संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २६०

नागरखण्डः - अध्याय २६०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ गालव उवाच ॥
इति ते कथितं सर्वं शालग्रामकथानकम् ॥
महेश्वरस्य चोत्पत्तिर्यथा लिंगत्वमाप सः ॥१॥
तस्माद्वरं लिंगरूपं शालग्रामगतं हरिम् ॥
येऽर्चयंति नरा भक्त्या न तेषां दुःखयातनाः ॥२॥
चातुर्मास्ये समायाते विशेषात्पूजयेच्च तौ ॥
अर्चितौ यावभेदेन स्वर्गमोक्षप्रदायकौ ॥३॥
देवौ हरिहरौ भक्त्या विप्रवह्निगवां गतौ ॥
येऽर्चयंति महाशूद्र तेषां मोक्षप्रदोहरिः ॥४॥
वेदोक्तं कारयेत्कर्म पूर्तेष्टं वेदतत्परः ॥
पंचायतनपूजा च सत्यवादो ह्यलोलता ॥५॥
विवेकादिगुणैर्युक्तः स शूद्रो याति सद्गतिम् ॥
ब्रह्मचर्यं तपो नान्यद्द्वादशाक्षरचिंतनात् १ ॥ ६॥
मन्त्रैर्विना षोडश सोपचारैः कार्या सुपूजा नरकादिहंतुः ॥
यथा तथा वै गिरिजापतेश्च कार्या महा शूद्र महाघहंत्री ॥७॥
 ॥ ब्रह्मोवाच ॥
एवं कथयतोरेषा रजनी क्षयमाययौ ॥
सच्छूद्रो गालवश्चैव शिष्यैश्च परिवारितः ॥८॥
स तेन पूजितो विप्रो ययौ शीघ्रं निजाश्रमम् ॥९॥
य इमं श्रुणुयान्मर्त्यो वाचयेत्पाठयेच्च वा ॥
श्लोकं वा सर्वमपि च तस्य पुण्यक्षयो न हि ॥१०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्य माहात्म्ये पैजवनोपाख्याने षष्ट्युत्तरद्विशततमोऽध्यायः ॥२६०॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP