नागरखण्डः - अध्याय १४०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ऋषय ऊचुः ॥
यदेतद्भवता प्रोक्तं पुत्रो मानुषविग्रहः ॥
भविष्यति यमस्यात्र कः संभूतः स सूतज ॥१॥
॥ सूत उवाच ॥
तस्य पुत्रः समुत्पन्नः पांडोः क्षेत्रे महीतले ॥
युधिष्ठिर इति ख्यातः सर्वक्षत्रियपुंगवः ॥२॥
राजसूयो मखो येन इष्टः सम्पूर्णदक्षिणः ॥
सर्वान्भूमिपतीन्वीर्यात्संविधाय करप्रदान् ॥३॥
अश्वमेधाः कृताः पंच तथा सम्पूर्णदक्षिणाः ॥
भ्रामयित्वा हयं भूमौ पश्चात्प्राप स सद्गतिम् ॥४॥
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ॥
यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥५॥
यदनेन वृतं मत्तः पुत्रित्वं सुमहात्मना ॥
हयमेधान्महायज्ञान्कर्ता स्यादस्य वै सुतः ॥६॥
मन्येत कृतकृत्यत्वं येन पुत्रेण धर्मपः ॥
अन्यैः पुत्रशतैः किं वा वंशानुद्धारकारकैः ॥७॥
॥ सूत उवाच ॥
एतद्वः सर्वमाख्यातं धर्मराजसुतोद्भवम् ॥
आख्यानं ब्राह्मणश्रेष्ठा धर्मवृद्धिकरं परम् ॥८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये धर्मराजपुत्राख्यानवर्णनंनाम चत्वारिंशदुत्तर शततमोऽध्यायः ॥१४०॥
N/A
References : N/A
Last Updated : December 29, 2024
TOP