संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २६५

नागरखण्डः - अध्याय २६५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


ऋषय ऊचुः ॥
प्रभूतानि त्वयोक्तानि व्रतानि नियमास्तथा ॥
प्रसुप्ते पुंडरीकाक्षे येषां संख्या न विद्यते ॥१॥
अशक्त्या हि शरीरस्य नियमानां कथं चरेत् ॥
व्रतं हि सुकुमारांगो दानैर्वापि वदस्व नः ॥२॥
सूत उवाच ॥
अशक्तो नियमं कर्तुं सुकुमारो भवेत्तु यः ॥
तेन तत्र प्रकर्तव्यं विख्यातं भीष्मपंचकम् ॥३॥
कार्त्तिकस्य सिते पक्ष एकादश्यां समाहितः ॥
प्रातरुत्थाय विप्रेंद्र कर्तव्यं दंतधावनम् ॥४॥
ततस्तु नियमं कुर्याद्वासुदेवपरायणः ॥
पूर्वोक्तानां च सर्वेषां नियमानां द्विजोत्तमाः ॥५॥
उपवासः प्रकर्तव्यस्तस्मिन्नहनि भक्तितः ॥
अशक्त्या वा शरीरस्य हेमं दद्यात्स्वशक्तितः ॥६॥
ब्राह्मणाय हविष्यान्नं दातव्यं वैष्णवैर्नरैः ॥
एवं पञ्चदिनं यावत्कर्तव्यं व्रतमुत्तमम् ॥७॥
पूजनीयो हृषीकेशो जलशायिस्वरूपधृक् ॥
गंधैर्धूपैश्च नैवेद्यै रात्रिजागरणैरपि ॥८॥
षष्ठेऽहनि ततो जाते पूजयेद्ब्राह्मणोत्तमान् ॥
तांश्च वस्त्रैर्हिरण्येन मिष्टान्नेन प्रभक्तितः ॥९॥
ततः कृतांजलिर्भूत्वा याचयेद्ब्राह्मणोत्तमान् ॥
सर्वे मे नियमाः प्राप्ता युष्माकं च प्रसादतः ॥१०॥
ततस्तैरपि वक्तव्यं चतुर्मासीसमुद्भवम् ॥
व्रतानां नियमानां च व्रतं भूयात्तवाखिलम् ॥११॥
ततो विसर्ज्य तान्विप्रान्भोजनं स्वयमाचरेत् ॥
सर्वाहारेण राजेंद्र पंचगव्यप्रपूर्वकम् ॥१२॥
यः करोति व्रतं तस्य फलं स्याद्बहुपुण्यदम् ॥
यः पुनर्व्रतमेतद्धि कुरुते दिनपंचकम् ॥
उपवासपरस्तस्य फलं शतगुणं भवेत् ॥१३॥
एकादश्यां हरेः पूजां जातिपुष्पैः समाचरेत् ॥
द्वादश्यां बिल्वपत्रेण शतपत्र्या ततः परम् ॥
त्रयोदश्यां चतुर्दश्यां सुरभ्या भक्तिपूर्वकम् ॥१४॥
भृंगराजेन पुण्येन पौर्णमास्यां प्रपूजयेत् ॥
प्रतिपद्दिवसे सर्वैः पूजनीयो जनार्दनः ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥१५॥
प्रतिपद्दिवसे सर्वान्प्राशयेत्कायशुद्धये ॥
अगरं गुग्गुलं चैव कर्पूरं तगरं त्वचा ॥१६॥
एकैकं निर्वपेद्धूपं प्रतिपद्दिवसेऽखिलम् ॥
जलशायी जगद्योनिः शेषपर्यंकमाश्रितः ॥१७॥
अर्घं गृह्णातु मे देवो भीष्मपंचकसिद्धये ॥
मंत्रेणानेन दातव्यो ह्यर्घो देवस्य भक्तितः ॥१८॥
शंखतोयं समादाय सपुष्पफलचंदनैः ॥
नैवेद्यं परमान्नं च स्वशक्त्या निर्वपेद्द्विजाः ॥१९॥
एतद्वः सर्वमाख्यातं व्रतं वै भीष्मपंचकम् ॥
संप्राप्यते फलं चैव व्रतानां नियमैः सह ॥२०॥
ऋषय ऊचुः ॥ यदेतद्भवता प्रोक्तमशून्यशायिनीव्रतम् ॥
इन्द्रेण यत्कृतं पूर्वं तुष्ट्यर्थं चक्रपाणिनः ॥
प्रसुप्तस्य महाभाग फलं चैव प्रकीर्तितम् ॥२१॥
कस्मिन्काले प्रकर्तव्यं केनैव विधिना तथा ॥
तस्मात्सूत महाभाग विधानं विस्तराद्वद ॥२२॥
सूत उवाच ॥
श्रावण्यां समतीतायां द्वितीयादिवसे स्थिते ॥
प्रातरुत्थाय विप्रेन्द्रा नक्षत्रे विष्णुदैवते ॥
पापिष्ठैः पतितैर्म्लेच्छैः संभाषं नैव कारयेत् ॥२३॥
ततो मध्याह्नसमये स्नात्वा धौतांबरः शुचिः ॥
जलशायिनमासाद्य मंत्रेणानेन पूजयेत् ॥२४॥
श्रीवत्सधारिञ्छ्रीकांत श्रीधामञ्छ्रीपतेऽव्यय ॥
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम् ॥२५॥
पितरो मा प्रणश्यंतु मा प्रणश्यंतु चाग्नयः ॥
देवता मा प्रणश्यंतु मत्तो दांपत्यभेदतः ॥२६॥
लक्ष्म्या वियुज्यसे कृष्ण न कदाचिद्यथा भवान् ॥
तथा कलत्रसम्बन्धो देव मा मे प्रणश्यतु ॥
लक्ष्म्या ह्यशून्यं शयनं यथा ते देव सर्वदा ॥
शय्या ममाप्यशून्यास्तु तथा जन्मनि जन्मनि ॥२८॥
एवमर्थं निवेद्याथ ततो विप्रं प्रपूजयेत् ॥
यथाशक्त्या द्विजश्रेष्ठा वित्तशाठ्यं विवर्जयेत् ॥२९॥
एवं भाद्रपदे मासि आश्विने कार्तिके तथा ॥
पूजयेच्च जगन्नाथं जलशायिनमच्युतम् ॥३०॥
अक्षारभोजनं कार्यं विशेषात्तैलवर्जितम् ॥
समाप्तौ च ततो दद्याद्ब्राह्मणेंद्राय भक्तितः ॥३१॥
फलव्रीहिसमोपेतां शय्यां वस्त्रसमन्विताम् ॥
सुवर्णं दक्षिणायां च तथैव च फलं लभेत् ॥३२॥
एवं यः कुरुते सम्यग्व्रतमेतत्समाहितः ॥
तस्य तुष्टिपथं याति जलशायी जगद्गुरुः ॥३३॥
यथा शक्रस्य संतुष्टः पूर्वमेव द्विजोत्तमाः ॥
अशून्यं शयनं तस्य भवेज्जन्मनि जन्मनि ॥३४॥
अष्टमासकृतं पापमज्ञानाज्ज्ञानतोऽपि वा ॥
अशून्यशयनात्सर्वं व्रतान्नाशं नयेत्पुमान् ॥३५॥
पुत्रहीना च या नारी काकवन्ध्या च या भवेत् ॥
विधवा या करोत्येतद्व्रतमेवं समाहिता ॥
तस्यास्तुष्टो जगन्नाथः कायशुद्धिं प्रयच्छति ॥३६॥
न तस्या जायते बुद्धिः कदाचित्पापसंभवा ॥
न कामोपहता बुद्धिः कथंचिदपि जायते ॥३७॥
कुमारिकापि या सम्यग्व्रतमेतत्समाचरेत् ॥
सा पतिं लभते विप्राः कुलीनं रूपसंयुतम् ॥३८॥
निष्कामः कुरुते यस्तु व्रतमेतत्समाहितः ॥
चातुर्मास्युद्भवानां च नियमानां फलं लभेत् ॥३९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्याने अशून्यशयनव्रतमाहात्म्यवर्णनं नाम पञ्चषष्ट्युत्तरद्विशततमोऽध्यायः ॥२६५॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP