देवेन चक्रिणा ॥
नान्यप्रबोधितस्यैवं ज्ञानं संजायते स्फुटम् ॥१४॥
 ॥ अतिथिरुवाच ॥
पिंगला कुररः सर्पः सारंगश्चैव यो वने ॥
इषुकारः कुमारी च षडेते गुरवो मम ॥१५॥
एतेषां चेष्टितं दृष्ट्वा ज्ञानं मे समुपस्थितम् ॥१६॥
 ॥ ब्राह्मणा ऊचुः ॥
कथयस्व महाभाग कथं ते गुरवः स्थिताः ॥
कीदृशं च त्वया दृष्टं तेषां चैव विचेष्टितम् ॥१७॥
कस्मिन्देशे त्वमुत्पन्नः कस्मिन्स्थाने वदस्व नः ॥
किंनामा किं नु गोत्रश्च सर्वं विस्तरतो वद ॥१८॥
 ॥ अतिथिरुवाच ॥
आसन्नव पुरे विप्राश्चत्वारो ये विवासिताः ॥
शुनःशेपोऽथ शाक्रेयो बौद्धो दांतश्चतुर्थकः ॥१९॥
तेषां मध्ये तु यो बौद्धः शांतो दांत इति स्मृतः ॥
छन्दोगगोत्रविख्यातो वेदवेदांगपारगः ॥२०॥
नागरेषु समुत्पन्नः पश्चिमेवयसि स्थितः ॥
तस्याहं प्रथमः पुत्रः प्राणेभ्योऽपि सुहृत्प्रियः ॥२१॥
ततोऽहं यौवनं प्राप्तो यदा द्विजवरोत्तम ॥
तदा मे दयितस्तातः पंचत्वं समुपागतः ॥२२॥
एतस्मिन्नंतरे राजा ह्यानर्ताधिपतिर्द्विजाः ॥
सुतपास्तेन निर्दिष्टोऽहं तु कंचुकिकर्मणि ॥२३॥
शांतं दांतं समालोक्य विश्वस्तेन महात्मना ॥
तस्य चांतःपुरे ह्यासीत्पिंगलानाम नायिका ॥२४॥
दौर्भाग्येण समोपेता रूपेणापि समन्विता ॥
अथान्याः शतशस्तस्य भार्याश्चांतःपुरे स्थिताः ॥२५॥
ताः सर्वा रजनीवक्त्रे व्याकुलत्वं प्रयांति च ॥
आहरंति परान्गन्धान्धूपांश्च कुसुमानि च ॥२६॥
विलेपनानि मुख्यानि सुरभीणि तथा पुरः ॥  
पुष्पाणि च विचित्राणि ह्यन्याः सूक्ष्मांबराणि च ॥२७॥
तावद्यावत्स्थितः कालः शयनीयसमुद्भवः ॥
मन्मथोत्साहसं युक्ताः पुलकेन समन्विताः ॥२८॥
एका जानाति मां सुप्तां नूनमाकारयिष्यति ॥
अन्या जानाति मां चैव परस्परममर्षतः ॥२९॥
स्पर्धयन्ति प्रयुध्यन्ति विरूपाणि वदन्ति च ॥
तासां मध्यात्ततश्चैका प्रयाति नृपसंनिधौ ॥३०॥
शेषा वै लक्ष्यमासाद्य निःश्वस्य प्रस्वपन्ति च ॥
दुःखार्ता न लभन्ति स्म ताश्च निद्रां पराभवात् ॥३१॥
कामेन पीडितांगाश्च बाष्पपूर्णेक्षणाः स्थिताः ॥३२॥
आशा हि परमं दुःखं निराशा परमं सुखम् ॥
आशानिराशां कृत्वा च सुखं स्वपिति पिंगला ॥३३॥
न करोति च शृंगारं न स्पर्धां च कदाचन ॥
न व्याकुलत्वमापेदे सुखं स्वपिति पिंगला ॥३४॥
ततो मयापि तद्दृष्ट्वा तस्याश्चेष्टितमुत्तमम् ॥
आशाः सर्वाः परित्यक्ताः स्वपिमीह ततः सुखी ॥३५॥
ये स्वपंति सुखं रात्रौ तेषां कायाग्निरिध्यते ॥
आहारं प्रतिगृह्णाति ततः पुष्टिकरं परम् ॥३६॥
तदेत्कारणं जातं मम तेजो भिवृद्धये ॥
गुरुत्वे पिंगला जाता तेन सा मे द्विजोत्तमाः ॥३७॥
आशापाशैः परीतांगा ये भवन्ति नरो र्दिताः ॥
ते रात्रौ शेरते नैव तदप्राप्तिविचिन्तया ॥३८॥
नैवाग्निर्दीप्यते तेषां जाठरश्च ततः परम् ॥
आहारं वांछते नैव तन्न तेजोभिवर्धनम् ॥३९॥
सर्वस्य विद्यते प्रांतो न वांछायाः कथंचन ॥४०॥
यथायथा भवेल्लाभो वांचितस्य नृणामिह ॥
हविषा कृष्णवर्त्मेव वृद्धिं याति तथातथा ॥४१॥
यथा शृंगं रुरोः काये वर्धमानस्य वर्धते ॥
एवं तृष्णापि यत्नेन वर्धमानेन वर्धते ॥४२॥
एवं ज्ञात्वा महाभागः पुरुषेण विजानता ॥
दिवा तत्कर्म कर्तव्यं येन रात्रौ सुखं स्वपेत् ॥४३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्रह्मयज्ञे तृतीयदिवसे पिंगलोपाख्यानवर्णनंनाम चतुरशीत्युत्तरशततमोऽध्यायः ॥१८४॥

N/A

References : N/A
Last Updated : December 31, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP