संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय १४७

नागरखण्डः - अध्याय १४७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
तथान्योऽपि च तत्रास्ति देवः पुत्रप्रदो नृणाम् ॥
वटिकेश्वर नामा च सर्वपापहरो हरः ॥१॥
यस्मिन्वटिकया पूर्वं तपस्तप्तं द्विजोत्तमाः ॥
प्राप्ता पुत्रं शुके याते वनं व्यासात्कपिंजलम् ॥२॥
 ॥ ऋषय ऊचुः ॥
कस्यासौ वटिका तत्र कथं तप्तवती तपः ॥
कस्माद्गृहं परित्यक्त्वा शुकोऽपि वनमाश्रितः ॥३॥
कथं कपिजलं पुत्रं व्यासाल्लेभे शुचिस्मिता ॥४॥
 ॥ सूत उवाच ॥
आसीद्व्यासस्य विप्रेंद्राः कलत्रार्थं मतिः क्वचित्  ॥
निष्कामस्य प्रशांतस्य सर्वज्ञस्य महात्मनः ॥५॥
ततः क्षयमनुप्राप्ते वंशे कुरुसमुद्भवे ॥
विचित्रवीर्यमासाद्य पार्थिवं द्विजसत्तमाः ॥६॥
सत्यवत्याः समादेशात्तस्य क्षेत्रे ततः परम् ॥
स पुत्राञ्जनयामास त्रीञ्छूरान्पांडुपूर्वकान् ॥७॥
वानप्रस्थव्रते तिष्ठन्सकृन्मैथुनतत्परः ॥
क्षेत्रजैस्तनयैर्वंशे कुरोस्तस्मादुपस्थिते ॥८॥
ततः स चिंतयामास भार्यामद्य करोम्यहम् ॥
गार्हस्थ्येनाथ धर्मेण साधयामि शुभां गतिम् ॥९॥
ततः स प्रार्थयामास जाबालिं तु सुतां शुभाम् ॥
वटिकाख्यां शुभां कन्यां स ददौ तस्य सत्वरम् ॥१०॥
ततस्तया समेतः स वनवासं समाश्रितः ॥
वानप्रस्थाश्रमे तिष्ठन्कृतमैथुनतत्परः ॥११॥
ततो गर्भवती जज्ञे पिंजला तस्य पार्श्वतः ॥
ऋतौ मोहनमासाद्य व्यासात्सत्यवतीसुतात् ॥१२॥
अथ याति परां वृद्धिं स गर्भस्तत्र संस्थितः ॥
उदरे व्यासभार्यायाः शुक्लपक्षे यथा शशी ॥१३॥
एवं संगच्छतस्तस्य वृद्धिं गर्भस्य नित्यशः ॥
द्वादशाब्दा अतिक्रांता न जन्म समवाप्नुयात् ॥१४॥
यत्किंचिच्छृणुते तत्र गर्भस्थोऽहि वचः क्वचित् ॥
तत्सर्वं हृदिसंस्थं च चक्रे प्रज्ञासमन्वितः ॥१५॥
वेदाः सांगाः समाधीता गर्भवासेऽपि तेन च ॥
स्मृतयश्च पुराणानि मोक्षशास्त्राणि कृत्स्नशः ॥१६॥
तत्रस्थोऽपि दिवा नक्तं स्वाध्यायं प्रकरोति सः ॥
न च जन्मोत्थजां बुद्धिं कथंचिदपि चिंतयेत् ॥१७॥
सापि माता परा पीडां नित्यं याति तथाकुला ॥
यथायथा स संयाति वृद्धिं जठरमाश्रितः ॥१८॥
ततश्च विस्मयाविष्टो व्यासो वचनमब्रवीत् ॥
कस्त्वं मद्गृहिणीकुक्षौ प्रविष्टो गर्भरूपधृक् ॥१९॥
न निष्क्रामसि कस्मात्त्वं किमेतां सूदयिष्यसि ॥
 ॥ गर्भ उवाच ॥
राक्षसोऽहं पिशाचोहं देवोऽहं मानुषस्तथा ॥२०॥
गजोऽहं तुरगश्चापि कुक्कुटश्छाग एव च ॥
योनीनां चतुराशीतिसहस्राणि च संख्यया ॥२१॥
भ्रांतोऽहं तेषु सर्वेषु तत्कोऽहं प्रब्रवीमि किम् ॥
सांप्रतं मानुषो भूत्वा जठरं समुपाश्रितः ॥२२॥
मानुषं न करिष्यामि निष्कामं च कथंचन ॥
निर्विष्टो भ्रममाणोऽत्र संसारे दारुणे ततः ॥२३॥
अत्रस्थो भवनिर्मुक्तो योगाभ्यासरतः सदा ॥
मोक्षमार्गं प्रयास्यामि स्थानान्मोक्षमसंशयम् ॥२४॥
तावज्ज्ञानं च वैराग्यं पूर्वजातिस्मृतिर्यथा ॥
यावद्गर्भस्थितो जन्तुः सर्वोऽपि द्विजसत्तम ॥२५॥
यदा गर्भाद्विनिष्क्रांतः स्पृश्यते विष्णुमायया ॥
तदा नाशं व्रजत्याशु सत्यमेतदसंशयम् ॥२६॥
तस्मान्नाहं द्विजश्रेष्ठ निष्क्रमिष्ये कथंचन ॥
गर्भादस्मात्प्रयास्यामि स्थानान्मोक्षमसंशयम् ॥२७॥
 ॥ व्यास उवाच ॥
न भविष्यति ते माया वैष्णवी सा कथंचन ॥
सुघोरान्नरकादस्मान्निष्क्रमस्व विगर्हितात् ॥२८॥
गर्भवासात्ततो योगं समाश्रित्य शिवं व्रज ॥
तस्माद्दर्शय मे वक्त्रं स्वकीयं येन मे भवेत् ॥
आनृण्यं पितृलोकस्य तव वक्त्रस्य दर्शनात् ॥२९॥
 ॥ गर्भ उवाच ॥
वासुदेवं प्रतिभुवं यदि मे त्वं प्रयच्छसि ॥
इदानीं यत्स्वयं तन्मे जन्म स्यान्नान्यथा द्विज ॥३०॥
 ॥ सूत उवाच ॥
ततो व्यासो द्रुतं गत्वा द्वारकां प्रति दुःखितः ॥
कथयामास वृत्तांतं विस्तराच्चक्रपाणिने ॥३१॥
तेनैव सहितः पश्चात्स्वगृहं पुनरागतः ॥
व्यासः प्रतिभुवं तस्मै दातुं विष्णुं निरंजनम् ॥३२॥
 ॥ श्रीकृष्ण उवाच ॥
प्रतिभूरस्मि नाशाय मायायास्तव निर्गमे ॥
मद्वाक्यान्निष्क्रमं कृत्वा गच्छ मोक्षमनुत्तमम् ॥३३॥
ततो द्रुतं विनिष्क्रांतो विष्णुवाक्येन स द्विजाः ॥
द्वादशाब्दप्रमाणस्तु यौवनस्य समीपगः ॥३४॥
ततः प्रणम्य दैत्यारिं व्यासं च जननीं तथा ॥
प्रस्थितो वनवासाय तत्क्षणाद्व्यासनंदनः ॥३५॥
अथ तं स मुनिः प्राह तिष्ठ पुत्रात्ममंदिरे ॥
संस्काराञ्जातकाद्यांश्च येन ते प्रकरोम्यहम् ॥३६॥
 ॥ शिशुरुवाच ॥
संस्काराः शतशो जाता मम जन्मनिजन्मनि ॥
भवार्णवे परिक्षिप्तो यैरहं बन्धनात्मकैः ॥३७॥
 ॥ श्रीभगवानुवाच ॥
शुकवज्जल्पते यस्मात्तवायं पुत्रको मुने ॥
तस्माच्छुकोऽयं नाम्नास्तु योगविद्याविचक्षणः ॥३८॥
नायं स्थास्यति हर्म्ये स्वे मोहमायाविवर्जितः ॥
तस्माद्गच्छतु मा स्नेहं त्वं कुरुष्वास्य संभवम् ॥३९॥
अहं गृहं प्रयास्यामि त्वं मुक्तः पैतृकादृणात् ॥
दर्शनादेव पुत्रस्य सत्यमेतन्मयोदितम् ॥४०॥
एवमुक्त्वा हृषीकेशो व्यासमामंत्र्य सत्वरम् ॥
विहगाधिपमारूढः प्रययौ द्वारकां प्रति ॥४१॥
ततो गते हृषीकेशे व्यासः पुत्रमुवाच ह ॥
प्रस्थितं वनवासाय निःस्पृहं स्वगृहं प्रति ॥४२॥
 ॥ व्यास उवाच ॥
गृहस्थधर्मरिक्तानां पितृवाक्यं प्रणश्यति ॥
पितृवाक्यं तु यो मोहान्नैव सम्यक्समाचरेत् ॥
स याति नरकं तस्मान्मद्वाक्यात्पुत्र मा व्रज ॥४३॥
 ॥ शुक उवाच ॥
यथाद्याहं त्वया जातो मया त्वं चान्यजन्मनि ॥
संजातोऽसि मुनिश्रेष्ठ तथाहमपि ते पिता ॥४४॥
तस्माद्वाक्यं त्वया कार्यं यद्येषा धर्मसंस्थितिः ॥
नाहं निषेधनीयस्तु व्रजमानस्तपोवनम् ॥४५॥
 ॥ व्यास उवाच ॥
ब्राह्मणस्य गृहे जन्म पुण्यैः संप्राप्यते नृभिः ॥
संस्कारान्यत्र संप्राप्य वेदोक्तान्मुनिराप्यते ॥४६॥
 ॥ शुक उवाच ॥
संस्कारैराप्यते मुक्तिर्यदि कर्म शुभं विना ॥
पाखंडिनोऽपि यास्यंति तन्मुक्तिं व्रतधारिणः ॥४७॥
 ॥ व्यास उवाच ॥
ब्रह्मचारी भवेत्पूर्वं गृहस्थश्च ततः परम् ॥
वानप्रस्थो यतिश्चैव ततो मोक्षमवाप्नुयात् ॥४८॥
 ॥ शुक उवाच ॥
ब्रह्मचर्येण चेन्मोक्षस्तत्षण्ढानां सदा भवेत् ॥
गृहस्थाश्रमिणां चेत्स्यात्तत्सर्वं मुच्यते जगत् ॥४९॥
अथवा वनरक्तानां तन्मृगाणां प्रजायते ॥५०॥
अथवा यतिधर्माणां यदि मोक्षो भवेन्नृणाम् ॥
दरिद्राणां च सर्वेषां तन्मुक्तिः प्रथमा भवेत् ॥५१॥
 ॥ व्यास उवाच ॥
गृहस्थधर्मरक्तानां नृणां सन्मार्गगामिनाम् ॥
इह लोकः परश्चैव मनुना संप्रकीर्तितः ॥५२॥
 ॥ श्रीशुक उवाच ॥
गृहगुप्तौ सुगुप्तानां बंधानां बंधुबंधनैः ॥
मोहरागसमावेशात्सन्मार्ग गमनं कुतः ॥५३॥
 ॥ व्यास उवाच ॥  ॥
कष्टं वने निवसतोऽत्र सदा नरस्य नो केवलं निजतनुप्रभवं भवेच्च  ॥
दैवं च पित्र्यमखिलं न विभाति कृत्यं तस्माद्गृहे निवसतात्महितं प्रचिन्त्यम् ॥५४॥
 ॥ श्रीशुकदेव उवाच ॥
भावेन भावितमहातपसां मुनीनां तिष्ठन्ति तावदखिलानि तपःफलानि ॥
यत्ते निकाशशरणाः पुरुषा न जातु पश्यंत्यसज्जनमुखानि सुखं तदेव ॥५५॥
 ॥ व्यास उवाच ॥
गृहं परिग्रहः पुंसां गृहस्थाश्रमधर्मिणाम् ॥
इहलोके परे चैव सुखं यच्छति शाश्वतम् ॥५६॥
 ॥ श्रीशुक उवाच ॥
शीतं हुताशादपि दैवयोगात्सञ्जायते चन्द्रमसोऽपि तापः ॥
परिग्रहात्सौख्यसमुद्भवोऽत्र भूतोऽभवद्भावि न मर्त्यलोके ॥५७॥
 ॥ व्यास उवाच ॥
सुपुण्यैर्लभ्यते कृच्छ्रान्मानुष्यं भुवि दुर्लभम् ॥
तस्मिँल्लब्धे न किं लब्धं यदि स्याद्गृहधर्मवित् ॥५८॥
 ॥ श्रीशुकदेव उवाच ॥
यदि स्याज्ज्ञानसंयुक्तो जन्मकालेत्र मानवः ॥
निजावस्थां समालोक्य तज्ज्ञानं हि विलीयते ॥५९॥
 ॥ व्यास उवाच ॥
मुदितस्यापि पुत्रस्य गर्दभस्यार्भकस्य च ॥
भस्मलोलस्य लोकस्य शब्दोऽपि रटतो मुदे ॥६०॥
 ॥ श्रीशुक उवाच ॥
रसता सर्पता धूलि लोके त्वशुचिना चिरम् ॥
मुनेऽत्र शिशुना लोकस्तुष्टिं याति स बालिशः ॥६१॥
 ॥ व्यास उवाच ॥
पुंनामास्ति महारौद्रो नरको यममन्दिरे ॥
पुत्रहीनो व्रजेत्तत्र तेन पुत्रः प्रशस्यते ॥६२॥
 ॥ श्रीशुक उवाच ॥
यदि स्यात्पुत्रतः स्वर्गः सर्वेषां स्यान्महामुने ॥
शूकराणां शुनां चैव शलभानां विशेषतः ॥६३॥
 ॥ व्यास उवाच ॥
पितॄणामनृणो मर्त्यो जायते पुत्रदर्शनात् ॥
पौत्रस्यापि च देवानां प्रपौत्रस्य दिवाश्रयः ॥६४॥
शुक उवाच ॥
चिरायुर्ज्जायते गृध्रः संततिं पश्यते निजाम् ॥
क्रमेण संततं किं न स मोक्षं प्रतिपद्यते ॥६५॥
 ॥ सूत उवाच ॥
एवमुक्त्वा परित्यज्य पितरं स वनं गतः ॥
मातरं च सुदुःखार्तां प्रलपन्तीमनेकधा ॥६६॥
तं दृष्ट्वा दुःखितो व्यासो निराशः पुत्रदर्शने ॥
पुत्रशोकाभिसंतप्तो भार्यया सहितोऽभवत् ॥६७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये व्यासशुकसंवादवर्णनंनाम सप्तचत्वारिंशदुत्तरशततमोध्यायः ॥१४७॥

N/A

References : N/A
Last Updated : December 29, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP