नागरखण्डः - अध्याय ७४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
धृतराष्ट्रेण भूपेन शतपुत्रान्वितेन च ॥
लिंगानां स्थापितं तत्र शतमेकोत्तरं द्विजाः ॥१॥
तथा च पांडवैः सर्वैः स्थापितं लिंगपंचकम् ॥
द्रौपद्या चाऽथ कुन्त्याऽथ गांधार्याऽथ यदृच्छया ॥२॥
भानुमत्या च गौरीणां स्थापितं च चतुष्टयम् ॥
विदुरेणाथ शल्येन कलिं गेन युयुत्सुना ॥३॥
बाह्लीकेन सपुत्रेण कर्णेनाथ ससूनुना ॥
तथा शकुनिना तत्र द्रोणेन च कृपेण च ॥४॥
अश्वत्थाम्ना पृथक्त्वेन लिङ्गमेकैकमुत्तमम् ॥
स्थापितं परया भक्त्या वरप्रासादमाश्रितम् ॥५॥
तथा संस्थापितं तत्र विष्णुना प्रभविष्णुना ॥
लिंगं प्रासादमाधाय प्रोत्तुंगशिखरान्वितम् ॥६॥
सात्वतेनापि सांबेन बलभद्रेण धीमता ॥
प्रद्युमेनानिरुद्धेन तथान्यैर्मुख्ययादवैः ॥७॥
चारुदेष्णादिभिः पुत्रै रुक्मिण्या दशभिः सुतैः ॥
लिंगानां दशकं मुख्यं स्थापितं श्रद्धयान्वितैः ॥८॥
एवं संस्थाप्य लिङ्गानि ते सर्वे कुरुपांडवाः ॥
यादवाश्च सुसंहृष्टा कृतकृत्यास्तदा ॥ ऽभवन् ॥९॥
तत्र स्थित्वा चिरं कालं दत्त्वा दानान्यनेकशः ॥
धनाढ्यान्ब्राह्मणान्कृत्वा चमत्कारपुरोद्भवान् ॥१०॥
दत्त्वा तेभ्यो वरान्नागान्ह याञ्जात्याननेकशः ॥
सद्ग्रामाणि विचित्राणि क्षेत्राणि च सुधेनवः ॥११॥
महोक्षांश्च सुवस्त्राणि भूस्थानान्याश्रयांस्तथा ॥
दासीदासांस्तथा भृत्यान्दानानि विविधानि च ॥१२॥
तत आमन्त्र्य तान्सर्वान्प्रणिपत्य मुहुर्मुहुः ॥
स्वस्थानं प्रति संहृष्टाः प्रजग्मुः सर्व एव ते ॥१३॥
॥ सूत उवाच ॥
एतद्वः सर्वमाख्यातं स्थापितं तेन भूभुजा ॥
तथा तद्धृतराष्ट्रेण लिंगं पातकनाशनम् ॥१४॥
तथान्यैरपि भूपालैः प्राधान्येन व्यवस्थितैः ॥
पाण्डवैर्यादवैश्चैव पृथक्त्वेन व्यवस्थितैः ॥५॥
यस्तानि पुरुषः सम्यक्पूजयेद्भक्तिभावितः ॥
स लभेच्चाखिलान्कामान्वांछितान्स्वेन चेतसा ॥१६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कौरवपाण्डवयादवकृतलिंग प्रतिष्ठावृत्तांतवर्णनंनाम चतुःसप्ततितमोऽध्यायः ॥७४॥
N/A
References : N/A
Last Updated : December 26, 2024
TOP