संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २०९ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २०९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २०९ Translation - भाषांतर ॥ आनर्त उवाच ॥सांप्रतं मुनिशार्दूल शंखतीर्थ समुद्भवम् ॥माहात्म्यं वद मे कृत्स्नं श्रद्धा मे महती स्थिता ॥१॥अहो तीर्थमहो तीर्थं हाटकेश्वरसंज्ञितम् ॥क्षेत्रं यच्च धरापृष्ठे सर्वाश्चर्यमयं शुभम् ॥२॥नाहं तृप्तिं द्विजश्रेष्ठ प्रगच्छामि कथंचन ॥शृण्वानस्तु सुमाहात्म्यं क्षेत्रस्यास्य समुद्भवम् ॥३॥ ॥ विश्वामित्र उवाच ॥अत्र ते कीर्तयिष्यामि पूर्ववृत्तं कथांतरम् ॥शंखतीर्थस्य माहात्म्यं यथाजातं धरातले ॥४॥आनर्ताधिपतिः पूर्वमासीदन्यो महीपतिः ॥यथा त्वं सांप्रतं भूमौ सर्वलोकप्रपालकः ॥५॥सोऽकस्मात्कुष्ठभाग्जातो विकलांगो बभूव ह ॥अपुत्रः शत्रुभिर्व्याप्तस्त्रस्तश्च नृपसत्तमः ॥६॥स सर्वैर्भूमिपालैश्च सर्वतः परिपीडितः ॥राज्यभ्रंशसमोपेतः प्राप्तो रैवतकं गिरिम् ॥७॥तत्रापि पीड्यते नित्यं सर्वतस्तु मलिम्लुचैः ॥८॥हस्त्यश्वरथहीनस्तु कोशहीनो यदाऽभवत् ॥स तदा चिंतयामास किं करोमि च सांप्रतम् ॥९॥कलत्राण्यपि सर्वाणि ह्रियंते तस्करैर्बलात् ॥१०॥स एवं चिंतयानस्तु गतो वै नारदं विभुम् ॥द्रष्टुं पार्थिवशार्दूल वैष्णवे दिवसे स्थिते ॥११॥तत्रापश्यत्स संप्राप्तं नारदं मुनिसत्तमम् ॥तीर्थयात्राप्रसंगेन दामोदरदिदृक्षया ॥१२॥तं प्रणम्याथ शिरसा कृतांजलिपुटः स्थितः ॥प्रोवाच वचनं दीन उपविश्य तदग्रतः ॥१३॥ ॥ राजोवाच ॥शत्रुभिः परिभूतोऽहं समतान्मुनिसत्तम ॥ततो राज्यपरिभ्रंशात्संप्राप्तोऽत्र महागिरौ ॥१४॥विपिने तस्करैः पापैः प्रपीड्येऽहं समंततः ॥यत्किंचिदश्वनागाद्यं मया सह समागतम् ॥१५॥तत्सर्वं तस्करैर्नीतं कोशा दारास्तथा वसु ॥तस्माद्वद मुनिश्रेष्ठ वैराग्यं मे महत्स्थितम् ॥१६॥अन्यजन्मोद्भवं किंचिन्मम पापं सुदारुणम् ॥येनेमां च दशां प्राप्तः सहसा मुनिसत्तम ॥१७॥तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा मुनीश्वरः ॥प्रोवाचाऽथ नृपं दीनं ज्ञात्वा दिव्येन चक्षुषा ॥१८॥ ॥ नारद उवाच ॥न त्वया कुत्सितं किंचित्पूर्व देहांतरे कृतम् ॥मया ज्ञातं महाराज सर्वं दिव्येन चक्षुषा ॥१९॥त्वमासीः पार्थिवः पूर्वं सिद्धपन्नगसंज्ञिते ॥पत्तने सोमवंशीयः सर्व शत्रुनिबर्हणः ॥२०॥त्वया चेष्टं महायज्ञैः सदा संपूर्णदक्षिणैः ॥महादानानि दत्तानि पूजिता ब्राह्मणोत्तमाः ॥२१॥तेन कर्म विपाकेन भूयः पार्थिवतां गतः ॥२२॥ ॥ आनर्त उवाच ॥इह जन्मनि नो कृत्यं संस्मरामि विभो कृतम् ॥तत्किं राज्यपरि भ्रंशः सहसा मे समुत्थितः ॥२३॥लक्ष्म्या हीनस्य लोकस्य लोकेऽस्मिन्व्यर्थतां व्रजेत् ॥जीवितं मुनिशार्दूल विज्ञातं हि मयाऽधुना ॥२४॥मृतो नरो गतश्रीको मृतं राष्ट्रमराजकम् ॥मृतमश्रोत्रिये दानं मृतो यज्ञस्त्वदक्षिणः ॥२५॥लक्ष्म्या हीनस्य मर्त्यस्य बांधवोऽपि विजायते ॥प्रार्थयिष्यति मां नूनं दृष्ट्वा तं चान्यतो व्रजेत् ॥२६॥यथा मां सांप्रतं दृष्ट्वा ये मयाऽपि प्रतर्पिताः ॥तेऽपि दूरतरं यांति एष मां प्रार्थयि ष्यति ॥२७॥धनहीनं नरं त्यक्त्वा कुलीनमपि चोत्तमम् ॥गच्छति स्वजनोऽन्यत्र शुष्कं वृक्षमिवांडजाः ॥२८॥तत्कार्यकारणार्थाय दरिद्रोऽ भ्येति चेद्गृहम् ॥धनिनो भर्त्सयंत्येनं समागच्छंति नांतिकम् ॥२९॥कृपणोऽपि धनाढ्यश्चेदागच्छति हि याचितुम् ॥एष दास्यति मे किंचि दिति चित्ते नृणां भवेत् ॥३०॥मम त्वं पूर्ववंशीयः पिता ते च पितुर्मम ॥सदा स्नेहपरश्चासीत्त्वं च स्नेहविवर्जितः ॥३१॥एवं ब्रुवंति लोकेऽत्र धनिनां पुरतः स्थिताः ॥कुलीना अपि पापानां दृश्यंते धनलिप्सया ॥दरिद्रस्य मनुष्यस्य क्षितौ राज्यं प्रकुर्वतः ॥३२॥प्रशोषः केवलं भावी हृदयस्य महामुने ॥द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ ॥यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥३३॥श्मशानमपि सेवंते धनलुब्धा निशागमे ॥जनेतारमपि त्यक्त्वा नित्यं यांति सुदूरतः ॥३४॥सुमूर्खोपि भवेद्विद्वानकुलीनोऽपि सत्कुलः ॥यस्य वित्तं भवे द्धर्म्ये विपरीतमतोऽन्यथा ॥३५॥निर्विण्णोऽहं मुनिश्रेष्ठ जीवितस्य च सांप्रतम् ॥तस्माद्ब्रूहि किमर्थं मे दारिद्र्यं समुपस्थितम् ॥३६॥कुष्ठश्चापि ममोपेतः शत्रुभिश्च पराभवम् ॥अन्यजन्मांतरं दृष्टं त्वया दिव्येन चक्षुषा ॥३७॥कुकर्मणा न संस्पृष्टं स्वल्पेनापि ब्रवीषि माम् ॥एतज्जन्मातरं दृष्टं स्मरामि मुनिसत्तम ॥३८॥न मया कुकृतं किंचित्कदाचित्समनुष्ठितम् ॥तत्किं राज्यपरिभ्रंशो जातोऽयं मम सन्मुने ॥३९॥अत्र मे कौतुकं जातं तस्माद्देहि विनिर्णयम् ॥भवेन्न वा भवेत्कर्म कृतं यच्च शुभाशुभम् ॥४०॥ ॥ विश्वामित्र उवाच ॥तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा तु नारदः ॥कृपया परयाविष्टस्ततः प्रोवाच सादरम् ॥४१॥शृणु राजन्प्रवक्ष्यामि यथा शुद्धिः प्रजायते ॥तव राज्यस्य संप्राप्तिर्यथा भूयोऽपि जायते ॥४२॥तव भूमौ महापुण्यमस्ति क्षेत्रं जगत्त्रये ॥हाटकेश्वरसंज्ञं तु तीर्थं तत्रास्ति शोभनम् ॥शंखतीर्थमिति ख्यातं सर्वपातकनाशनम् ॥४३॥यस्तत्र कुरुते स्नानं श्रद्धया परया युतः ॥अष्टम्यां शुक्लपक्षस्य संप्राप्ते मासि माधवे ॥४४॥सूर्यवारे तु सम्प्राप्ते भास्करस्योदयं प्रति ॥सर्वकुष्ठविनिर्मुक्तो जायते सूर्यसंनिभः ॥४५॥यंयं काममभिध्यायेत्तंतं सर्वेषु दुर्लभम् ॥स तदाऽऽप्नोत्यसंदिग्धं दृष्ट्वा शंखेश्वरं शुभम् ॥४६॥किं त्वया न श्रुतं तत्र स्वदेशे वसता नृप ॥तस्य तीर्थस्य माहात्म्यं यत्त्वमत्र समागतः ॥४७॥ ॥ सिद्धसेन उवाच ॥कथं शंखेश्वरो देवः संजातो वद सन्मुने ॥४८॥ ॥ नारद उवाच ॥अहं ते कथयिष्यामि कथामेतां पुरातनीम् ॥यथा शंखेश्वरो जातः शंखतीर्थं तु पार्थिव ॥४९॥आसतुर्ब्राह्मणौ पूर्वं लिखितः शंख एव च ॥भ्रातरौ वेदविदुषौ तपस्युग्रे व्यवस्थितौ ॥५०॥कस्यचित्त्वथ कालस्य लिखितस्याश्रमं प्रति ॥भ्रातुर्ज्येष्ठस्य संप्राप्तो नमस्कारकृते नृप ॥५१॥सोऽपश्यदाश्रमं शून्यं लिखितेन विवर्जितम् ॥५२॥अथापश्यद्वने तस्मि न्परिपक्वफलानि सः ॥प्रणयात्प्रतिजग्राह मत्वा भ्रातुर्नृपाऽऽश्रमम् ॥५३॥एतस्मिन्नन्तरे प्राप्तो लिखितस्तत्र चाश्रमे ॥यावत्पश्यति शंखं स प्रगृही तबृहत्फलम् ॥५४॥किमिदं विहितं पाप पापं साधुविगर्हितम् ॥चौर्यकर्म त्वया निंद्यं यद्धृतानि फलानि च ॥५५॥अनेन कर्मणा तुभ्यं तपो यास्य ति संक्षयम् ॥चौर्यकर्मप्रवृत्तस्य ब्राह्मणैर्गर्हितस्य च ॥५६॥ ॥ शंख उवाच ॥एकोदरसमुत्पन्नो ज्येष्ठभ्राता यथा पिता ॥भूयादिति श्रुतिर्लोके प्रसिद्धा सर्वतः स्थिता ॥५७॥तत्किं पुत्रस्य विप्रेन्द्र नाधिकारः पितुर्धने ॥यथैवं निष्ठुरैर्वाक्यैर्निर्भर्त्सयसि मां विभो ॥५८॥ ॥ लिखित उवाच ॥न दोषो जायते हर्तुः पुत्रस्यात्र कथंचन ॥एकत्र संस्थितस्यात्र पितुर्वित्तमसंशयम् ॥५९॥विभक्तस्तु यदा पुत्रो भ्राता वाऽपहरेद्धनम् ॥तदा दोषमवाप्नोति चौर्योत्थं मतमेव मे ॥६०॥पुत्रस्य तु पुनर्वित्तं पिता हरति सर्वदा ॥न तस्य विद्यते दोषो विभक्त स्यापि कर्हिचित् ॥६१॥अत्र श्लोकः पुरा गीतो मनुना स्मृतिकारिणा ॥तं तेऽहं संप्रवक्ष्यामि धर्मशास्त्रोद्भवं वचः ॥६२॥त्रय एवाधप्रोक्ता भार्या दासस्तथा सुतः ॥यत्ते समधिगच्छंति यस्य ते तस्य तद्धनम् ॥६३॥ ॥ शंख उवाच ॥यद्येवं चौर्यदोषोऽस्ति मम तात महत्तरः ॥निग्रहं कुरु मे शीघ्रं येन न स्यात्तपःक्षयः ॥६४॥विश्वामित्र उवाच ॥तस्य तं निश्चयं ज्ञात्वा शस्त्रमादाय निर्मलम् ॥चकर्ताथ भुजौ तस्य भ्राता भ्रातुश्च निर्घृणः ॥सोपि च्छिन्नकरो विप्रो व्यथयापि समन्वितः ॥६५॥मन्यमानः प्रसादं तं भ्रातुर्ज्येष्ठस्य पार्थिव ॥६६॥ततस्तु कामदं क्षेत्रं हाटकेश्वरसंज्ञितम् ॥मत्वा प्राप्य तपस्तेपे कंचित्प्राप्य जलाशयम् ॥६७॥वर्षास्वाकाशशायी च हेमन्ते सलिलाश्रयः ॥पञ्चाग्निसाधको ग्रीष्मे षष्ठकालकृताशनः ॥६८॥संस्नाप्य भास्करं स्थाणुं तत्पुरः शतरुद्रियम् ॥जपन्सामोक्तरुद्रांश्च भव रुद्रांस्तथा जपन् ॥प्राणरुद्रांस्तथा नीलान्स्कन्दसूक्तसमन्वितान् ॥६९॥ततो वर्षसहस्रांते तुष्टस्तस्य महेश्वरः ॥प्रोवाच दर्शनं गत्वा सह सूर्य वृषेश्वरैः ॥७०॥ ॥ महेश्वर उवाच ॥शंख तुष्टोऽस्मि ते वत्स तपसानेन सुव्रत ॥तस्मात्कथय मे क्षिप्रं यद्ददामि तवाऽधुना ॥७१॥ ॥ शंख उवाच ॥यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥जायेतां तादृशौ हस्तौ यादृशो मे पुरा स्थितौ ॥७२॥त्वयाऽत्रैव सदा वासः कार्यः सुरवरेश्वर ॥लिंगे कृत्वा दयां देव ममोपरि महत्तराम् ॥७३॥एतज्जलाशयं नाथ मम नाम्ना धरातले ॥प्रसिद्धिं यातु लोकस्य यावच्चन्द्रार्कतारकाः ॥७४॥अत्र यः कुरुते स्नानं धृत्वा मनसि दुर्लभम् ॥किंचिद्वस्तु समग्रं तु तस्य संपत्स्यते विभो ॥७५॥ ॥ श्रीभगवानुवाच ॥अद्याहं दर्शनं प्राप्तस्तव चैवाष्टमीदिने ॥माधवस्य सिते पक्षे यस्माद्ब्राह्मणसत्तम ॥७६॥तस्मात्संक्रमणं लिंगे तावकेऽस्मिन्द्विजोत्तम ॥करिष्यामि न सन्देहो दिनमेकमसंशयम् ॥७७॥यश्चात्र दिवसे प्राप्ते तीर्थेऽत्रैव भवोद्भवे ॥स्नानं कृत्वा रवेर्वार उदयं समुपस्थिते ॥७८॥पूजयिष्यति मे मूर्तिं त्वया संस्थापितां द्विज ॥कुष्ठव्याधिविनिर्मुक्तो मम लोकं स यास्यति ॥७९॥शेषकालेऽपि विप्रेन्द्र अज्ञानविहितादघात् ॥मुक्तिं प्राप्स्यत्यसंदिग्धं मम वाक्याद्द्विजोत्तम ॥८०॥तथा तवापि यौ हस्तौ छिन्नावेतावुभावपि ॥तस्मिन्योगेऽभिषेकात्तौः स्यातां भूयोऽपि तादृशौ ॥८१॥एष मे प्रत्ययो विप्र भविष्यति तवाऽधुना ॥भूयः स्नानं विधाय त्वं ततो मूर्तिं ममार्चय ॥८२॥अन्येऽपि व्यंगतां प्राप्ताः संयोगेऽत्र तव स्थिते ॥स्नात्वा मां पूजयिष्यंति मुक्तिं यास्यंति ते द्विज ॥८३॥एवमुक्त्वा सहस्रांशुस्ततश्चादर्शनं गतः ॥शंखोऽपि तत्क्षणात्स्नात्वा पूजयित्वा दिवाकरम् ॥८४॥यावत्पश्यति चात्मानं तावद्धस्तसमन्वितम् ॥आत्मानं पश्यमानस्तु विस्मयं परमं गतः ॥८५॥ततःप्रभृति तत्रैव कृत्वाऽऽश्रमपदं नृप ॥तपस्तेपे द्विज श्रेष्ठो गतश्च परमां गतिम् ॥८६॥तस्मात्त्वमपि राजेंद्र संयोगं प्राप्य तत्त्वतः ॥तेनैव विधिना स्नात्वा त्वं पूजय दिवाकरम् ॥८७॥यश्चैतच्छृणुयान्नित्यं पठेद्वा पुरतो रवेः ॥तस्यान्वयेऽपि नो कुष्ठी कदाचित्सम्प्रजायते ॥८८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिताया षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शंखादित्यशंखतीर्थोत्पत्तिवृत्तांतवर्णनंनाम नवोत्तरद्विशततमोऽध्यायः ॥२०९॥ N/A References : N/A Last Updated : January 06, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP