संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय १५७

नागरखण्डः - अध्याय १५७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
एवं संबोधितस्तैस्तु लोकैः पुष्पस्तदा द्विजाः ॥
तानब्रवीत्ततः कुद्धो न करिष्यामि भोजनम् ॥१॥
यावन्न चास्य पापस्य करिष्यामि प्रतिक्रियाम् ॥
तद्वदध्वं महाभागा देवो वा देवताऽथवा ॥२॥
तथान्ये सिद्धमन्त्रा वा सद्यः प्रत्ययकारकाः ॥
आराधिता यथा सद्यो मानुषाणां वरप्रदाः ॥३॥
 ॥ जना ऊचुः ॥
एको देवः स्थितश्चात्र सद्यःप्रत्ययकारकः ॥
तथैका देवता चात्र श्रूयते जगती तले ॥४॥
 ॥ पुष्प उवाच ॥
कोऽसौ देवः कियद्दूरे कस्मिन्स्थाने व्यवस्थितः ॥
तथा च देवता ब्रूत दयां कृत्वा ममोपरि ॥५॥
 ॥ जना ऊचुः ॥
चमत्कारपुरे सूर्यो याज्ञवल्क्यप्रतिष्ठितः ॥
अस्ति विप्र श्रुतोऽस्माभिः सद्यः प्रत्ययकारकः ॥६॥
सूर्यवारेण सप्तम्यां फलहस्तः प्रदक्षिणाम् ॥
यः करोति नरस्तस्य ह्यष्टोत्तरशतं द्विज ॥७॥
तस्य सिद्धिप्रदः सम्यङ्मनसा वांछितं ददेत् ॥
तथान्या शारदा नाम देवी काश्मीरसंस्थिता ॥८॥
उपवासकृतेरेव सापि सिद्धिप्रदायिनी ॥
तच्छ्रुत्वा वचनं तेषां जनानां स द्विजोत्तमाः ॥९॥
समुद्दिश्य चमत्कारं तस्मात्स्थानात्ततः परम् ॥
चमत्कारपुरं प्राप्य सप्तम्यां सूर्यवासरे ॥१०॥
तत्रागत्य ततः स्नात्वा शुचिर्भूत्वा समाहितः ॥
गतः संति ष्ठते यत्र याज्ञवल्क्यकृतो रविः ॥११॥
ततः प्रदक्षिणाः कृत्वा अष्टोत्तरशतं मिताः ॥
नालिकेराणि चादाय श्रद्धया परयाः युतः ॥१२॥
ततः क्षुत्क्षामकंठः स परिश्रांतस्तदग्रतः ॥
उपविष्टो जपं कुर्वन्सूर्येष्टैः स्तवनैस्तदा ॥१३॥
मंडलब्राह्मणाद्यैश्च तारं स्वरमुपाश्रितः ॥
सप्तयुंजर वाद्यैश्च अग्निरेवेति भक्तितः ॥१४॥
आदित्यव्रतसंज्ञाद्यैः सामभिर्दृढभक्तिभाक् ॥
क्षुरिकामंत्रपूर्वैश्च तथैवाथर्वणोद्भवैः ॥१५॥
यावदन्योर्कवारस्तु नैव तुष्टो दिवाकरः ॥
पौर्णमासीदिने प्राप्ते वैराग्यं परमं गतः ॥१६॥
ततः पुष्पो विधायाथ स्नानं धौतांबरः शुचिः ॥
भूनाम्ना साध्य भूमिं च स्थंडिलार्थं द्विजोत्तमाः ॥१७॥
स्थंडिलं हस्तमात्रं च स्थंडिले प्रत्यकल्पयत् ॥
अग्निमीळेतिमंत्रेण ततोऽग्निं स निधाय च ॥१८॥
तृणैः परिस्तृणामीतिकृत्वोपस्तरणं ततः ॥
आब्रह्मन्निति मन्त्रेण दत्त्वा ब्रह्मासनं ततः ॥१९॥
सुत्रामाणमिति प्रोच्य समिधःस्थापनं च यत् ॥
प्रोक्षणीपात्रमासाद्य प्रोक्षणं कृतवांस्ततः ॥२०॥
पात्राणामथ सर्वेषां स्रुवादीनां यथाक्रमम् ॥
ततः प्रकल्पयामास हविःस्थाने निजां तनुम् ॥२१॥
न्यायं तु देवतास्थाने स आचार्यविधानतः ॥
ग्रहणं प्रोक्षणं चैव सूर्याय त्वेति चोत्तरम् ॥२२॥
अयं त इध्म आत्मेति जप्त्वाथ समिधं ततः ॥
अग्निसोमेति मन्त्राभ्यां हुत्वा चाज्याहुती ततः ॥२३॥
कृत्वा व्याहृतिहोमं तु भूर्भुवः स्वेति भो द्विजाः ॥
ये ते शतेति मन्त्राद्यैर्हुत्वात्रैव च दारुणम् ॥२४॥
आह्वयामास वह्निं च प्रत्यक्षो भव देव मे ॥
एवं मन्त्रेण कृत्वा तं संमुखं ज्वलनं ततः ॥२५॥
कालीकरालिकाद्याश्च सप्तजिह्वाश्च याः स्मृताः ॥
तासामाह्वानकं कृत्वा ततो दीप्ते हविर्भुजि ॥२६॥
जुहाव च स मांसानि स्वानि चोत्कृत्त्य शस्त्रतः ॥
लोमभ्यः स्वाहेति विदिशो दिग्भ्यो दत्त्वा ततः परम् ॥२७॥
अग्नये स्विष्टकृतइति यावदात्मानमाक्षिपेत् ॥
तावद्धृतः स सूर्येण स्वहस्तेन समंततः ॥२८॥
धृतश्च सादरं तेन मा विप्र कुरु साहसम् ॥
नेदृग्घोमः कृतः क्वापि कदाचित्केनचिद्द्विज ॥२९॥
तुष्टोऽहं च महाभाग ब्रूहि किं करवाणि ते ॥
अदेयमपि दास्यामि यत्ते मनसिवर्तते ॥३०॥
 ॥ पुष्प उवाच ॥
यदि तुष्टोसि देवेश यदि देयो वरो मम ॥
तद्देयं गुटिकायुग्मं यदर्थं प्रार्थयाम्यहम् ॥३१॥
वैदिशे नगरे चास्ति मणिभद्रो महाधनी ॥
कुब्जांगः क्षत्रियो देव जरावलिसमन्वितः ॥३२॥
अब्रह्मण्यो महानीचः कीनाशो जनदूषितः ॥
द्वयोरेकां यदा वक्त्रे सदा चैव करोम्यहम् ॥३३॥
तदा मे तादृशं रूपमविकल्पं भवत्विति ॥
यदा पुनर्गृहीत्वा तां द्वितीयां प्रक्षिपाम्यहम् ॥३४॥
ततश्च सहजं रूपं मम भूयात्सुरेश्वर ॥
वैदिशे नगरे चास्ति मणिभद्रः सुरेश्वर ॥३५॥
अपरं तस्य यत्किंचिद्धनधान्यादिकं गृहे ॥
तत्सर्वं विदितं मे स्यात्तथा देव प्रजायताम् ॥३६॥
किं वानेन बहूक्तेन तस्य मित्राणि बांधवाः ॥
व्यवहारास्तथा सर्वे प्रकटाः स्युः सदैव हि ॥३७॥
न कश्चिज्जायते तत्र विकल्पः कस्यचित्क्वचित् ॥
मम तस्याधम स्यापि सर्वकृत्येषु सर्वदा ॥३८॥
 ॥ भास्कर उवाच ॥
गृहाण त्वं महाभाग गुटिकाद्वितयं शुभम् ॥
शुक्लं कृष्णं च वक्त्रस्थं विभेद जननं महत् ॥३९॥
शुक्लया तस्य रूपं च तव नूनं भविष्यति ॥
कृष्णयापि पुनः स्वं च संप्राप्स्यसि महाद्विज ॥४०॥
 ॥ पुष्प उवाच ॥
अपरं वद मे देव संदेहं हृदये स्थितम् ॥
यत्त्वां पृच्छामि देवेश तव कीर्तिविवर्धनम् ॥४१॥
मया श्रुतं सुरश्रेष्ठ सप्तम्यां सूर्यवासरे ॥
यस्ते प्रदक्षिणानां च कुर्यादष्टोत्तरं शतम् ॥
तस्य त्वं तत्क्षणादेव फलहस्तस्य सिद्धिदः ॥४२॥
मूर्खस्यापि च पापस्य सर्वदोषान्वितस्य च ॥
चतुर्वेदस्य मे कस्मात्तीर्थयात्रापरस्य च ॥४३॥
सप्तरात्रे गते तुष्टो होम एवंविधे कृते ॥४४॥
 ॥ श्रीसूर्य उवाच ॥
तामसेन तु भावेन त्ववा सर्वमिदं कृतम् ॥
तेन सर्वं वृथा जातं त्वया सर्वं च यत्कृतम् ॥४९॥
यत्किंचित्क्रियते विप्र तामसं भावमाश्रितैः ॥
तत्सर्वं जायते व्यर्थं किं न वेत्ति भवा निदम् ॥४६॥
एवमुक्त्वा ततः सूर्यस्तस्य गात्राण्युपास्पृशत् ॥
खंडितानि स्वहस्तेन निर्व्रणानि कृतानि च ॥४७॥
अब्रवीच्च पुनः पुष्पं प्रसन्न वदनः स्थितः ॥
अनेनैव विधानेन यः करोति कुशंडिकाम् ॥४८॥
सोम्यभावं समाश्रित्य समिद्भिश्चार्कसंभवैः ॥
तिलाक्षतैर्विशेषेण होमं यस्तु समाचरेत् ॥४९॥
छन्दऋषिसमोपेतमेकं यावत्सहस्रकम् ॥
तस्य दास्याम्यहं हृत्स्थमधिकेभ्योऽधिकं फलम् ॥५॥
एवमुक्त्वा सहस्रांशुस्तत्रैवां तरधीयत ॥
दीपवल्लक्षितो नैव केन मार्गेण निर्गतः ॥५१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सूर्यसकाशात्पुष्पब्राह्मणस्य वरलब्धिवर्णनंनाम सप्तपञ्चाशदुत्तरशततमोऽध्यायः ॥१५७॥

N/A

References : N/A
Last Updated : December 31, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP