संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २४८

नागरखण्डः - अध्याय २४८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ वाण्युवाच ॥
पलाशो हरिरूपेण सेव्यते हि पुराविदैः ॥
बहुभिर्ह्युपचारैस्तु ब्रह्मवृक्षस्य सेवनम् ॥१॥
सर्वकामप्रदं प्रोक्तं महापातकनाशनम् ॥
त्रीणि पत्राणि पालाशे मध्यमं विष्णुशापितम् ॥२॥
वामे ब्रह्मा दक्षिणे च हर एकः प्रकीर्तितः ॥
पलाशपात्रे यो भुंक्ते नित्यमेव नरोत्तमः ॥३॥
अश्वमेधसहस्रस्य फलं प्राप्नोत्यसंशयम् ॥
चातुर्मास्ये विशेषेण भोक्तुर्मोक्षप्रदं भवेत् ॥४॥
पयसा वाथ दुग्धेन रविवारेऽनिशं यदि ॥
चातुर्मास्येऽर्चितो यैस्तु ते यांति परमंपदम् ॥५॥
दृश्यते यदि पालाशः प्रातरुत्थाय मानवैः ॥
नरकानाशु निर्धूय गम्यते परमं पदम् ॥६॥
पालाशः सर्वदेवानामाधारो धर्मसाधनम् ॥
यत्र लोभस्तु तस्य स्यात्तत्र पूज्यो महातरुः ॥७॥
यथा सर्वेषु वर्णेषु विप्रो मुख्यतमो भवेत् ॥
मध्ये सर्वतरूणां च ब्रह्मवृक्षो महोत्तमः ॥८॥
यस्य मूले हरो नित्यं स्कंधे शूलधरःस्वयम् ॥
शाखासु भगवान्रुद्रः पुष्पेषु त्रिपुरांतकः ॥९॥
शिवः पत्रेषु वसति फले गणपतिस्तथा ॥
गंगापतिस्त्वचायां तु मज्जायां भगवा न्भवः ॥१०॥
ईश्वरस्तु प्रशाखासु सर्वोऽयं हरवल्लभः ॥
हरः कर्पूरधवलो यथावद्वर्णितः सदा ॥११॥
तथा ह्ययं ब्रह्मरूपः सितवर्णो महाभगः ॥
चिंतितो रिपुनाशाय पापसंशोषणाय च ॥१२॥
मनोरथप्रदानाय जायते नात्र संशयः ॥
गुरुवारे समायाते चातुर्मास्ये तथैव च ॥१३॥
पूजितश्च स्तुतो ध्यातः सर्वदुःखविनाशकः ॥१४॥
 देवस्तुत्यो देवबीजं परं यन्मूर्तं ब्रह्म ब्रह्मवृक्षत्वमाप्तम् ॥
नित्यं सेव्यः श्रद्धया स्थाणुरूपश्चातुर्मास्ये सेवितः पापहा स्यात् ॥१५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने पालाशमहिमवर्णनंनामाष्टचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४८॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP