संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय १८९

नागरखण्डः - अध्याय १८९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
अथ यावच्च ताः शप्ता मातरो द्विजसत्तमाः ॥
सावित्र्या तास्तु गंधर्व्यः प्राप्ताः सा यत्र तिष्ठति ॥१॥
ततः प्रणम्य ता ऊचुः सर्वा दीनतरं वचः ॥
वयं समागता देवि सर्वास्तव मखे यतः ॥२॥
यज्ञभागं लभिष्याम औदुंबर्याः प्रसादतः ॥
न चास्माभिः परिज्ञाता सावित्री चात्र तिष्ठति ॥३॥
दौर्भाग्यदोषसंपन्ना नागरीभिः समावृता ॥
अस्माकं सुखमार्गोऽयं नृत्यगीतसमुद्भवः ॥४॥
तत्कुर्वाणास्ततो रात्रौ शप्ता गांधर्वसत्तमे ॥
स्त्रीणां दुःखेन दुःखार्ता जायंते सर्वयोषितः ॥५॥
यूयमानंदिताः सर्वाः सपत्न्या मम चोत्सवे ॥
तां प्रणम्य प्रपूज्याद्य नाहं संभाषितापि च ॥६॥
विशेषान्नृत्यगीतं च प्रारब्धं मम चाग्रतः ॥
तस्माद्व्योमगति र्नैव भवतीनां भविष्यति ॥७॥
अस्मिन्स्थाने सदा दीनास्तथाऽऽश्रयविवर्जिताः ॥
संतिष्ठध्वं न वः पूजां करिष्यंति च मानवाः ॥८॥
दीनानामसमर्थानां यात्राकृत्येषु सर्वदा ॥
तस्यास्तद्वचनं देवि नान्यथा संभविष्यति ॥९॥
औदुम्बर्याः पूजनाय गत्वा तस्यै निवेद्यताम् ॥
सा हि व्यपनयेद्दुःखं ध्रुवं सा हि प्रकामदा ॥१०॥
तेनाऽत्र सहसा प्राप्ता यावन्नष्टमनोरथाः ॥११॥
तस्मात्कुरुष्व कल्याणि यथास्माकं गतिर्भवेत् ॥
माहात्म्यं तव वर्द्धेत त्रैलोक्येऽपि चराचरे ॥१२॥
 ॥ औदुम्बर्युवाच ॥
का शक्तिर्विद्यतेऽस्माकं कृतं सावित्रिसंभवम् ॥
अन्यथा कर्तुमेवाद्य सर्वैरपि सुरासुरैः ॥१३॥
तथापि शक्तितो देव्यो यतिष्यामि हिताय वः ॥
अष्टषष्टिषु गोत्रेषु भवत्यः संनियोजिताः ॥१४॥
पितामहेन तुष्टेन तत्र पूजामवाप्स्यथ ॥
यूयं रात्रौ च संज्ञाभिर्हास्यपूर्वाभिरेव च ॥१५॥
अद्यप्रभृति यस्यात्र नागरस्य तु मंदिरे ॥
वृद्धिः संपत्स्यते काचिद्वि शेषान्मंडपोद्भवा ॥१६॥
तथा या योषितः काश्चित्पुरद्वारं समेत्य च ॥
अदृष्टहास्यमाध्याय क्षपिष्यंति बलिं ततः ॥१७॥
तेन वो भविता तृप्तिर्देवानां च यथा मखैः ॥
याः पुनर्न करिष्यंति पूजामेतां मयोदिताम् ॥१८॥
युष्माकं नगरे तासां सुपुत्रो नाशमाप्स्यति ॥
युष्माकमपमाने न सदा रोगी भविष्यति ॥१९॥
तस्मात्तिष्ठध्वमत्रैव रक्षार्थं नगरस्य च ॥
शापव्याजेन युष्माकं वरोऽयं समुपस्थितः ॥२०॥
एतस्मिन्नंतरे प्राप्तो देवशर्मा द्विजोत्तमाः ॥
गंधर्वः पर्वतो जातः स्वपत्न्या सहितस्तदा ॥२१॥
यदा चौदुम्बरी शप्ता नारदेन सुरर्षिणा ॥
मानुषी भव क्रुद्धेन तदा संप्रार्थितस्तया ॥२२॥
मदर्थं मानुषो भूत्वा तता त्वं चानया सह ॥
सृज मां मानुषीं चेव येन गच्छामि नो भुवि ॥२३॥
विण्मूत्रसंयुते गर्भे सर्वदोषसमन्विते ॥
ततः सा कृपया तस्याः सत्पत्न्या देवशर्मणः ॥२४॥
अवतीर्णा धरापृष्ठे वानप्रस्थाश्रमे ततः ॥
एवं सा पञ्चमी रात्रिस्तस्य यज्ञस्य सत्तमाः ॥२५॥
उत्सवेन मनोज्ञेन चौदुम्बर्या व्यतिक्रमात् ॥
प्रत्यूषे च ततो जाते यदा तेन विसर्जिता ॥२६॥
औदुम्बरी तदा प्राह पर्वतं जनकं निजम् ॥
कल्येऽत्रावभृथो भावी विधियज्ञसमुद्भवः ॥२७॥
सर्वतीर्थमयस्तस्मिन्स्नानं न स्यात्ततः परम् ॥
यास्यामः स्वगृहान्भूयः सर्वैर्देवैः समन्विताः ॥२८॥
अनेनैव विमानेन त्रयो वापि यथासुखम् ॥
ममापि च वरो जातो यः शापान्नारदोद्भवात् ॥
यज्ञभागो मया प्राप्तो देवानामपि दुर्लभः ॥
पौर्णमासीदिने प्राप्ते विशेषात्स्त्रीजनैः कृतः ॥३०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्य औदुंबर्युत्पत्तिपूर्वकतत्प्राग्जन्मवृत्तांतवर्णनंनामैकोननवत्युत्तरशततमोऽध्यायः ॥१८९॥

N/A

References : N/A
Last Updated : December 31, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP