संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २५३

नागरखण्डः - अध्याय २५३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ शूद्र उवाच ॥
पार्वतीकुपिता देवी कथं देवेन शूलिना ॥
प्रसादं च गता शप्त्वा यत्कोपात्क्षुभ्यते जगत् ॥१॥
कथं स भगवान्रुद्रो भार्याशापमवाप ह ॥
वैकृतं रूपमासाद्य पुनर्दिव्यं वपुः श्रितः ॥२॥
 ॥ गालव उवाच ॥
देवा रूपाण्यदृश्यानि कृत्वा देव्या महाभयात् ॥
मनुष्यलोके सकले प्रतिमासु च संस्थिताः ॥३॥
तेषामपि प्रसन्ना साऽनुग्रहं समुपाकरोत् ॥
विष्णुस्तुता महाभागा विश्वमाताऽघनाशिनी ॥४॥
तेषां बलाच्च पार्वत्याः शापभारेण यन्त्रितः ॥
तां नित्यमेवानुनयन्नृचे सोवाच शंकरम् ॥५॥
एते देवा विश्व पूज्या विश्वस्य च वरप्रदाः ॥
मत्प्रसादाद्भविष्यंति भक्तितस्तोषिता नरैः ॥६॥
त्वामृते मम कर्मेदं कृतं साधुविनिन्दितम् ॥
वेद्यां विवाह काले च प्रत्यक्षं सर्वसाक्षिकम् ॥७॥
यत्सप्तमंडलानां च गमनं च करार्पणम् ॥
वह्निश्च वरुणः कृष्णो देवताश्च सवल्लभाः ॥८॥
चतुर्दिक्ष्वंग संयुक्ता देवब्राह्मणसंयुताः ॥
एतेषामग्रतो दिब्यं कृत्वा त्वं जनसंसदि ॥९॥
प्रमादात्सत्त्वमापन्नो व्यभिचारं कथं कृथाः ॥
गुरुवोऽपि न सन्मार्गे प्रवर्त्तंते जनौघवत् ॥१०॥
निग्राह्याः सर्वलोकेषु प्रबुद्धैः श्रूयते श्रुतौ ॥
पुत्रेणापि पिता शास्यः शिष्येणापि गुरुः स्वयम् ॥११॥
क्षत्रियैर्ब्राह्मणः शास्यो भार्यया च पतिस्तथा ॥
उन्मार्गगामिनं श्रेष्ठमपि वेदान्तपारगम् ॥१२॥
नीचैरपि प्रशास्येत श्रुतिराह सनातनी ॥
सन्मार्ग एव सर्वत्र पूज्यते नापथः क्वचित् ॥१३॥
येन स्वकुलजो धर्मस्त्यक्तः स पतितो भवेत् ॥
मृतश्च नरकं प्राप्य दुःखभारेण युज्यते ॥१४॥
धर्मं त्यजति नास्तिक्याज्ज्ञातिभेदमुपागतः ॥
स निग्राह्यः सर्वलोकैर्मनुधर्मपरायणैः ॥१५॥
कुलधर्माञ्ज्ञातिधर्मान्देशधर्मान्महेश्वर ॥
ये त्यजंति च तेऽवश्यं कुलाच्च पतिता जनाः ॥१६॥
अग्नित्यागो व्रतत्यागो वचनत्याग एव च ॥
धर्मत्यागो नैव कार्यः कुर्वन्पतित एव हि ॥१७॥
न पिता न च ते माता न भ्राता स्वजनोऽपि च ॥
पश्यते तव वार्तां च अस्पृश्यस्त्वमदन्विषम् ॥१८॥
अस्थिमालाचिताभस्म जटाधारी कुचैलवान् ॥
चपलो मुक्तमर्यादस्तस्थुं नार्हसि मेऽग्रतः ॥१९॥
अब्रह्मण्योऽव्रती भिक्षुर्दुष्टात्मा कपटी सदा ॥
नार्हसि त्वं मम पुरः संभाषयितुमीश्वर ॥२०॥
एवं सा रुदती देवी बाष्पव्याकुललोचना ॥
महादुःखयुतैवासीद्देवेशेऽनुनयत्यपि ॥२१॥
पुनरेव प्रकुपिता हरं प्रोवाच भामिनी ॥
तवार्जवं न हृदये काठिन्यं वेद्मि नित्यदा ॥२२॥
ब्राह्मणैस्त्वासुरैरुक्तं तन्मृषा प्रतिभाति मे ॥
यस्मान्मयि महादुष्टभाव एव कृतस्त्वया ॥२३॥
ब्राह्मणा वंचिता यस्माद्ब्राह्मणैस्त्वं हनिष्यसे ॥
एवमुक्त्वा भगवती पुनराह न किञ्चन ॥२४॥
ईशः प्रसन्नवदनामुपचारैरथाकरोत् ॥
शनैर्नीतिमयैर्वाक्यैर्हेतुमद्भिर्महेश्वरः ॥२५॥
प्रसन्नलोचनां ज्ञात्वा किंचित्प्राह हरस्ततः ॥
कोपेन कलुषं वक्त्रं पूर्णचन्द्र समप्रभम् ॥२६॥
कस्मात्त्वं कुरुषे भद्रे युक्तमेव वचो न ते ॥
सर्वभूतदया कार्या प्राणिनां हि हितेच्छया ॥
यद्यपीष्टो हि यस्यार्थो न कार्यं परपीडनम् ॥
जगत्सर्वं सुतप्रायं तवास्ति वरवर्णिनि ॥२८॥
जगत्पूज्या त्वमेवैका सर्वरूपधरानघे ॥
मया यदि कृतं कर्मावद्यं देव हिताय वै ॥२९॥
तथाप्येवं तव सुतो भविष्यति न संशयः ॥
अथवा मम सर्वेभ्यः प्राणेभ्योऽपि गरीयसी ॥३०॥
यदिच्छसि तथा कुर्यां तथा तव मनोरथान् ॥
प्रसन्नवदना भूत्वा कथयस्व वरानने ॥३१॥
इत्युक्ता सा भगवती पुनराह महेश्वरम् ॥
चातुर्मास्ये च संप्राप्ते महाव्रत धरो यदि ॥३२॥
देवतानां च प्रत्यक्षं तांडवं नर्तसे यदि ॥
पारयित्वा व्रतं सम्यग्ब्रह्मचर्यं महेश्वर ॥३३॥
मत्प्रीत्यै यदि देहार्थं वैष्णवं च प्रयच्छसि ॥
शापस्यानुग्रहं कुर्यां प्रसववदना सती ॥३४॥
नान्यथा मम चित्तं त्वां विश्वासमनुगच्छति ॥
तच्छ्रुत्वा भगवांस्तुष्टस्तथेति प्रत्युवाच ताम् ॥३५॥
सापि हृष्टा भगवती शापस्यानुग्रहे वृता ॥३६॥
इदं पुराणं मनुजः शृणोति श्रद्धायुक्तो भेदबुद्ध्या दृढत्वम् ॥
तस्या वश्यं जीवितं सर्वसिद्धं मर्त्याः सत्यात्तच्छ्रयत्वं प्रयांति ॥३७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये शंकरकृतपार्वत्यनुनयो नाम त्रिपंचाशदुत्तरद्विशततमोऽध्यायः ॥२५३॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP