संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय १३५

नागरखण्डः - अध्याय १३५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
तथान्यापि च तत्रास्ति दीर्घिकाख्या सुशोभना ॥
सरसी लोकविख्याता सर्वपातकनाशनी ॥१॥
यस्यां स्नातो नरः सम्यग्भास्करस्योदयं प्रति ॥
ज्येष्ठशुक्लचतुर्दश्यां मुच्यते सर्वपातकैः ॥२॥
आसीत्पूर्वं द्विजो वीरशर्मनामातिविश्रुतः ॥
वेदविद्याव्रतस्नातो वर्धमाने पुरोत्तमे ॥३॥
तस्य कन्या समुत्पन्ना कदाचिल्लक्षणाच्च्युता ॥
अतिदीर्घा प्रमाणेन जनहास्यविवर्द्धिनी ॥४॥
ततः सा यौवनं प्राप्ता तद्रूपापि कुमारिका ॥
न कश्चिद्वरयामास शास्त्रवाक्यमनुस्मरन् ॥५॥
अतिसंक्षिप्तकेशा या अतिदीर्घातिवामना ॥
उद्वाहयति यः कन्यां पुरुषः काममोहितः ॥६॥
षण्मासाभ्यंतरे मृत्युं स प्राप्नोति नरो ध्रुवम् ॥
एतस्मात्कारणात्सर्वे तां त्यजंति कुमारिकाम् ॥७॥
पुरुषा अतिदीर्घत्वयुक्तां वीक्ष्य समंततः ॥
ततो वैराग्यमापन्ना तपस्तेपेऽतिदारुणम् ॥८॥
चांद्रायणानि कृच्छ्राणि तया चीर्णान्यनेकशः ॥
पाराकाणि यथोक्तानि तथा सांतपनानि च ॥९॥
व्रतं यद्विद्यते किंचिन्नियमः संयमस्तथा ॥
अन्यच्चापि शुभं कृत्यं तत्सर्वं च तया कृतम् ॥१०॥
एवं तस्या व्रतस्थाया जरा सम्यगुपस्थिता ॥
तथापि तेजसो वृद्धिर्ववृधे तपसा कृता ॥११॥
सा च नित्यं महेन्द्रस्य सभां यात्यतिकौतुकात् ॥
देवर्षीणां मतं श्रोतुं देवतानां विशेषतः ॥१२॥
यदा सा स्वासनं त्यक्त्वा प्रयाति स्वगृहोन्मुखी ॥
तदैवाभ्युक्षणं चक्रुस्तत्र शक्रस्य किंकराः ॥१३॥
तथान्यदिवसे दृष्टं क्रियमाणं तया हि तत् ॥
अभ्युक्षणं स्वकीये च आसने द्विजसत्तमाः ॥१४॥
ततः कोपपरीतांगी दीर्घिका सा कुमारिका ॥
त्रिशाखां भृकुटीं कृत्वा ततः प्राह पुरंदरम् ॥१५॥
किं दोषं वीक्ष्य मे शक्र प्रोक्षितं चासनं त्वया ॥
परद्वा रकृतं दोषं किं मयैतत्कृतं क्वचित् ॥१६॥
तस्मान्मे पातकं ब्रूहि नो चेच्छापं सुदारुणम् ॥
त्वयि दास्याम्यसंदिग्धं सत्ये नात्मानमालभे ॥१७॥
 ॥ इन्द्र उवाच ॥
न ते दीर्घेऽस्तिदोषोत्र कश्चिदेकं विना शुभे ॥
तेनाथ क्रियते चैतदासनस्याभिषेचनम् ॥१८॥
त्वं कुमार्यपि संप्राप्ता ऋतुकालं विगर्हिता ॥
तेन दोषं त्वमापन्ना नान्यदस्तीह कारणम् ॥१९॥
तस्मादद्यापि त्वां कश्चिदुद्वाहयति तापसः ॥
त्वं तं वरय भर्त्तारं येन गच्छसि मेध्यताम् ॥२०॥
ततश्च लज्जया युक्ता सा तदा दीर्घकन्यका ॥
गत्वा भूमितले तूर्णं वर्धमाने पुरोत्तमे ॥२१॥
ततः फूत्कर्तुमारब्धा चत्वरेषु त्रिकेषु च ॥
उच्छ्रित्य दक्षिणं पाणिं भ्रममाणा इतस्ततः ॥२२॥
यदि कश्चिद्द्विजो जात्या करोति मम सांप्रतम् ॥
पाणिग्राहं तपोऽर्द्धस्य श्रेयो यच्छामि तस्य च ॥२३॥
एवं तां प्रविजल्पन्तीं श्रुत्वा लोका दिवानिशम् ॥
उन्मत्तामिति मन्वाना हास्यं चक्रुः परस्परम् ॥२४॥
ततः कतिपयाहस्य प्रकुर्वंती च दीर्घिका ॥
कुष्ठव्याधिगृहीतेन ब्राह्मणेन परिश्रुता ॥२५॥
ततः प्रोवाच मन्दं स समाहूय सुदुःखिताम् ॥२६॥
अहं त्वामुद्वहाम्यद्य कृत्वा पाणिग्रहं तव ॥
यदि मद्वचनं सर्वं सर्वदैवानुतिष्ठसि ॥२७॥
 ॥ कुमारिकोवाच ॥
करिष्यामि न संदेहस्तव वाक्यं द्विजाधिप ॥
कुरु पाणिग्रहं मेऽद्य विधिदृष्टेन कर्मणा ॥२८॥
 ॥ सूत उवाच ॥
ततस्तस्याः कुमार्याः स पाणिं जग्राह दक्षिणम् ॥
गृह्योक्तेन विधानेन देवाग्निगुरुसंनिधौ ॥२९॥
अथ सा प्राह भूयोऽपि विवाहकृतमंगला ॥
आदेशं देहि मे नाथ यं करोमि तवाधुना ॥३०॥
 ॥ पतिरुवाच ॥
अष्टषष्टिषु तीर्थेषु स्नातुमिच्छामि सुन्दरि ॥
साहाय्येन त्वदीयेन यदि शक्नोषि तत्कुरु ॥३१॥
बाढमित्येव सा प्रोच्य ततस्तूर्णं पतिव्रता ॥
तत्प्रमाणं दृढं कृत्वा रम्यं वंशकुटीरकम् ॥३२॥
मृदु तूलसमायुक्तं ततः प्राह निजं पतिम् ॥
कृतांजलिपुटा भूत्वा प्रहृष्टेनान्तरात्मना ॥३३॥
एतत्तव कृते रम्यं कृतं वंशकुटीरकम् ॥
मम नाथारुहाशु त्वं येन कृत्वाथ मूर्धनि ॥
नयामि सर्वतीर्थेषु क्षेत्रेषु सुशुभेषु च ॥३४॥
ततः कुष्ठी प्रहृष्टात्मा शनैरुत्थाय भूतलात् ॥
तया चोद्धृतदेहः सन्सुप्तो वंशकुटीरके ॥३५॥
ततस्तं मस्तके कृत्वा सर्वतीर्थे यथासुखम् ॥
सर्वक्षेत्रेषु बभ्राम स्नापयन्ती निजं पतिम् ॥३६॥
यथा यथा स चक्रेऽथ स्नानं तीर्थेषु कुष्ठभाक् ॥
तथातथास्य गात्रेषु तेजो वृद्धिं प्रगच्छति ॥३७॥
ततः क्रमेण सा साध्वी भ्रममाणा महीतले ॥
हाटकेश्वरजे क्षेत्रे संप्राप्ता रजनी मुखे ॥३८॥
क्लान्ता वैक्लव्यमापन्ना भाराक्रान्ता पतिव्रता ॥
निद्रान्धा निश्वसन्ती च प्रस्खलन्ती पदेपदे ॥३९॥
अथ तत्र प्रदेशे तु माण्डव्यो मुनिपुंगवः ॥
शूलारोपितगात्रस्तु संतिष्ठति सुदुःखितः ॥४०॥
अथ सा तं समासाद्य शूलं रात्रौ पतिव्रता ॥
निजगात्रेण भारार्त्ता गच्छमाना महासती ॥४१॥
तया संचालितः सोऽथ मांडव्यो मुनिपुंगवः ॥
परां पीडां समासाद्य ततः प्राह सुदुःखितः ॥४२॥
केनेदं पाप्मना शल्यं ममांतः परिचालितम् ॥
येनाहं दुःखयुक्तोऽपि भूयो दुःखास्पदीकृतः ॥४३॥
 ॥ दीर्घिकोवाच ॥
न मया त्वं महाभाग निद्रोपहतया दृशा ॥
दृष्टस्तेन परिस्पृष्टो ह्यस्पृश्यः पापकृत्तमः ॥४४॥
न त्वया सदृशश्चान्यः पापात्मास्ति धरातले ॥
शिरस्युद्भूतशूलोऽपि यो मृत्युं नाधिगच्छति ॥४५॥
अहं पतिव्रता मूढ वहामि शिरसा धृतम् ॥
तीर्थयात्राकृते कांतं विकलांगं सुवल्लभम् ॥४६॥
कस्मात्तस्यास्तिरस्कारं मम यच्छसि निष्ठुरम् ॥
अज्ञातां मूढबुद्धिः सन्विशेषान्मानुषोद्भवाम् ॥४७॥
 ॥ माण्डव्य उवाच ॥
अहं यादृक्त्वया प्रोक्तस्तादृगेव न संशयः ॥
पापात्मा मूढबुद्धिश्च अस्पृश्यः सर्वदेहिनाम् ॥४८॥
यदि प्रातस्तवायं च भर्त्ता जीवति निष्ठुरे ॥
येन मे जनिता पीडा प्राणांतकरणी दृढा ॥४९॥
तस्मादेष तवाभीष्टः स्पृष्टः सूर्यस्य रश्मिभिः ॥
मया शप्तः परित्यागं जीवितस्य करिष्यति ॥५०॥
 ॥ दीर्घिकोवाच ॥
यद्येवं मरणं पत्युः प्रभाते संभविष्यति ॥
मदीयस्य ततः प्रातर्नोद्गमिष्यति भास्करः ॥५१॥
एवमुक्त्वा ततः साथ निषसाद धरातले ॥
भूमौ तद्भर्तृसंयुक्तं मुक्त्वा वंशकुटीरकम् ॥५२॥
अथ तां प्राह कुष्ठी स पिपासा संप्रवर्तते ॥
तस्मात्तोयं समानेहि पानार्थमतिशीतलम् ॥५३॥
तथैव सा समाकर्ण्य भर्तुरादेशमुत्सुका ॥
इतस्ततश्च बभ्राम जलार्थं न प्रपश्यति ॥
न च निर्याति दूरं सा त्यक्त्वारण्ये तथाविधम् ॥५४॥
भर्तारं श्वापदोत्थं च भयं हृदि वितन्वती ॥
उपविश्य ततो भूमौ स्पृष्ट्वा पादौ पतेस्तदा ॥
प्रोवाच दीर्घिका वाक्यं तारवाक्येन दुःखिता ॥५५॥
पतिव्रता त्वमाचीर्णं यदि सम्यङ्मया स्फुटम् ॥
तेन सत्येन भूपृष्ठान्निर्गच्छतु जलं शुभम् ॥५६॥
एवमुक्त्वा जघानाथ पादाघातेन मेदिनीम् ॥
कान्तभक्तिं पुरस्कृत्य तस्य जीवितवांछया ॥५७॥
एतस्मिन्नन्तरे तोयं पादाघातादनन्ततरम् ॥
निष्क्रांतं निर्मलं स्वादु माण्डव्यस्य च पश्यतः ॥५८॥
ततस्तं स्नापयामास तस्मिंस्तोये श्रमातुरम् ॥
अपाययत्ततः पश्चात्स्वयं स्नात्वा पपौ जलम् ॥५९॥
एतस्मिन्नंतरे सूर्यः पतिव्रतकृताद्भयात् ॥
नाभ्युदेति समुत्पन्नस्ततः कालात्ययो महान् ॥६०॥
अथ रात्रिं समालोक्य दीर्घां ये कामुका जनाः ॥
ते सर्वे तुष्टिमापन्नास्तथा च कुल स्त्रियः ॥६१॥
कौशिका राक्षसाश्चापि चोरा जाराश्च ये नराः ॥
ते सर्वे प्रोचुः संहृष्टाः समालिंग्य परस्परम् ॥६२॥
अद्यास्माकं विधिस्तुष्टो भगवान्मन्मथस्तथा ॥
येन दीर्घा कृता रात्रिर्नाशं नीतश्च भास्करः ॥६३॥
ये पुनर्ब्राह्मणाः शांता यज्ञकर्मसमुद्यताः ॥
ते सर्वे दुःखमापन्नाः सूर्योदयविनाकृताः ॥६४॥
न कश्चिद्यजनं चक्रे याजनं न च सद्द्विजः ॥
न श्राद्धं न च संकल्पं न स्वाध्यायं कथंचन ॥६५॥
न स्नानं न च दानं च लोकयात्रां विशेषतः ॥
व्यवहारं न कृत्यं च किंचिद्धर्मसमुद्भवम् ॥६६॥
एतस्मिन्नन्तरे देवाः सर्वे शक्रपुरोगमाः  ॥
परं दौःस्थ्यं समापन्ना यज्ञभागविवर्जिताः ॥६७॥
ततो भास्करमासाद्य ऊचुर्दुःखसमन्विताः ॥
कस्मान्नोद्गमनं देव प्रकरोषि दिवाकर ॥६८॥
एतत्त्वया विना सर्वं जगद्व्याकुलतां गतम् ॥६९॥
तस्माल्लोकहितार्थाय त्वमुद्गच्छ यथापुरा ॥
अग्निष्टोमादिका यज्ञा वर्तंते येन भूतले ॥७०॥
 ॥ सूर्य उवाच  ॥
पतिव्रतासमादेशात्त्यक्तश्चाभ्युदयो मया ॥
तस्माद्गत्वा सुराः सर्वे तां वदंतु कृते मम ॥७१॥
येन तद्वाक्यमासाद्य प्रवर्त्तामि यथासुखम् ॥
अन्यथा मां शपेत्क्रुद्धा नूनं सा हि पतिव्रता ॥७२॥
एवं सा तपसा युक्ता प्रोत्कृष्टं हि सुरोत्तमाः ॥
पतिव्रतात्वमाधत्ते तथान्यदपरं महत् ॥७३॥
कस्तस्या वचनं शक्तः कर्तुमेवमतोऽन्यथा ॥
एतस्मात्कारणाद्भीतो नोद्गच्छामि कथंचन ॥७४॥
न तत्क्रतुसहस्रेण यजंतः प्राप्नुयुः फलम् ॥
पतिव्रतात्वमापन्ना यत्स्त्री विंदति केवलम् ॥७९॥
ततस्ते विबुधाः सर्वे गत्वा तत्क्षेत्रमुत्तमम् ॥
प्रोचुस्तां दीर्घिकां वाक्यैर्मृदुभिः पुरतः स्थिताः ॥७६॥
त्वया पतिव्रते सूर्यो यन्निषिद्धो न तत्कृतम् ॥
शुभं यतो हताः सर्वा भूतले शोभनाः क्रियाः ॥७७॥
तस्मादुद्गच्छतु प्राज्ञे त्वद्वाक्यात्तीक्ष्णदीधितिः ॥
यज्ञक्रिया विशेषेण येन वर्तंति भूतले ॥७८॥
 ॥ पतिव्रतोवाच ॥
अयं च मे पतिः सद्यः प्राणेभ्योऽपि च यः प्रियः ॥
सोऽभ्येति निधनं देवाः प्रोद्गते रविमंडले ॥७९॥
शप्तश्चानेन दुष्टेन मांडव्येन सुपाप्मना ॥
कार्यं विनापि निर्दिष्टस्तद्ब्रूयां भास्करं कथम् ॥८०॥
उदयार्थं न मे यज्ञैः कार्यं किंचिन्न चापरैः ॥
श्राद्धदानादिकैः कृत्यैः संजातैर्दर्यितं विना ॥८१॥
 ॥ सूत उवाच ॥
ततस्ते विबुधाः सर्वे समालोक्य परस्परम् ॥
चिरकालं सुदुःखार्तास्तामूचुर्विनयान्विताः ॥८२॥
उद्गच्छतु रविर्भद्रे तवायं दयितः पतिः ॥
प्रयातु निधनं सद्यो भूयादेष मुनीश्वरः ॥८३॥
पुनर्जीवापयिष्यामो वयमेनमपि द्रुतम् ॥
मृत्युमार्गमनुप्राप्तं त्वत्कृते पतिवत्सले ॥८४॥
पञ्चविंशतिवर्षीयं कामदेवमिवापरम् ॥
त्वं द्रक्ष्यसि सुदीप्तांगं सर्वलक्षणलक्षितम् ॥८५॥
भूत्वा पंचदशाब्दीया पद्मपत्रायतेक्षणा ॥
मर्त्यलोके सुखं सम्यक्त्वेच्छया साधयिष्यसि ॥८६॥
एषोऽपि मुनिशार्दूलो विपाप्मा सांप्रतं शुभे ॥
शूलवेधेन निर्मुक्तः सुखभागी भवत्क्लम ॥८७॥
 ॥ सूत उवाच ॥
बाढमित्येव च प्रोक्ते तया स द्विजसत्तमाः ॥
उद्गतो भगवान्सूर्यस्तत्क्षणादेव वेगतः ॥८८॥
ततः सूर्यांशुसंस्पृष्टः स मृतश्च सुकुष्ठभाक् ॥
विबुधानां करैः स्पृष्टः पुनरेव समुत्थितः ॥८९॥
पंचविंशतिवर्षीयः कामदेव इवापरः ॥
संस्मरन्पूर्विकां जातिं सर्वा हर्ष समन्वितः ॥९०॥
दीर्घिकापि परिस्पृष्टा स्वयं देवेन शंभुना  ॥
संजाता यौवनोपेता दिव्यलक्षणलक्षिता ॥९१॥
पद्मपत्रेक्षणा रम्या चन्द्रबिम्बसमानना ॥
मध्ये क्षामा सुगौरांगी पीनोन्नतपयोधरा ॥९२॥
ततस्तं मुनिशार्दूलं शूलाग्रादवतार्य च ॥
प्रोचुश्च विबुधश्रेष्ठाः सादरं हर्षसंयुताः ॥९३॥
एतत्सत्यं कृतं वाक्यं मुने तव यथोदितम् ॥
मृतोऽपि ब्राह्मणः कुष्ठी संस्पृष्टो रविरश्मिभिः ॥९४॥
पुनरुत्थापितोऽस्माभिः कृतश्च तरुणः पुनः ॥
अनया भार्यया सार्धं तस्मात्त्वं स्वाश्रमं व्रज ॥९५॥
नास्माकं दर्शनं व्यर्थं कथंचिदपि जायते ॥
तस्मात्प्रार्थय यच्चित्ते तव नित्यं समाश्रितम् ॥९६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पतिव्रतावरलाभोनाम पञ्चत्रिंशदुत्तरशतत मोऽध्यायः ॥१३५॥  

N/A

References : N/A
Last Updated : December 29, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP