संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय १०४

नागरखण्डः - अध्याय १०४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ ऋषय ऊचुः ॥
राक्षसैस्तत्र लिंगानि यानि भक्त्या समन्वितैः ॥
स्थापितानि च माहात्म्यं तेषां सूत प्रकीर्तय ॥१॥
 ॥ सूत उवाच ॥
तेषां पूजाकृते रौद्रा राक्षसा बलवत्तराः ॥
लंकापुर्याः समायांति सदैव शतशः पुरा ॥२॥
आगच्छन्तो व्रजन्तस्ते मार्गे क्षेत्रे च तत्र च ॥
भक्षयन्ति जनौघांश्च बालवृद्धाञ्जनानपि ॥३॥
ततस्ते मानवाः सर्वे प्रद्रवंतः समंततः ॥
इतश्चेतश्च धावन्ति प्राणरक्षणतत्पराः ॥४॥
तथान्ये बहवो गत्वा ह्ययोध्याख्यां महापुरीम् ॥
रामपुत्रं नृपश्रेष्ठं कुशं प्रोचुः सुदुःखिताः ॥५॥
तव पित्रा समं प्राप्ताः पूर्वं ये राक्षसा नृप ॥
हाटकेश्वरजे क्षेत्रे विभीषणपुरःसराः ॥६॥
संस्थापितानि लिंगानि चतुर्वक्त्राणि तत्र वै ॥
राक्षसेंद्रैः स्वमन्त्रैस्तैस्तस्य क्षेत्रस्य पश्चिमे ॥७॥
तेनैव चानुषंगेण समागच्छंति नित्यशः ॥
तस्मिन्क्षेत्रे प्रकुर्वंति तथा लोकस्य भक्षणम् ॥८॥
यदि वा तानि लिंगानि कश्चित्संपूजयेन्नरः ॥
सद्यो विनाशमायाति सोऽप्यनर्थो महानभूत् ॥९॥
तस्माद्यदि न रक्षा नः करिष्यसि महीपते ॥
तच्छनैर्यास्यते लोकः सर्वोऽयं संक्षयं ध्रुवम् ॥१०॥
तच्च क्षेत्रं विशेषेण यत्रागच्छंति ते सदा ॥
राक्षसाः क्रूरकर्माणो महामांसस्य लोलुपाः ॥११॥
तच्छ्रुत्वा स नृपस्तूर्णं स्वामात्यानां न्यवेदयत् ॥
राज्यभारं ततस्तत्र बलेन सहितो ययौ ॥१२॥
अथ प्राप्तं कुशं दृष्ट्वा हतशेषा द्विजोत्तमाः ॥
प्रोचुस्तं भर्त्सयित्वा तु वचनैः परुषाक्षरैः ॥१३॥
किमेवं क्रियते राज्यं यथा त्वं क्षत्रियाधमः ॥
करोषि यत्र विध्वंसं राक्षसै र्नीयते जनः ॥१४॥
नूनं जातो न रामेण भवान्रावणसंभवः ॥
येनोपेक्षसि सर्वान्नो राक्षसैः परिपीडितान् ॥१५॥
सत्यमेतत्पुरा प्रोक्तं नीतिशास्त्रविचक्षणैः ॥
यस्य वर्णस्य यो राजा स वर्णः सुखमेधते ॥१६॥
तस्मात्त्वं राक्षसोद्भूतो राक्षसैर्द्विजसत्तमान् ॥
उपेक्षसे ततः सर्वान्भक्ष्यमाणांस्तथापरान् ॥१७॥
आर्तानां यत्र लोकानां दोषैः पार्थिवसंभवैः ॥
पतंत्यश्रूणि भूपृष्ठे तत्र राजा स दोषभाक् ॥१८॥
 ॥ कुश उवाच ॥
प्रसादः क्रियतां विप्रा न मया ज्ञातमीदृशम् ॥
राक्षसेभ्यः समुत्पन्नो ब्राह्मणानां पराभवः ॥१९॥
अद्यप्रभृति यः कश्चिद्विनाशं नीयते क्वचित् ॥
ब्राह्मणो वाऽथवाऽन्योऽपि तद्भवेन्मम पातकम् ॥२०॥
एवमुक्त्वा ततस्तूर्णं प्रेषयामास राघवः ॥
विभीषणाय संक्रुद्धो दूतं भयविवर्जितम् ॥२१॥
गच्छ दूत द्रुतं गत्वा त्वया वाच्यो विभीषणः ॥
रामोचितस्त्वया स्नेहो मया सह कृतो महान् ॥२२॥
यद्राक्षसगणैः सार्धं मम भूमिं समंततः ॥
त्वं क्लेशयसि दुर्बुद्धे मां विश्वास्य सुभाषितैः ॥२३॥
मम पित्रा कृतेयं ते प्रतिष्ठा राक्षसाधम ॥
तेन नो हन्मि ते भ्राता यथा तातेन शातितः ॥२४॥
विषवृक्षोऽपि यो वृद्धिं स्वयमेव प्रणीयते ॥
कथं संछिद्यते सोऽत्र स्वयमेव मनीषिभिः ॥२५॥
तस्मादद्य दिनादूर्ध्वं यदि कश्चिन्निशाचरः ॥
समुद्रस्योत्तरं पारं कथंचिदागमिष्यति ॥२६॥
तदहं सत्वरं प्राप्य लंकां तव पुरीमिमाम् ॥
ससैन्यो ध्वंसयिष्यामि तथा सर्वान्निशाचरान् ॥२७॥
त्वां च बद्ध्वा दृढैः पाशैर्निगडैश्च सुसंयतम् ॥
कारासंस्थं करिष्यामि सद्य एव न संशयः ॥२८॥
एवमुक्तस्ततो दूतो गत्वा सेतुं द्रुतं ततः ॥
दृष्ट्वा रामेश्वरं देवं यावदग्रे व्यव स्थितः ॥२९॥
तावत्पृष्टो जनैः कैश्चित्कस्त्वं वत्स इहागतः ॥
केन कार्येण नो ब्रूहि नात्र गच्छंति मानवाः ॥३०॥
 ॥ दूत उवाच ॥
अहं कुशेन भूपेन विभीषणगृहं प्रति ॥
प्रेषितः कार्यमुद्दिश्य तत्र यास्याम्यहं कथम् ॥३१॥
 ॥ जना ऊचुः ॥
नातः परं नरः कश्चिद्गन्तुं शक्तः कथंचन ॥
भग्नः सेतुर्यतो मध्ये रामेणाक्लिष्टकर्मणा ॥३२॥
तस्मादत्रैव ते कार्यं सिद्धिं दूत प्रयास्यति ॥
विभीषणकृतं सर्वं दर्शनात्तस्य रक्षसः ॥३३॥
सर्वदा राक्षसेन्द्रोऽसौ शुभं रामेश्वरत्रयम् ॥
त्रिकालं पूजयत्येव नियमं समुपाश्रितः ॥३४॥
लंकाद्वारे स्थितो यो वै सेतुखण्डे महेश्वरः ॥
प्रभाते कुरुते तस्य स्वयं पूजां विभीषणः ॥३५॥
जलमध्यगतं यच्च सेतुखंडं द्वितीयकम् ॥
तत्र रामेश्वरो यश्च मध्याह्ने तं प्रपूजयेत् ॥३६॥
एनं देव निशीथे च सर्वदागत्य भक्तितः ॥
संपूजयेन्न सन्देहः सत्यमेतत्प्रकीर्तितम् ॥३७॥
तस्मात्तिष्ठ त्वमव्यग्रः स्थानेऽत्रैव समाहितः ॥
यावदागमनं तस्य राक्षसस्य महात्मनः ॥३८॥
तेनैव सहितः पश्चात्स्वेच्छया तस्य मन्दिरम् ॥
प्रयास्यसि गृहं वापि स्वकीयं तद्विसर्जितः ॥३९॥
अथ तेषां तदाकर्ण्य स दूतो हर्षसंयुतः ॥
बाढमित्येव चोक्त्वाथ तत्र चैव व्यवस्थितः ॥४०॥
अथ प्राप्ते निशार्धे स राक्षसैः परिवारितः ॥
विभीषणः समायातस्तस्मिन्नायतने शुभे ॥४१॥
विमानवरमारूढः स्तूयमानः समन्ततः ॥
राक्षसैर्बंदिरूपैस्तैर्गीयमानस्तथा परैः ॥४२॥
उत्तीर्य च विमानाग्र्यात्कृत्वाऽथ त्रिः प्रदक्षिणाम् ॥
रामेश्वरं प्रणम्योच्चैः स्तोत्रमेतच्चकार सः ॥४३॥
नमस्ते देवदेवेश भक्तानामभयप्रद ॥
सर्वतः पाणिपादं ते सर्वतोक्षिशिरोमुखम् ॥४४॥
त्वं यज्ञस्त्वं वषट्कारस्त्वं चंद्रस्त्वं प्रभाकरः ॥
त्वं विष्णुस्त्वं चतुर्वक्त्रः शक्रस्त्वं परमेश्वरः ॥४५॥
यथा तिलगतं तैलं गूढं तिष्ठति सर्वदा ॥
तथा त्वं सर्व लोकेषु गूढस्तिष्ठसि शंकर ॥४६॥
यथा काष्ठगतो वह्निः संस्थितोऽपि न लक्ष्यते ॥
मूढैः सर्वत्रसंस्थोपि तथा त्वं नैव लक्ष्यसे ॥४७॥
यथा दधिगतं सर्पिर्निगूढत्वेन संस्थितम् ॥
चराचरेषु भूतेषु तथा त्वं देव संस्थितः ॥४८॥
यथा जलं धरापृष्ठात्खनन्नाप्नोति मानवः ॥
तथा त्वां पूजयन्नित्यं मोक्षमाप्नोत्यसंशयम् ॥४९॥
तावच्च दुर्लभः स्वर्गस्तावच्छूराश्च शत्रवः ॥
यावदेव न सन्तोषं त्वं करोषि शरीरिणाम् ॥५०॥
तावल्लक्ष्मीश्चला नॄणां तावद्रोगाः पृथग्विधाः ॥
न यावद्देवदेव त्वं सन्तोषं संप्रयास्यसि ॥५१॥
तावत्पुत्रोद्भवं दुःखं तथा प्रियसमु द्भवम् ॥
यावत्त्वं देव नायासि सन्तोषं देहिनामिह ॥५२॥
एवं स्तुत्वा ततो लिंगं स्नापयित्वा यथाविधि ॥
गन्धानुलेपनैदिव्यैर्मर्दयामास वै ततः ॥५३॥
पारिजातकपुष्पैश्च तथा सन्तानसम्भवैः ॥
कल्पपादपसंभूतैस्तथा मन्दारजैरपि ॥५४॥
पूजां चक्रे सुविस्तीर्णा श्रद्धया परया युतः ॥
दिव्यैराभरणैर्भूष्य दिव्यवस्त्रैस्ततः परम् ॥५५॥
स च गीतं स्वयं चक्रे तालमादाय पाणिना ॥
मूर्छातालकृतं रम्यं सप्तस्वरविराजितम् ॥५६॥
तानयुक्त्या समोपेतं ग्रामै रागैः स्वलंकृतम् ॥
एवं कृत्वा स शुश्रूषा तस्य देवस्य भक्तितः ॥५७॥
यावत्संप्रस्थितो भूयो लंकां प्रति विभीषणः ॥
तावद्दूतोऽग्रतः स्थित्वा कुशवाक्यमुवाच ह ॥५८॥
विशेषतस्तु तेनोक्तं यत्तस्य पुरतः पुरा ॥
अतिकोपाभिभूतेन प्ररक्तनयनेन च ॥५९॥
तच्छ्रुत्वाथ प्रणम्योच्चैर्दूतं प्राह विभीषणः ॥
कृतांजलिपुटो भूत्वा विनयावनतः स्थितः ६०॥
यद्येवं विहितं राज्ये रामपुत्रस्य राक्षसैः ॥
तन्नूनं तन्मया सर्वं विहितं दूतसत्तम ॥६१॥
तस्मान्महाप्रसादो मे कृतस्तेन महात्मना ॥
कुशेन प्रेषितो यस्त्वं मम मूर्खस्य संनिधौ ॥६२॥
एवमुक्त्वा स तान्सर्वाञ्छोधयामास राक्षसान् ॥
ये गत्वा भूतले मर्त्यान्ध्वंसयंति सदैव हि ॥६३॥
ततस्तत्रैव चानीय तस्य दूतस्य संनिधौ ॥
प्रत्येकं तानुवाचेदं कोपादश्रूणि चोत्सृजन् ॥६४॥
यैः कृतो जनविध्वंसो राक्षसैः सुदुरात्मभिः ॥
राज्ये कुशस्य संप्राप्तैः प्रभोर्मम महात्मनः ॥६५॥
ते सर्वे व्यंतरा रौद्राः प्रभवंतु सुदुःखिताः ॥
लंकाद्वारगता नित्यं क्षुत्पिपासानिपीडिताः ॥६६॥
सर्वभोगपरित्यक्ताः शीतातपसहि ष्णवः ॥
श्लेष्ममूत्रकृताहारा निन्द्याः सर्वजनस्य च ॥६७॥
एवं दत्त्वाथ तेषां स शापं राक्षससत्तमः ॥
ततः प्राह च तं दूतं पुनरेव कृतां जलिः ॥६८॥
अद्यप्रभृति नो कश्चिद्राक्षसः संप्रयास्यति ॥
तस्माद्वाच्यो रघुश्रेष्ठो मद्वाक्यात्स कुशस्त्वया ॥
क्षम्यतामपराधो मे यदज्ञाना दयंकृतः ॥६९॥
राक्षसैर्दुष्टजातीयैर्महामांसस्यलोलुपैः ॥
कृतश्च निग्रहस्तेषां प्रत्यक्षं तव दूत यः ॥७०॥
यदन्यदपि कृत्यं स्याद्दैवं वा मानुषं च वा ॥
मम भृत्यस्य तत्सर्वं कथनीयमशंकितम् ॥७१॥
 ॥ दूत उवाच ॥
यानि तत्र च लिंगानि राक्षसैर्निर्मितानि च ॥
तानि गत्वा स्वयं शीघ्रं त्वमुत्पाटय राक्षस ॥७२॥
एतदेव परं कृत्यं सर्वलोकसुखावहम् ॥
स्थापितानि च यान्येव मंत्रै राक्षससंभवैः ॥७३॥
संपूजितानि रक्षोभिश्चतुर्वक्त्राणि राक्षस ॥
अजानन्मानवः कश्चिद्यदि पूजां समाचरेत् ॥७४॥
तत्क्षणान्नाशमायाति एतद्दृष्टं मया स्वयम् ॥
एतस्मात्कारणाद्वच्मि त्वामहं राक्षसाधिप ॥
तैः स्थितैर्भूतले लिंगैः स्थिताः सर्वे निशाचराः ॥७५॥
 ॥ विभीषण उवाच ॥
मया पूर्वं प्रतिज्ञातं रामस्य पुरतः किल ॥
रामेश्वरमतिक्रम्य न गतव्यं धरातले ॥७६॥
अन्यच्च कारणं दूत प्रोक्तमत्र मनीषिभिः ॥
दुःस्थितं सुस्थितं वापि शिवलिंगं न चालयेत् ॥७७॥
तत्कथं तत्र गत्वाऽथ लिंगभेदं करोम्यहम् ॥
स्वयं माहेश्वरो भूत्वा प्रतिज्ञाय च वै स्वयम् ॥७८॥
तस्मात्प्रसादनीयस्ते मद्वाक्यात्स नराधिपः ॥
यद्युक्तं मया प्रोक्तं तत्त्वं कुरु विनिग्रहम् ॥७९॥
एवमुक्त्वाथ तं दूतं रत्नैः सागरसंभवैः ॥
प्रभूतैर्भूषयित्वाऽथ विससर्ज नृपं प्रति ॥८०॥
अथ ते राक्षसास्तेन शप्ताः प्रोचुः सुदुःखिताः ॥
कुरु शापस्य मोक्षं नः सर्वेषां राक्षसेश्वर ॥८१॥
 ॥ विभीषण उवाच ॥
नाहं करोमि भूयोऽपि युष्माकं राक्षसाधमाः ॥
अनुग्रहं प्रशप्तानां वंचकानां विशेषतः ॥८२॥
तस्मात्सोऽपि रघुश्रेष्ठः प्रसादं वः करिष्यति ॥
मम वाक्याद संदिग्धं कालः कश्चित्प्रतीक्ष्यताम् ॥८३॥
एवमुक्त्वाऽथ रक्षेन्द्रः प्रेषयामास सत्वरम् ॥
दूतं कुशमहीपस्य मानुषं देवपूजकम् ॥८४॥
गत्वा ब्रूहि कुशं भूपं सत्वरं वचनान्मम ॥
एतेषां मत्प्रशप्तानां राक्षसानां दुरात्मनाम् ॥
अनुग्रहं कुरु विभो दीनानां भोजनाय वै ॥८५॥
एवमुक्तस्ततस्तेन इतो दूतेन संयुतः ॥
कुशस्तेन विनिर्यातः सत्वरं द्विजसत्तमाः ॥८६॥
ततो गत्वा द्रुतं दूतः कुशं प्रोवाच सादरम् ॥
प्रणिपत्य यथा न्यायं विनयावनतः स्थितः ॥८७॥
विभीषणो मया दृष्टो देवे रामेश्वरे विभो ॥
पूजार्थं तत्र चायातो राक्षसैर्बहुभिर्वृतः ॥८८॥
प्रोक्तो मया भवद्वाक्यमशेषं रघुनन्दन ॥
श्रुतं तेनापि तत्सर्वं विनयावनतेन च ॥८९॥
अजानतः प्रभो तस्य राक्षसैः सुदुरात्मभिः ॥
प्रजैवं पीडिता भूमौ महामांसस्य लोलुपैः ॥९०॥
तच्छ्रुत्वा मन्मुखात्तेन सर्वेषां निग्रहः कृतः ॥
यैः कृतं कदनं भूमौ तव पार्थिव सत्तम ॥
कृतास्ते व्यन्तरा सर्वे पापाहारविहारिणः ॥९१॥
भविष्यथ तथा यूयं क्षुत्पिपासानिपीडिताः ॥
तैः सर्वैः प्रार्थितः सोऽपि भूयोभूयः प्रणम्य तम् ॥९२॥
शप्ताः सर्वे वयं तावत्प्रसादं कुरु तद्विभो ॥
ते तेनाथ ततः प्रोक्ता नाहं वो राक्षसाधमाः ॥९३॥
अनुग्रहं करिष्यामि न दास्यामि च भोजनम् ॥
कुशादेशान्मया सर्वे यूयं पापसमन्विताः ॥९४॥
निगृहीताः स युष्माकं प्रसादं प्रकरिष्यति ॥
तदर्थं प्रेषितो दूतस्त्वत्सकाशं महीपते ॥९५॥
रक्षसा तेन यद्युक्तमखिलं तत्त्वमाचर ॥
किं वा ते बहुनोक्तेन नास्ति भक्तस्तथा विधः ॥
भक्तिशक्तिसमोपेतो यथा ते स विभीषणः ॥९६॥
अद्यप्रभृति नो भूमौ विचरिष्यंति राक्षसाः ॥
तस्य वाक्यादसंदेहं त्वं राजन्सुख भाग्भव ॥९७॥
लिंगानां च कृते राजन्विज्ञप्तं तेन रक्षसा ॥
न मया चात्र राजेंद्र आगन्तव्यं कथंचन ॥
रामदेवस्य वाक्येन जंबुद्वीपे न मे गतिः ॥९८॥
अत्र स्थितस्य यत्कृत्यं दैवं वा मानुषं च वा  ॥
तवादेशं करिष्यामि यद्यपि स्यात्सुदुष्करम् ॥९९॥
तस्मात्तेन महाराज रामेश्वरप्रपूजकः ॥
मनुष्यः प्रेषितो दूतो यस्तं पश्य महीपते ॥१००॥
अथ तस्य समादेशाड्ढौकनीयैः पृथग्विधैः ॥
सहितः स समायातो दूतो रक्षेंद्रनोदितः ॥१०१॥
धात्रीफलप्रमाणानां तेन प्रस्थास्त्रयोदश ॥
मौक्तिकानां समानीताः कृते तस्य महीपतेः ॥१०२॥
वैडूर्याणां मरकतानां मणीनां च द्विजोत्तमाः ॥
जात्यानां षोडश द्रोणाः समानीताः सुनिर्मलाः ॥१०३॥
अग्निशौचानि वस्त्राणि तथा देवमयानि च ॥
असंख्यातानि वै हेम जात्यं संख्याविवर्जितम् ॥१०४॥
तत्सर्वं दर्शयित्वाथ कुशाय सुमहात्मने ॥
कृत्वा प्रदक्षिणं पश्चात्प्रणाममकरोद्द्विजाः ॥१०५॥
एष पार्थिवशार्दूल राक्षसेन्द्रो विभीषणः ॥
प्रणामं कुरुते भक्त्या मन्मुखेनेदमब्रवीत् ॥१०६॥
प्रसादात्ते पितुः क्षेमं मम राज्ये मही पते ॥
एष तिष्ठाम्यहं नित्यं पूजयंस्ते पितुर्हरम् ॥१०७॥
मम राजन्नविज्ञातैर्यदि तैः सुदुरात्मभिः ॥
महीतले कृतं किंचिद्विरुद्धं क्षम्यतां मम ॥१०८॥
एते ये राक्षसाः शप्तास्तवार्थाय मया प्रभो ॥
एतेषां प्रेतरूपाणां त्वमाहारं प्रकीर्तय ॥१०९॥
 ॥ कुश उवाच ॥
ममादेशात्समागत्य तेऽत्र लिंगानि कृत्स्नशः ॥
पूरयंतु प्रयत्नेन पांसुभिः सर्वतोदिशम् ॥११०॥
ततस्तु भोजनं तेषां यद्भविष्यति भूतले ॥
तद्वक्ष्यामि स्थिरो भूत्वा शृणु देवप्रपूजक ॥१११॥
तुलागते सदादित्ये तैरागत्य धरातले ॥
विहर्तव्यं प्रयत्नेन यावद्वृश्चिकदर्शनम् ॥११२॥
तत्र यैर्न कृतं श्राद्धं प्रेतपक्षे नराधमैः ॥
कन्यास्थे वा रवौ यावन्न तुलांतगतिर्भवेत् ॥११३॥
ज्वररूपैस्तदंगस्थैर्भक्ष्यमन्नं पृथग्विधम् ॥
ममादेशादसंदिग्धं मासमेकं निशाचरैः ॥११४॥
विधिहीनं च यैर्दत्तं भुक्तं च विधिवर्जितम् ॥
श्राद्धं वा मानुषैः सेव्या ज्वररूपैश्च ते सदा ॥११५॥
एवं वाच्यास्त्वया सर्वे प्रेतास्ते मद्वचोऽखिलम् ॥
तस्मादागत्य कुर्वंतु कार्तिके मासि मद्वचः ॥११६॥
तथा दूत त्वया वाच्यो मम वाक्याद्विभीषणः ॥
प्रमादाद्यन्मया प्रोक्तं परुषं वचनं तव ॥११७॥
जानाम्यहं महाभाग न तेऽस्ति विकृतिः क्वचित् ॥
परिक्लिष्टं जनं दृष्ट्वा मयैतद्व्याहृतं वचः ॥११८॥
राक्षसेन्द्रे स्थिते भूमौ त्वयि जानाम्यहं सदा ॥
तिष्ठते जनको मह्यं रामः शस्त्रभृतां वरः ॥११९॥
एवमुक्त्वा ततो दूतं पूजया मास राघवः ॥
वस्त्रैर्बहुविधै रत्नैर्नद्युत्थैश्च पृथग्विधैः ॥१२०॥
विभीषणकृते पश्चात्प्रेषयामास राघवः ॥
ढौकनीयान्यनेकानि यानि संति च तत्र वै ॥१२१॥
 ॥ सूत उवाच ॥
एवं स सुखसंयुक्तान्कृत्वा सर्वान्द्विजोत्तमान्  ॥
एतत्सर्वं ददौ पश्चात्तेभ्यो मुक्तादिकं नृपः ॥१२२॥
ढौकनीयं तथाऽऽयातं तल्लंकायाः पृथग्विधम् ॥
शासनानि तथान्यानि गजाश्वसहितानि च ॥१२३॥
पत्तनानि विचित्राणि ग्रामाणि नगराणि च ॥
यच्चान्यद्वांछितं येन तद्दत्तं तेन तस्य वै ॥१२४॥
ततः कुशेश्वरं देवं विधाय च लवेश्वरम् ॥
स्वां तनुं च महाभागौ भ्रातरौ तौ रघूत्तमौ ॥१२५॥
निवेद्य ब्राह्मणेन्द्राणां कृत्वा वृत्तिं यथोचिताम् ॥
अयोध्यां नगरीं तूर्णं कृतकृत्यौ विनिर्गतौ ॥१२६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कुशेश्वरलवेश्वरप्रतिष्ठावर्णनंनाम चतुरुत्तरशततमोऽध्यायः ॥१०४॥ छ ॥

N/A

References : N/A
Last Updated : December 29, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP