संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय १९६

नागरखण्डः - अध्याय १९६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
अथ तां यौवनोपेतां स्वसुतां प्रेक्ष्य पार्थिवः ॥
अनौपम्येन रूपेण संयुक्तां वरवर्णिनीम् ॥
आनर्तश्चिन्तयामास कन्यकां प्रददाम्यहम् ॥१॥
अनर्हाय च यो दद्या द्वराय निजकन्यकाम् ॥
कार्यकारणलोभेन नरकं स प्रगच्छति ॥२॥
एवं चिंतयतस्तस्य महान्कालो व्यवस्थितः ॥
न पश्यति च तद्योग्यं कंचिद्वरमनुत्तमम् ॥३॥
अथ संप्रेषयामास सर्वभूताश्रयेषु ये ॥
चित्रकर्मणि विख्यातान्नरांश्चित्रकरांस्तदा ॥४॥
गच्छध्वं मम वाक्येन सर्वा न्भूमितले नृपान् ॥
लिखित्वा पट्टमध्ये तु दर्शयध्वं ततः परम् ॥५॥
सुताया मम येनाऽसौ दृष्ट्वाऽभीष्टं नराधिपम् ॥
पत्यर्थं वरयेत्साध्वी मम दोषो भवेन्न हि ॥६॥
तस्य तद्वचनं श्रुत्वा सर्वे चित्रकरास्तदा ॥
प्रस्थिता धरणीपृष्ठे पार्थिवानां गृहेषु च ॥७॥
ते लिखित्वा महीपाला न्यौवनस्थान्वयोऽन्वितान् ॥
रूपौदार्यगुणोपेतान्दर्शयामासुरग्रतः ॥
रत्नवत्याः क्रमेणैव तस्य भूपस्य शासनात् ॥८॥
अथ तेषां तु सर्वेषां मध्ये राजा वृहद्बलः ॥
दशार्णाधिपतिर्भव्यः पत्यर्थं च वृतस्तया ॥९॥
तदाऽऽनर्ताधिपो हृष्टः प्रेषयामास तं प्रति ॥
विवाहार्थं सुविज्ञाय वाक्य मेतदुवाच ह ॥१०॥
गच्छध्वं मम वाक्येन दशार्णाधिपतिं प्रति ॥
वाच्यः स विनयाद्गत्वा विवाहार्थं ममांतिकम् ॥११॥
समागच्छ निजां कन्यां येन यच्छाम्यहं तव ॥
नाम्ना रत्नवतीं ख्यातां त्रैलोक्यस्यापि सुन्दरीम् ॥१२॥
गत्वा स सत्वरं तत्र यत्र राजा बृहद्बलः ॥
प्रोवाच सकलं वाक्यमानर्ताधिपतेः स्फुटम् ॥१३॥
सोऽपि तत्सहसा श्रुत्वा तेषां वाक्यमनुत्तमम् ॥
परमां तुष्टिमासाद्य प्रस्थितस्तत्पुरं प्रति ॥
सैन्येन महता युक्तश्चतुरंगेण पार्थिवः ॥१४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दशार्णाधिपतेर्बृहद्बलस्यानर्तेशपुरं प्रत्यागमनवर्णनंनाम षण्णवत्युत्तरशततमोऽध्यायः ॥१९६॥

N/A

References : N/A
Last Updated : December 31, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP