संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय १३३

नागरखण्डः - अध्याय १३३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
तथाऽन्यापि च तत्रास्ति देवता द्विजसत्तमाः ॥
अजागृहेति विख्याता सर्वरोगक्षयावहा ॥१॥
अजापालो यदा राजा सर्वलोकहिते रतः ॥
अजारूपाः प्रयांति स्म व्याधयः सकला द्विजाः ॥
तदा रात्रौ समानीय तस्मिन्स्थाने दधाति सः ॥२॥
ततस्तदाश्रयात्स्थानमजागृहमिति स्मृतम् ॥
सर्वैर्जनैर्धरा पृष्ठेदर्शनाद्व्याधिनाशनम् ॥३॥
तत्रैश्वर्यमभूत्पूर्वं यत्तद्ब्राह्मणसत्तमाः ॥
अहं वः कीर्तयिष्यामि श्रोतव्यं सुसमाहितैः ॥४॥
तत्रागतो द्विजः कश्चित्क्षेत्रे तापसरूपधृक् ॥
तीर्थयात्राप्रसंगेन रात्रौ प्राप्तः श्रमान्वितः ॥५॥
अजावृंदमथालोक्य निविष्टं सुसुखान्वितम् ॥
रोमंथ कर्मसंयुक्तं विश्वस्तमकुतोभयम् ॥६॥
स ज्ञात्वा मानुषेणात्र भवितव्यमसंशयम् ॥
न शून्याः पशवो रात्रौ स्थास्यंति विजने वने ॥७॥
ततः फूत्कृत्य फूकृत्य दिवं यावन्न संदधे ॥
कश्चिद्वाचं प्रसुप्तश्च तावत्तत्रैव चिंतयन् ॥८॥
अवश्यं मानुषेणात्र पशूनां रक्षणाय च ॥
आगंतव्यं कुतोऽप्याशु तस्मात्तिष्ठामि निर्भयः ॥९॥
एवं तस्य प्रसुप्तस्य गता सा रजनी ततः ॥
ततस्त्वरितवत्तस्य सुश्रांतस्य द्विजोत्तमाः ॥१०॥
अथ यावत्प्रभाते स प्रपश्यति निजां तनुम् ॥
तावत्कुष्ठादिभी रोगैः समंतात्परिवारिताम् ॥११॥
अशक्तश्चलितुं स्थानादपि चैकं पदं क्वचित् ॥
तेजो हीनोऽपि रौद्रेण चिन्तयामास वै ततः ॥१२॥
किमिदं कारणं येन ममैषा संस्थिता तनुः ॥
अकस्मादेव रोगोऽयं चलितुं नैव च क्षमः ॥१३॥
एवं चिन्तयमानस्य तस्य विप्रस्य तत्क्षणात् ॥
द्वादशार्कप्रतीकाशः पुरुषः समुपागतः ॥१४॥
तं यूथं कालयामास ततः संज्ञाभिराह्वयन् ॥
पृथक्त्वेन समादाय यष्टिं सव्येन पाणिना ॥१५॥
अथापश्यत्स तं विप्रं व्याधिभिः सर्वतो वृतम् ॥
अशक्तं चलितुं क्वापि ततः प्रोवाच सादरम् ॥१६॥
कस्त्वमेवंविधः प्राप्तः स्थाने चात्र द्विजोत्तम ॥
नास्ति राज्ये मम व्याधिः कस्यचित्कुत्रचित्स्फुटम् ॥१७॥
अजोनाम नरेन्द्रोऽहं यदि ते श्रोत्रमागतः ॥
व्याधींश्च च्छागरूपेण रक्षामि जनकारणात् ॥१८॥
तस्माद्ब्रूहि शरीरस्थो यस्ते व्याधिर्व्यवस्थितः ॥
येनाऽहं निग्रहं तस्य करोमि द्विजसत्तम  ॥१९॥
 ॥ ब्राह्मण उवाच ॥
तीर्थयात्रापरोऽहं च भ्रमामि क्षितिमंडले ॥
क्रमेणाऽत्र समायातः क्षेत्रेऽस्मिन्हाटकेश्वरे ॥२०॥
निशावक्त्रे नृपश्रेष्ठ वासः संचिंतितो मया ॥
दृष्ट्वाऽमूंश्च पशून्भूप मानुषं भाव्यमेव हि ॥२१॥
ततश्चात्र प्रसुप्तोऽहं पशूनामंतिके नृप ॥२२॥
अथ यावत्प्रभातेऽहं प्रपश्यामि निजां तनुम् ॥
तावत्कुष्ठादिरोगैश्च समंतात्परिवारिताम् ॥२३॥
नान्यत्किंचिन्नृपश्रेष्ठ कारणं वेद्मि तत्त्वतः ॥
किमेतेन नृपश्रेष्ठ भूयोभूयः प्रजल्पता ॥
बहुत्वात्कुरु तस्मान्मे यथा स्यान्नीरुजा तनुः ॥२४॥
ततस्ते व्याधयः प्रोक्ता अजापालेन भूभुजा ॥
केनाज्ञा खंडिता मेऽद्य को वध्यः सांप्रतं मम ॥२५॥
 ॥ व्याधय ऊचुः ॥
मा कोपं कुरु भूपाल कृत्येऽस्मिंस्त्वं कथंचन ॥
यस्मादेष द्विजो विष्टः सांप्रतं व्याधिभिस्त्रिभिः ॥२६॥
राजयक्ष्मा च कुष्ठं च पामा च द्विजसत्तम ॥
एते संसर्गजा दोषास्त्रयोऽद्यापि प्रकीर्तिताः ॥२७॥
एतेषां प्रथमौ यौ द्वौ निवृत्तिरहितौ स्मृतौ ॥
औषधैश्चैव मंत्रैश्च शेषा नाशं व्रजंति च ॥२८॥
आभ्यां च ब्रह्मशापोस्ति येन नास्ति निवर्तनम् ॥
तस्मादत्र नृपश्रेष्ठ कुरु यत्ते क्षमं भवेत् ॥२९॥
एतेन ब्राह्मणेनैते स्पृष्टा राजंस्त्रयोपि च ॥
तस्मात्तावत्तनुं चास्याविशतां तावसंशयम् ॥३०॥
अपरं शृणु भूपाल वचनं नो मुखाच्च्युतम् ॥
हिताय सर्वजंतूनां तव श्रेयोविवृद्धये ॥३॥
यत्र स्थानं चिरं तत्र मेदिन्यां विहितं नृप ॥
पुरीषं च समाविद्धा तेनैषा मेदिनी द्रुतम् ॥३२॥
कालांतरेपि ये मर्त्या भूम्यामस्यां समागताः ॥
भूमेः स्पर्शं करिष्यंति ते भविष्यंति चेदृशाः ॥३३॥
वयं शेषा महाराज व्याधयो ये व्यवस्थिताः ॥
त्वया मुक्त्वा भविष्यामो मन्त्रौषधवशानुगाः ॥३४॥
नैतौ पुनस्तु दुर्ग्राह्यौ ब्रह्मशाप समुद्भवौ ॥३५॥
तच्छ्रुत्वा पार्थिवः सोऽपि तस्मिन्स्थाने व्यवस्थितः ॥
तं ब्राह्मणं पुनः प्राह न भेतव्यं त्वया द्विज ॥३६॥
अहं त्वां रक्षयिष्यामि व्याधेरस्मात्सुदारुणात् ॥
अत्र तस्मात्प्रतीक्षस्व कञ्चित्कालं ममाज्ञया ॥३७॥
एवमुक्त्वा ततश्चक्रे तदर्थं सुमहत्तपः ॥
आराधयन्प्रभक्त्या च सम्यक्तां क्षेत्रदेवताम् ॥३८॥
मुंडेनाथर्वशीर्षेण दिवारात्रमतंद्रितः ॥
क्षेत्रपालोत्थसूक्तेन वास्तुसूक्तेन च द्विजाः ॥३९॥
सिद्धार्थै रक्तपुष्पैश्च गुग्गुलेन सुधूपितैः ॥
होमं कुर्वन्नृपः पश्चान्नीलरुद्रान्विशेषतः ॥४०॥
अथ नक्तावसानेन तस्य होमस्य चोत्थिता ॥
भित्त्वा धरातलं देवी मन्त्राकृष्टा विनिर्गता ॥४१॥
देवता तस्य क्षेत्रस्य ततः प्रोवाच तं नृपम् ॥४२॥
एकाहं तव भूपाल होमस्यास्य प्रभावतः ॥
विनिर्गता धरापृष्ठात्क्षेत्रस्यास्याधिपा स्मृता ॥४३॥
तस्माद्वद महाभाग यत्ते कृत्यं करोम्यहम् ॥
परां तुष्टिमनुप्राप्ता तस्माद्ब्रूहि यदीप्सितम् ॥४४॥
 ॥ राजोवाच ॥
अत्र स्थाने सदा स्थेयं त्वया देवि विशेषतः ॥
व्याधिसंसर्गजो दोषो भूमेरस्या यथा व्रजेत् ॥४५॥
अद्यप्रभृति देवेशि तथा नीतिर्विधीयताम् ॥
नो चेदस्याः प्रसंगेन प्रभविष्यंति मानवाः ॥४६॥
व्याधिग्रस्ता यथा विप्रो योऽयं संदृश्यते पुरः ॥
मयात्र व्याधयः कालं चिरं संस्थापिता यतः ॥
भविष्यति च मे दोषो नो चेद्देवि न संशयः ॥४७॥
तथायं ब्राह्मणो रोगात्त्वत्प्रसादात्सुरेश्वरि ॥
मुक्तो भवतु मेदिन्यामत्र स्थेयं सदा त्वया ॥४८॥
 ॥ क्षेत्रदेवतोवाच ॥
एतत्स्थानं मया सर्वं व्याधिदोषविवर्जितम् ॥
विहितं सर्वदैवात्र स्थास्येऽहमिह सर्वदा ॥४९॥
सांप्रतं योऽत्र मे स्थाने व्याधिग्रस्तः समेष्यति ॥
पूजयिष्यति मां भक्त्या नीरोगः स भविष्यति ॥५०॥
तस्मादद्य द्विजेंद्रोऽयं मां पूजयतु सादरम् ॥
भक्त्या परमया युक्तः शुचिर्भूत्वा समाहितः ॥५१॥
अत्र क्षेत्रे पराऽन्यास्ति विख्याता चंद्रकूपिका ॥
तस्यां स्नातु यथान्यायं नित्यमेव महीपते ॥५२॥
दक्षशापप्रशप्तेन या चंद्रेण पुरा कृता ॥
स्वस्नानार्थं क्षयव्याधिप्रग्रस्तेन महात्मना  ॥ ५३॥
तथा खण्डशिलानाम देवता चात्र तिष्ठति ॥
सौभाग्यकूपिकास्नानं कृत्वा तां च प्रपश्यतु ॥५४॥
या कृता कामदेवेन कुष्ठग्रस्तेन वै पुरा  ॥
स्नपनार्थं च कुष्ठस्य विनाशाय च सादरम् ॥५५॥
तथा चाप्सरसां कुण्डमत्रास्ति नृपसत्तम ॥
तत्र स्नात्वा रवेरह्नि ततः पामा प्रशाम्यति ॥९६॥
 ॥ सूत उवाच ॥
ततः स ब्राह्मणः प्राप्य सुपुण्यां चन्द्रकूपिकाम् ॥
स्नानं कृत्वा च तां देवीं पूजयामास भक्तितः ॥
यावन्मासं ततो मुक्तः सत्वरं राजयक्ष्मणा ॥५७॥
ततः सौभाग्यकूपीं तां दृष्ट्वा कामविनिर्मिताम् ॥
तथा स्नानं विधायाथ पश्यन्खंडशिलां च ताम् ॥५८॥
तद्वन्मासेन निर्मुक्तः कुष्ठेन द्विजसत्तमाः ॥
तस्या देव्याः प्रभावेन कूपिकायां विशेषतः  ॥५९॥
ततश्चाप्सरसां कुंडे स्नात्वैकं रविवासरम् ॥
पामया संपरित्यक्तो बुद्ध्येव विषयात्मकः ॥६०॥
ततः स ब्राह्मणो जातो द्वादशार्कसमप्रभः ॥
तोषेण महता युक्तो दत्ताशीस्तस्य भूपतेः ॥६१॥
प्रययौ वांछितं देशमनुज्ञातश्च भूभुजा ॥
देवतायां प्रणामं च ताभ्यां कृत्वा पुनःपुनः ॥६२॥
सोपि राजा सदोषांस्तानजारूपान्विलोक्य च ॥
स्वस्यैव ब्राह्मणं दृष्ट्वा तं तथा संप्रहर्षितः ॥६३॥
स्वयं च प्रययौ तत्र यत्रस्थो हाटकेश्वरः ॥
तेनैव च शरीरेण निजकांतासमन्वितः ॥६४॥
अजागृहे स्थिता यस्मात्सा देवी क्षेत्रदेवता ॥
अजागृहा ततः ख्याता सर्वत्रैव द्विजोत्तमाः ॥६५॥
अद्यापि यक्ष्मणा ग्रस्तो यस्तां पूजयते नरः ॥
तैनैव विधिना सम्यक्स नीरोगो द्रुतं भवेत् ॥६६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽजागृहोत्पत्तिमाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः ॥१३३॥

N/A

References : N/A
Last Updated : December 29, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP