संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय १६

नागरखण्डः - अध्याय १६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥सूत उवाच ॥
तस्मात्सर्वप्रयत्नेन त्यक्त्वाऽन्या निखिलाः क्रियाः ॥
रक्तशृंगस्य सांनिध्यं सेवनीयं विचक्षणैः ॥१॥
किं दानैः किं क्रियाकांडैः किं यज्ञैः किं व्रतैरपि ॥
तत्क्षेत्रं सेवयेद्भक्त्या हाटकेश्वरसंभवम् ॥२॥
अग्निष्टोमादयो यज्ञाः सर्वे संपूर्णदक्षिणाः ॥
तस्य क्षेत्रस्य पुरतः कलां नार्हंति षोडशीम् ॥३॥
चान्द्रायणानि कृच्छ्राणि तथा सांतपनानि च ॥
तस्य क्षेत्रस्य पुरतः कलां नार्हंति षोडशीम् ॥४॥
प्रभासाद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा ॥
तस्य क्षेत्रस्य पुरतः कलां नार्हंति षोडशीम् ॥५॥
भूमिदानानि सर्वाणि धर्माः सर्वे दयादिकाः ॥
तस्य क्षेत्रस्य पुरतः कलां नार्हंति षोडशीम् ॥६॥
तत्र राजर्षयः पूर्वं प्रभूताः सिद्धिमागताः ॥
पशवः पक्षिणः सर्पाः सिंहव्याघ्रा मृगादयः ॥७॥
तत्र कालवशान्नष्टास्तेऽपि प्राप्ता दिवालयम् ॥
यस्तत्र व्रतहीनोऽपि कृषिकर्मरतोऽपि वा ॥९॥
निवासं कुरुते विप्रा मृतस्तत्र दिवं व्रजेत् ॥
किंवा च बहुनोक्तेन भूयोभूयो द्विजोत्तमाः ॥९॥
श्रूयतां परमं गुह्यं तस्य क्षेत्रस्य संभवम् ॥
पुनंति क्षेत्रतीर्थानि संवासादिह मानवान् ॥१०॥
हाटकेश्वरजं क्षेत्रं पुनाति स्मरणादपि ॥
किं पुनर्दर्शनाद्विप्राः स्पर्शनाच्च विशेषतः ॥११॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रक्तशृङ्गसांनिध्यसेवनफलश्रैष्ठ्यवर्णनंनाम षोडशोऽ ध्यायः ॥१६॥

N/A

References : N/A
Last Updated : December 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP