संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय ६८

नागरखण्डः - अध्याय ६८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
अथ ते शबरा यत्नाद्रक्तं तद्धैहयोद्भवम् ॥
तत्र निन्युः स्थिता यत्र गर्ता सा पितृसंभवा ॥१॥
भार्गवोऽपि च तं हत्वा रक्तमादाय कृत्स्नशः ॥
ततः संप्रेषयामास यत्र गर्ताऽथ पैतृकी ॥२॥
न स बालं न वृद्धं च परित्यजति भार्गवः ॥
यौवनस्थं विशेषेण गर्भस्थं वाथ क्षत्रियम् ॥३॥
स्वयं जघान भूपान्स तेषां पार्श्वे तथा परान् ॥
विध्वंसाययति क्रुद्धः सैनिकैश्च समन्ततः ॥४॥
तथैवासृक्प्रगृह्णाति गृह्णापयति चादरात् ॥
तेषां पार्श्वैस्ततस्तूर्णं प्रेषयामास तत्र च ॥५॥
एवं निःक्षत्रियां कृत्वा कृत्स्नां पृथ्वीं भृगद्वहः ॥
हाटकेश्वरजे क्षेत्रे जगाम तदनन्तरम् ॥६॥
ततस्तै रुधिरैः स्नात्वा समादाय तिलान्बहून् ॥
अपसव्यं समाधाय प्रचक्रे पितृतर्पणम् ॥७॥
प्रत्यक्षं सर्वविप्राणां तथान्येषां तपस्विनाम् ॥
प्रतिज्ञां पूरयित्वाऽथ विशोकः स बभूव ह ॥८॥
ततो निःक्षत्रिये लोके कृत्वा हयमखं च सः ॥
प्रायच्छत्सकलामुर्वीं ब्राह्मणेभ्यश्च दक्षिणाम् ॥९॥
अथ लब्धवरा विप्रास्तमूचुर्भृगुसत्तमम् ॥
नास्मद्भूमौ त्वया स्थेयमेको राजा यतः स्मृतः ॥१०॥
सोऽपि बाढमिति प्रोच्य हर्षेण महतान्वितः ॥
महीपर्यंतमासाद्य प्रोवाचाथ नदीपतिम् ॥११॥
आरोप्य सुमहच्चापमाग्नेयास्त्रं प्रयुज्य च ॥
त्रिशिखां भ्रुकुटीं कृत्वा कोपेन महतान्वितः ॥१२॥
 ॥ राम उवाच ॥
मया निःक्षत्रिया भूमिः कृता शैलवनान्विता ॥
ब्राह्मणेभ्यस्ततो दत्ता वाजिमेधे महामखे ॥१३॥
तस्मात्त्वं देहि मे स्थानं कृत्वाऽपसरणं स्वयम् ॥
न हि दत्त्वा ग्रही ष्यामि विप्रेभ्यो मेदिनीं पुनः ॥१४॥
न करोष्यथवा वाक्यं ममाद्य त्वं नदीपते ॥
स्थलरूपं करिष्यामि वह्न्यस्त्रपरिशोषितम् ॥१५॥
 ॥ सूत उवाच ॥
तस्य तद्वचनं श्रुत्वा समुद्रो भयसंकुलः ॥
अपसारं ततश्चक्रे यावत्तस्याभिवांछितम् ॥१६॥
ततश्चकार तत्रैव वसतिं स भृगूद्वहः ॥
तपश्चर्यासमायुक्तः पितुर्वधमनुस्मरन् ॥१७॥
ततः सर्वान्पुलिन्दांश्च शवरान्मेदसंयुतान् ॥
भूम्यन्ते धारयामास पर्वतेषु स भार्गवः ॥१८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये परशुरामकृतमहीदानपूर्वकसमुद्रापसारणवृत्तान्तवर्णनंनामा ष्टाषष्टितमोऽध्यायः ॥६८॥ छ ॥

N/A

References : N/A
Last Updated : December 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP