नागरखण्डः - अध्याय १२८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
सत्यसन्धोपि हृष्टात्मा सतां दृष्ट्वा सुखान्विताम् ॥
अभीष्टपतिना युक्तां कृतकृत्यो बभूव ह ॥१॥
ततस्तस्यैव लिंगस्य दक्षिणां मूर्तिमाश्रितः ॥
दृढं पद्मासनं कृत्वा सम्यग्ध्यानपरायणः ॥२॥
आत्मानमात्मनैवाथ ब्रह्मद्वारेण संस्थितः ॥
ततो निःसारयामास पुलकेन समन्वितः ॥३॥
अथ ते ब्राह्मणास्तस्य चमत्कारपुरोद्भवाः ॥
देवता दर्शनार्थाय प्राप्ता दृष्ट्वा कलेवरम् ॥४॥
अप्रियं तेजसा हीनं मृतमस्पृश्यतां गतम् ॥
लिंगस्य नातिदूरस्थं दाह्यार्थं यत्नमास्थिताः ॥५॥
यावद्गुर्वीं चितां कृत्वा तमन्वेष्टुं समुद्यताः ॥
तावन्नष्टं शवं तच्च ज्ञायते नैव कुत्रचित् ॥६॥
ततश्च विस्मयाविष्टास्तं प्रशंसासमन्वितैः ॥
वचनैर्बहुशो भूयो विकथ्य च मुहुर्मुहुः ॥७॥
ततस्तस्योत्थलिंगस्य सर्वं पूजादिकं च यत् ॥
सर्वे निरूपयामासुः सप्तविंशतिमध्यतः ॥८॥
लिंगानां तद्भवेन्नित्यं सत्यसंधस्य भूपतेः ॥
कामदं भक्तजंतूनां सर्वपातकनाशनम् ॥९॥
॥ ऋषय ऊचुः ॥
चमत्कारनरेंद्रस्य वंशे क्षीणे महामते ॥
आनर्त्ताधिपतिः कोऽन्यस्तत्र राजा बभूव ह ॥१०॥
सूत उवाच ॥
बृहद्बले हते भूपे संग्रामे द्विजसत्तमाः ॥
पुत्रबंधुसमायुक्ताः सर्व लोकाः समाययुः ॥११॥
यत्रस्थः स महीपालः सत्यसंधस्तपोन्वितः ॥
शोकोद्विग्नास्ततः प्राहुस्तं भूपं रहसि स्थितम् ॥१२॥
क्षीणोऽयं तावको वंशो न कश्चिद्विद्यते यतः ॥
दायादोऽपि कथं पृथ्वी संप्रतीयं भविष्यति ॥१३॥
अराजके नृपश्रेष्ठ मात्स्यो न्यायः प्रवर्तते ॥
राष्ट्रे चैव पुरे चैव ग्रामे चैव विशेषतः ॥१४॥
परदाररता ये च ये च तस्करवृत्तयः ॥
सर्वे राजभयाद्राजन्मर्यादां पालयंति वै ॥१५॥
तस्मात्त्वं तप उत्सृज्य राज्यं पूर्वक्रमागतम् ॥
कुरु राज्यं तथा दारान्पुत्रार्थं प्राप्य मा चिरम् ॥१६॥
॥ राजोवाच ॥
संन्यस्तोऽहं द्विजश्रेष्ठा न राज्यं कर्तुमुत्सहे ॥
न सुतानां न दाराणां संग्रहं च कथंचन ॥१७॥
तत्पुत्रार्थं प्रवक्ष्यामि युष्माकं स्वामिनः कृते ॥
उपायं येन राजा स्यादानर्त्तो लोकपालकः ॥१८॥
जामदग्न्येन रामेण यदा क्षत्रं निपातितम् ॥
गर्भस्थमपि कार्त्स्न्येन कोपोपहतचेतसा ॥१९॥
ततः क्षत्रियभार्याः प्रागृतुस्नानात्समाययुः ॥
ब्राह्मणान्पुत्रजन्मार्थं न कामार्थं कथंचन ॥२०॥
ततः पुत्राः समुत्पन्नास्तेजोवीर्यसमन्विताः ॥
क्षेत्रजा भूमिपालानां संजाताश्च महीक्षितः ॥२१॥
तस्माद्बृहद्बलस्यैता भार्यास्तिष्ठंति या जनाः ॥
ब्राह्मणांस्ता उपागम्य ऋतुस्नाता यथोचितान् ॥२२॥
लभिष्यंति च पुत्रांस्तास्तेभ्यः क्षत्रियपुंगवान् ॥
ये भूमिं पालयिष्यंति पालयिष्यंति च प्रजाः ॥२३॥
तथाऽत्रास्ति शुभं कुण्डं वासिष्ठं पुत्रजन्मदम् ॥
यत्र स्नाता ऋतौ नारी सद्यो गर्भवती भवेत् ॥
अमोघरेताः कांता च स्नानादत्र प्रजायते ॥२४॥
ये पूर्वं क्षत्रिया जाता ब्राह्मणैः क्षत्रिणीषु च ॥
ते सर्वे तत्प्रभावेन संजाता नात्र संशयः ॥२५॥
ययायया द्विजो यश्च क्षत्रिण्याऽभूद्वृतः पुरा ॥
तया सह समागत्य स्नातं मन्त्रपुरस्कृतम् ॥२६॥
सकृन्मैधुनसंसर्गात्ततस्तीर्थप्रभावतः ॥
सर्वासां यत्सुता जाता दुहिता न कथंचन ॥२७॥
ये केचित्पुत्रदा मंत्राश्चातुश्चरणासंभवाः ॥
ते सर्वेऽत्र वसिष्ठेन प्रयुक्ताः क्षत्त्रमिच्छता ॥२८॥
दंपत्योः स्नानमात्रेण जातेऽत्र स्यात्सुपुत्रकः ॥
तस्मात्सुपुत्रदंनाम कुण्डमेतन्निगद्यते ॥२९॥
तस्माद्भार्याः समस्तास्ता बृहद्बलसमुद्भवाः ॥
अत्र स्नानं प्रकुर्वंतु यथोक्तविधिना जनाः ॥३०॥
नैव किंचिदसत्यं स्यान्न च निंदाकरं तथा ॥
श्रूयते च यतः श्लोकः पूर्वाचार्यैरुदाहृतः ॥३१॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्त्रमश्मनो लोहमुच्छ्रितम् ॥
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥३२॥
तच्छ्रुत्वा जनाः सर्वे सचिवानां वचोखिलम् ॥
तदाचख्युर्द्रुतं गत्वा सत्यसंधस्य भूपतेः ॥३३॥
ततस्ताः सर्वशो दारा ब्राह्मणानतिसुन्दरान् ॥
ऋतुस्नाताः समाजग्मुर्नृपपत्न्यः सुहर्षिताः ॥३४॥
यत्र तत्पुत्रदं तीर्थं वसिष्ठेन विनिर्मितम् ॥
तत्र स्नात्वा सकृत्संगं समासाद्य द्विजोद्भवम् ॥३५॥
सर्वास्ताः पुत्रवत्यश्च संजाता द्विजसत्तमाः ॥
आसीत्तस्य नरेंद्रस्य शतं पंचभिरन्वितम् ॥३६॥
तासां समभवद्विप्राः शतं पंचाधिकं तथा ॥३७॥
प्रत्येकं वरपुत्राणां वंशवृद्धिकरं परम् ॥
आनंदजननं सम्यक्सर्वेषां राष्ट्रवासिनाम् ॥३८॥
तत्र श्रेष्ठोऽभवत्पुत्रो य आनर्तपतिर्भुवि ॥
अटोनाम सुविख्यातः सर्वशत्रुनिबर्हणः ॥३९॥
अटेश्वरइति ख्यातो येन देवोऽत्र निर्मितः ॥
सुभक्त्या येन दृष्टेन वंशोच्छित्तिर्न जायते ॥४०॥
॥ ऋषय ऊचुः ॥
कस्मात्तस्य कृतं नाम एतच्चाऽट इति स्मृतम् ॥
अन्वयेन परित्यक्तं तस्मात्कीर्तय सूतज ॥४१॥
सचिवैर्ब्राह्मणैर्वापि तस्यैतन्नाम निर्मितम् ॥
मात्रा वा तत्समाचक्ष्व परं कौतूहलं हि नः ॥४२॥
॥ सूत उवाच ॥
न मात्रा तत्कृतं नाम न विप्रैः सचिवैर्नृप ॥
तत्कृतं देवदूतेन व्योमस्थेन द्विजोत्तमाः ॥४३॥
यथा तथा प्रवक्ष्यामि श्रोतव्यं सुसमाहितैः ॥
यया स भूपतिर्जातो दशार्णाधिपतेः सुता ॥४९॥
सा रूपयौवनोपेता रूपाढ्यं प्राप्य सद्द्विजम् ॥
प्रस्थिता स्नातुकामाथ पुत्रतीर्थे मृगेक्षणा ॥४५॥
सहिता तेन विप्रेण कंदर्पप्रतिमेन च ॥
अथ ताभ्यां महान्रामो मिथः संदर्शनात्स्थितः ॥४६॥
तादृङ्मात्रं सुकृच्छ्रेण प्राप्तं तीर्थं सुतप्रदम् ॥
ततः स्नात्वा जले तस्मिन्निष्क्रांतौ तौ सुकामुकौ ॥४७॥
व्रजमानौ च मार्गेऽपि कामधर्ममुपागतौ ॥
अत्यौत्सुक्यात्सुसंहृष्टौ लज्जां त्यक्त्वा सुदूरतः ॥४८॥
निंदमानस्य लोकस्य विच्छेदवचनैस्तदा ॥
वीर्योत्सर्गेऽथ संजाते यावदुत्तिष्ठते द्विजः ॥४९॥
तावदाकाशगा वाणी सहसा देवनिर्मिता ॥
अटताराजमार्गेण विप्रेणानेन वै यतः ॥५०॥
उत्पादितस्तु पुत्रोऽयमौत्सुक्याद्ब्राह्मणेन तु ॥
अटाख्यो भूपतिस्तस्माल्लोके ख्यातो भविष्यति ॥५१॥
दीर्घायुर्बहुपुत्रश्च शत्रुंपक्षक्षयावहः ॥
एतस्मात्कारणाद्विप्रा अटाख्यः स बभूव ह ॥५२॥
स्ववंशोद्धरचंद्रोऽत्र वांछितार्थप्रदोऽर्थिनाम् ॥
तेनैतत्क्षेत्रमासाद्य स्थापितं लिंगमुत्तमम् ॥
स्वनाम्ना ब्राह्मणश्रेष्ठाः सर्वदेष्टप्रदं नृणाम् ॥५३॥
यस्तन्माघचतुर्दश्यां पूजयेच्छ्रद्धयान्वितः ॥
न तस्य जायते किंचिद्दुःखं संतानसंभवम् ॥५४॥
अपि वर्षशतानारी स्नात्वा कुण्डे सुतप्रदे ॥
अटेश्वरं ततः पश्येच्छिवभक्तिपरायणा ॥५५॥
सद्यः पुत्रमवाप्नोति वंशवृद्धिकरं परम् ॥ तत्प्रसादान्न संदेहः कार्तिकेय वचो यथा ॥५६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽटेश्वरोत्पत्तिमाहात्म्यवर्णनंनामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥१२८॥
N/A
References : N/A
Last Updated : December 29, 2024
TOP