संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २७१

नागरखण्डः - अध्याय २७१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


सूत उवाच ॥
अथान्यदपि तत्रास्ति सुपुण्यं लिंगसप्तकम् ॥
येनार्चितेन दृष्टेन पूजितेन विशेषतः ॥१॥
दीर्घायुर्जायते मर्त्यः सर्वरोगविवर्जितः ॥
मार्कण्डेश्वर इत्युक्तस्तत्र देवो महेश्वरः ॥२॥
इन्द्रद्युम्नेश्वरोऽन्यस्तु सर्वपापहरो हरः ॥
पालेश्वरस्तथा चैव सर्वव्याधिविनाशनः ॥३॥
ततो घंटशिवः ख्यातो यो घंटेन प्रतिष्ठितः ॥
कलशेश्वरसंज्ञस्तु वानरेश्वरसंयुतः ॥४॥
ईशान शिव इत्युक्तस्तत्र क्षेत्रेश्वरेश्वरः ॥
पूजितो मानवैर्भक्त्या कामान्यच्छत्यमानुषान् ॥५॥
वांछितान्मनसा सर्वान्कलिकालेऽपि संस्थिते ॥६॥
ऋषय ऊचुः ॥
कोऽयं मार्कंडसंज्ञस्तु येन लिंगं प्रतिष्ठितम् ॥
इन्द्रद्युम्नो महीपालः कतमो वद सूतज ॥७॥
तथा पालकनामा च येनायं स्थापितो हरः ॥
तथा यो घण्टसंज्ञस्तु कस्मिञ्जातः स चान्वये ॥८॥
कलशाख्यस्तु यः ख्यातो वानरेण समन्वितः ॥
ईशानोप्यखिलं ब्रूहि परं नःकौतुकं स्थितम् ॥९ ॥
यतोऽत्र जायते श्रेयः पुनः पुंसां प्रकीर्तय ॥
यैरेतैः स्थापिता देवाः क्षेत्रेऽस्मिन्मानवोत्तमैः ॥१०॥
तथा तेषां समाचारं प्रभावं चैव सूतज ॥
दानं वापि यथाकालं मंत्रांश्च विस्तराद्वद ॥११॥
सूत उवाच ॥
अहं वः कीर्तयिष्यामि कथामेतां पुरातनीम् ॥
कथितां भर्तृयज्ञेन आनर्ताधिपतेः स्वयम् ॥१२॥
श्रुतयापि यया मर्त्यो दीर्घायुर्जायतेनरः ॥
नापमृत्युमवाप्नोति कथंचित्तत्प्रभावतः ॥१३॥
यो मार्कंड इति ख्यातः प्रथमं परिकीर्तितः ॥
संभूतिस्तस्य संप्रोक्ता युष्माकं पापनाशिनी ॥१४॥
इंद्रद्युम्नं प्रवक्ष्यामि सांप्रतं मुनिसत्तमाः ॥
यद्वंशो यत्प्रभावश्च सर्वभूपालमानितः ॥१५ ॥.
इंद्रद्युम्नो महीपाल आसीत्पूर्वं द्विजोत्तमाः ॥
ब्राह्मण्यश्च शरण्यश्च साधुलोकप्रपालकः ॥
यज्वा दानपतिर्दक्षः सर्वभूतहिते रतः ॥१६ ॥
न दुर्भिक्षं न च व्याधिर्न च चौरकृतं भयम् ॥
तस्मिञ्छासति धर्मज्ञे आसील्लोकस्य कस्यचित् ॥१७॥
यथैव वर्षतो धारा यथा वा दिवि तारकाः ॥
गंगायां सिकता यद्वत्संख्यया परिवर्जिताः ॥१८॥
तद्वत्तेन कृता यज्ञाः सर्वे संपूर्णदक्षिणाः ॥
अग्निष्टोमोऽतिरात्रश्च उक्थः षोडशिकास्तथा ॥१९॥
सौत्रामण्याऽथ पशवश्चातुर्मास्या द्विजोत्तमाः ॥
वाजपेयाश्वमेधाश्च राजसूया विशेषतः ॥२०॥
पौण्डरीकास्तथैवान्ये श्रद्धापूतेन चेतसा ॥२१ ॥
तेन दानानि दत्तानि तीर्थेषु च विशेषतः ॥
मिष्टान्नानि द्विजेंद्राणां दक्षिणासहितानि च ॥२२॥
न तदस्ति धरापृष्ठे नगरं पत्तनं तथा ॥
तीर्थं वा यत्र नो तस्य विद्यते त्रिदशालयः ॥२३॥
तेन कन्यासहस्राणि अच्युतान्यर्बुदानि च ॥
ब्राहमणेभ्यः प्रदत्तानि ब्राह्मणानां धनार्थिनाम् ॥२४॥
दशमीदिवसे तस्य रात्रौ च गजपृष्ठिगः ॥
दुन्दुभिस्ताड्यमानस्तु बभ्राम सकलं पुरम् ॥२५॥
प्रत्यूषे वैष्णवं भावि पापहारि च वासरम् ॥
उपवासः प्रकर्त्तव्यो मुक्त्वा वृद्धं च बालकम् ॥
अन्यथा निग्रहिष्यामि भोजनं यः करिष्यति ॥२६॥
इंद्रद्युम्नः स राजर्षिस्तदा विष्णोः प्रसादतः ॥
तेनैव स्वशरीरेण ब्रह्मलोकं तदा गतः ॥
तत्र कल्पसहस्रांते स प्रोक्तो ब्रह्मणा स्वयम् ॥
इंद्रद्युम्न धरां गच्छ न स्थातव्यं त्वयाऽधुना ॥२८॥
इंद्रद्युम्न उवाच ॥
कस्माच्च्यावयसे ब्रह्मन्निजलोकाद्द्रुतं हि माम् ॥
अपापमपि देवेश तथा मे वद कारणम् ॥२९॥
श्रीब्रह्मोवाच ॥
तव कीर्तिसमुच्छेदः संजातोऽद्य धरातले ॥
यावत्कीर्तिर्धरापृष्ठे तावत्स्वर्गे वसेन्नरः ॥३०॥
एतस्मात्कारणाल्लोकाः स्वनामांकानि चक्रिरे ॥
वापीकूपतडागानि देवतायतनानि च ॥३१॥
तस्माद्गच्छ धरापृष्ठं स्वां कीर्तिं नूतनां कुरु ॥
यदि वांछसि लोकेऽस्मिन्मामके वसतिं चिरम् ॥३२॥
अथात्मानं स राजेंद्रो यावत्पश्यति तत्क्षणात् ॥
तावत्प्राप्तं धरापृष्ठे कांपिल्य नगरं प्रति ॥३३॥
अथ पप्रच्छ लोकान्स किमेतन्नगरं स्मृतम् ॥
कोऽयं देशः कोऽत्र राजा किं पुरं नगरं च किम् ॥३४॥
ते तमूचुः परं चैतत्कांपिल्यमिति विश्रुतम् ॥
आनर्तनामा देशोऽयं राजात्र पृथिवीजयः ॥३५॥
को भवान्किमिहायातः किंचित्कार्यं वदस्व नः ॥३६॥
इंद्रद्युम्न उवाच ॥ इंद्रद्युम्नो महीपालः पुरासीद्रोचके पुरे ॥
देशे वैजरुके पूर्वं स देशः क्व च तत्पुरम् ॥३७॥
जना ऊचुः ॥
न वयं तत्पुरं विद्मो न देशं न च भूपतिम् ॥
इन्द्रद्युम्नाभिधानं च यं त्वं पृच्छसि भद्रक ॥३८॥
इंद्रद्युम्न उवाच ॥
चिरायुरस्ति कोऽप्यत्र यस्तं वेत्ति महीपतिम् ॥
देशं वा तत्पुरं वापि तन्मे वदथ मा चिरम् ॥३९॥
जना ऊचुः ॥
सप्तकल्पस्मरो नाम मार्कंडेयो महामुनिः ॥
श्रूयते नैमिषारण्ये तं गत्वा पृच्छ वेत्स्यसि ॥४०॥
अथासौ सत्वरं गत्वा व्योममार्गेण तं मुनिम् ॥
पप्रच्छ प्रणिपत्योच्चैर्नैमिषारण्यमाश्रितम् ॥४१॥
इंद्रद्युम्नेति वै भूपस्त्वया दृष्टः श्रुतोऽथ वा ॥
चिरायुस्त्वं श्रुतोऽस्माभिः पृच्छामस्तेन सन्मुने ॥४२॥
श्रीमार्कंडेय उवाच ॥ सप्तकल्पांतरे भूपो न दृष्टो न मया श्रुतः ॥
इंद्रद्युम्नाभिधानोऽत्र तत्र किं नु वदामि ते ॥४३॥
तस्य तद्वचनं श्रुत्वा निराशः स महीपतिः ॥
वैराग्यं परमं गत्वा मरणे कृतनिश्चयः ॥४४॥
तेन चानीय दारूणि प्रज्वाल्य च हुताशनम् ॥
प्रवेष्टुकामः स प्रोक्त इन्द्रद्युम्नो महीपतिः ॥४५॥
त्वया चात्र न कर्तव्यमहं ते मित्रतां गतः ॥
नाशयिष्यामि ते मृत्युं यद्यपि स्यान्महत्तरम् ॥४६॥
नीरोगोऽसि सुभव्योऽसि कस्मान्मृत्युं प्रवांछसि ॥
वद मे कारणं मृत्योः प्रतीकारं करोमि ते ॥४७॥
इंद्रद्युम्न उवाच ॥
चिरायुर्मे भवान्प्रोक्तः कांपिल्यपुरवासिभिः ॥
तेनाहं तव पार्श्वेऽत्र समायातो महामुने ॥४८॥
इंद्रद्युम्नोद्भवां वार्तां त्वं वदिष्यसि सन्मुने ॥
मत्कीर्तिर्न परिज्ञाता ततो मृत्युं व्रजाम्यहम् ॥४९॥
सूत उवाच ॥
तस्य तं निश्चयं ज्ञात्वा दयावान्स मुनीश्वरः ॥
वृथाश्रमं च तं ज्ञात्वा दाक्षिण्यादिदमब्रवीत् ॥५०॥
यद्येवं मा विशाग्निं त्वमहं ज्ञास्यामि तं नृपम् ॥
नाडीजंघो बको नाम ममास्ति परमः सुहृत् ॥५१॥
चिरंतनश्च सोऽस्माकं नूनं ज्ञास्यति तं नृपम् ॥
तस्मादागच्छ गच्छावस्तस्य पार्श्वे हिमाचले ॥५२॥
साधूनां दर्शनं जातु न वृथा जायते क्वचित् ॥५३॥
एवमुक्त्वा ततस्तौ तु प्रस्थितौ मुनिपार्थिवौ ॥
व्योममार्गेण संतुष्टौ बकं प्रति हिमाचले ॥५४॥
बकोऽपि तं समालोक्य मार्कण्डेयं समागतम् ॥
संमुखः प्रययौ तुष्टः स्वागतेनाभ्यपूजयत् ॥५५॥
धन्योऽहं कृतपुण्योऽहं यस्य मे त्वत्समागमः ॥
भो भो ब्रह्मविदां श्रेष्ठ आतिथ्यं ते करोमि किम् ॥५६॥
श्रीमार्कंडेय उवाच ॥
मत्तोपि त्वं चिरायुश्च यतो मित्रं व्यवस्थितः ॥
इन्द्रद्युम्नो महीपालस्त्वया दृष्टः श्रुतोऽथवा ॥५७॥
एतस्य मम मित्रस्य तेन दृष्टेन कारणम् ॥
अन्यथा जायते मृत्युस्ततोऽहं त्वां समागतः ॥५८॥
बक उवाच ॥ सप्तद्विगुणितान्कल्पान्स्मराम्यहमसंशयम् ॥
न स्मरामि कथामेव इंद्रद्युम्नसमुद्भवाम् ॥५९॥
आस्तां हि दर्शनं तावत्सत्यमेतन्मयोदिम् ॥६०॥
इंद्रद्युम्न उवाच ॥
तपसः किं प्रभावोऽयं दानस्य नियमस्य च ॥
यदायुरीदृशं जातं बकत्वेऽपि वदस्व नः ॥६१॥
बक उवाच ॥ घृतकंबलमाहात्म्याद्देवदेवस्य शूलिनः ॥
ममायुरीदृशं जातं बकत्वं मुनिशापतः ॥६२॥
अहमासं पुरा बालो ब्राह्मणस्य निवेशने ॥
चमत्कारपुरे रम्ये पाराशर्यस्य धीमतः ॥६४॥
नाम्ना च विश्वरूपाख्यो नाम्ना ऽन्येन बक स्मृतः ॥
अतीव चपलत्वेन संयुक्तः पितृवल्लभः ॥६४॥
कस्यचित्त्वथ कालस्य संक्रांतौ मकरस्य भोः ॥
संप्राप्यातीव चापल्याल्लिंगं जागेश्वरं मया ॥
घृतकुम्भे परिक्षिप्तं पूजितं जनकेन यत् ॥६५॥
अथ रात्र्यां व्यतीतायां पृष्टोऽहं जनकेन च ॥
त्वया पुत्र परिक्षिप्तं नूनं जागेश्वरं क्वचित् ॥
तस्माद्वद प्रयच्छामि तेन ते भक्ष्यमुत्तमम् ॥६६॥
ततो मयाज्यकुम्भाच्च तस्मादादाय सत्वरम् ॥
भक्ष्यलौल्यात्पितुर्हस्ते विन्यस्तं घृतसंप्लुतम् ॥६७॥
कस्यचित्त्वथ कालस्य पंचत्वं च समागतः ॥
जातिस्मरस्ततो जातस्तत्प्रभावान्नृपालये ॥६८॥
आनर्ताधिपतेर्हर्म्ये नाम्ना ख्यातस्त्वहं बकः ॥
चमत्कारपुरे देवो हरः संस्थापितो मया ॥६९॥
तत्प्रभावेण विप्रेंद्र प्राप्तः पैतामहं पदम् ॥७०॥
ततो यानि धरापृष्ठे सुलिंगानि स्थितानि च ॥
घृतेनच्छादयाम्येव मकरस्थे दिवाकरे ॥
मया यत्स्थापितं लिंगं चमत्कारपुरे शुभम् ॥७१॥
आराधितं दिवा नक्तं राज्ये संस्थाप्य पुत्रकम् ॥
नियोज्य सर्वतो भृत्यान्धनवस्त्रसमन्वितान् ॥७२॥
ततःकालेन महता तुष्टो मे भगवाञ्छिवः ॥
मत्समीपं समासाद्य वाक्यमेतदुवाच सः ॥७३॥
परितुष्टोऽस्मि भद्रं ते तव पार्थिवसत्तम ॥
घृतकंबलदानेन संख्यया रहितेन च ॥७४॥
तस्माद्वरय भद्रं ते वरं यन्मनसि स्थितम् ॥
अदेयमपि दास्यामि यद्यपि स्यात्सुदुर्लभम् ॥७५॥
ततो मया हरः प्रोक्तो यदि तुष्टोऽसि मे प्रभो ॥.
कुरुष्व मां गणं देव नान्यत्किंचिद्वृणोम्यहम् ॥७६॥
श्रीभगवानुवाच ॥
बकैहि त्वं महाभाग कैलासं पर्वतोत्तमम् ॥
मया सार्धमनेनैव शरीरेण गणो भव ॥७७॥
अन्योऽपि मर्त्यलोकेत्र यः करिष्यति मानवः ॥
मकरस्थे रवौ मह्यं संक्रांतौ रजनीमुखे ॥
स नूनं मद्गणो भावी सकृत्कृत्वाऽथ कंबलम् ॥७८॥
त्वं पुनर्मामकं लिंगं समं कुर्वन्भविष्यसि ॥
धर्मसेनेति विख्यातो विकृत्या परिवर्जितः ॥७९॥
एवमुक्त्वा स भगवान्मामादाय ततः परम् ॥
कैलासं पर्वतं गत्वा गणकोटीशतामदात् ॥८०॥
कस्यचित्त्वथ कालस्य भ्रममाणो यदृच्छया ॥
गतोऽहं पर्वतश्रेष्ठं हिमवंतं महागिरिम् ॥८१ ॥.
यत्रास्ते गालवो नाम सदैव तपसि स्थितः ॥
तस्य भार्या विशालाक्षी सर्वलक्षणलक्षिता ॥८२॥
सप्तरक्ता त्रिगंभीरा गूढगुल्फा कृशोदरी ॥
तां दृष्ट्वा मन्मथाविष्टः संजातोऽहं मुनीश्वर ॥८३॥
चिंतितं च मया चित्ते कथमेतां हराम्यहम् ॥
तस्माच्छिष्यत्वमासाद्य भक्तिमस्य करोम्यहम् ॥८४॥
शुश्रूषानिरतो भूत्वा येन प्राप्नोमि भामिनीम् ॥८५॥
ततो बटुकरूपेण संप्राप्तो गालवो मया ॥
संसारस्य विरक्तोऽहं करिष्यामि मह्त्तपः ॥८६॥
दीक्षां यच्छ विभो मह्यं येन शिष्यो भवामि ते ॥८७॥
आहरिष्याम्यहं दर्भांस्तथा सुमनसः सदा ॥
समिधश्च सदैवाहं फलानि जलमेव च ॥८८॥
स मां विनयसंपन्नं ज्ञात्वा ब्राह्मणरूपिणम् ॥
ददौ दीक्षां ततो मह्यं शास्त्रदृष्टेन कर्मणा ॥८९॥
अथ दीक्षां समासाद्य तोषयामि दिनेदिने ॥
तं चैव तस्य पत्नीं तां यथोक्तपरिचर्यया ॥
अशुद्धेनापि चित्तेन छिद्रान्वेषणतत्परः ॥९०॥
अन्यस्मिन्दिवसे प्राप्ते सा स्त्रीधर्मसमन्विता ॥
उटजं दूरतस्त्यक्त्वा रात्रौ सुप्ता मनस्विनी ॥९१ ॥.
सोऽहं रूपं महत्कृत्वा तामादाय तपस्विनीम् ॥
सुखसुप्तां सुविश्रब्धां प्रस्थितो दक्षिणामुखः ॥९२॥
अथासौ संपरित्यक्ता संस्पर्शान्मम निद्रया ॥
चौररूपं परिज्ञाय मां शिष्यं प्ररुरोद ह ॥९३॥
साब्रवीच्च स्वभर्तारं गालवं मुनिसत्तमम् ॥
एष शिष्यो दुराचारो हरते मामितः प्रभो ॥९४॥
तस्माद्रक्ष महाभाग यावद्दूरं न गच्छति ॥९५॥
तच्छ्रुत्वा गालवः प्राह तिष्ठतिष्ठेति चासकृत् ॥
पापाचार सुदुष्टात्मन्गतिस्ते स्तंभिता मया ॥९६॥
तस्य वाक्यात्ततो मह्यं गतिस्तंभो व्यजायत ॥
यद्वल्लिखित एवाहं प्रतिष्ठामि सुनिश्चलः ॥९७॥
ततस्तेन च शप्तोऽहं गालवेन महात्मना ॥
वंचितोऽहं त्वया यस्माद्बको भव सुदुर्मते ॥९८॥
ततः पश्यामि चात्मानं सहसा बकरूपिणम् ॥
बकत्वेऽपि न मे नष्टा या स्मृतिः पूर्वसंभवा ॥९९ ॥
ततः साऽपि च तत्पत्नी सचैलं स्नानमाश्रिता ॥
मत्स्पर्शादुःखितांगी च शापाय समुपस्थिता ॥१००॥
यस्मात्पाप त्वया स्पृष्टा प्रसुप्ताहं रजस्वला ॥
बकधर्मं समाश्रित्य भर्त्ता मे वंचितस्त्वया ॥
अन्यरूपं समास्थाय तस्मात्सत्यं बको भव ॥१०१॥
एवं शप्तस्ततो द्वाभ्यां ताभ्यां वै दुःखसंयुतः ॥
चरणाभ्यां प्रलग्नस्तु गालवस्य महात्मनः ॥१०२॥
गणोऽहं देवदेवस्य त्रिनेत्रस्य महात्मनः ॥
पालकेति च विख्यातो गणकोटिप्रभुः स्थितः ॥१०३॥
सोऽहमत्र समायातः प्रभोः कार्येण केनचित् ॥
तव भार्यां समालोक्य कामदेववशं गतः ॥१०४॥
क्षमापराधं त्वं मह्यमेवं ज्ञात्वा मुनीश्वर ॥
दुर्विनीतः श्रियं प्राप्य विद्यामैश्वर्यमेव च ॥
न तिष्ठति चिरं स्थाने यथाहं मदगर्वितः ॥
शिष्यरूपं समास्थाय ततः प्राप्तस्तवांतिकम् ॥१०६॥
अस्या हरणहेतोश्च महासत्या मुनीश्वर ॥
तस्मात्कुरु प्रसादं मे दीनस्य प्रणतस्य च ॥१०७॥
अनुग्रहप्रदानेन क्षमा यस्मात्तपस्विनाम् ॥
कोकिलानां स्वरो रूपं नारीरूपं पतिव्रता ॥
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥१०८॥
सूत उवाच ॥
तस्य तत्कृपणं श्रुत्वा सोपि माहेश्वरो मुनिः ॥
ज्ञात्वा तं बांधवस्थाने दयां कृत्वाऽब्रवीद्वचः ॥१०९॥
सत्यवाक्तिष्ठते विप्रश्चमत्कारपुरे शुभे ॥११०॥
भर्त्तृयज्ञ इति ख्यातस्तदा तस्योपदेशतः ॥
बकत्वं यास्यते नूनं मम वाक्यादसंशयम् ॥१११॥
ततः पश्यामि चात्मानं बकत्वेन समाश्रितम् ॥११२॥
एवं मे दीर्घमायुष्यं संजातं शिवभक्तितः ॥
घृतकम्बलमाहात्म्याद्बकत्वं मुनिशापतः ॥११३॥
इंद्रद्युम्न उवाच ॥ एतदर्थं समानीतस्त्वत्सकाशं विहंगम ॥
इंद्रद्युम्नस्य वार्तार्थं मरणे कृतनिश्चयः ॥११४॥
सा त्वया नैव विज्ञाता ममाभाग्यैर्विहंगम ॥
सेवयिष्याम्यहं तस्मात्प्रदीप्तं हव्यवाहनम् ॥११५॥
प्रतिज्ञातं मया पूर्वमेतन्निश्चित्य चेतसि ॥
इंद्रद्युम्ने ह्यविज्ञाते संसेव्यः पावको मया ॥११६॥
तस्माद्देहि ममादेशं मार्कंडेयसमन्वितः ॥
प्रविशामि यथा वह्निं भ्रष्टकीर्तिरहं बक ॥११७॥
मार्कंडेय उवाच ॥
वेत्सि चान्यं नरं कञ्चिद्वयसा चात्मनोऽधिकम् ॥
पृच्छामि येन तं गत्वा कृते ह्यस्य महात्मनः ॥११८॥
श्रद्धया परया युक्तः संप्राप्तोऽयं मया सह ॥
तत्कथं त्यजति प्राणान्सहाये मयि संस्थिते ॥११९॥
अपरं च क्षमं वाक्यं यत्त्वां वच्मि विहंगम ॥
अयं दुःखेन संयुक्तः साधयिष्यति पावकम् ॥
अहमेनमनुद्धृत्य कस्माद्गच्छामि चाश्रमम् ॥१२०॥
सूत उवाच ॥
तयोस्तं निश्चयं ज्ञात्वा बकः परमदुर्मना ॥
सुचिरं चिंतयामास कथं स्यादेतयोः सुखम् ॥१२१॥
ततो राजा मुनिश्चैव दारूण्याहृत्य पावकम् ॥
प्रवेष्टुकामौ तौ दृष्ट्वा बको वचनमब्रवीत् ॥१२२॥
मम वाक्यं कुरु प्राज्ञ यदि जीवितुमिच्छसि ॥
ज्ञातः सोऽद्य मया व्यक्तमिन्द्रद्युम्नं नराधिपम् ॥१२३॥
यो ज्ञास्यति मम ज्येष्ठः सर्वशास्त्रविचक्षणः ॥
तत्त्वमेनं समादाय मरणे कृतनिश्चयम् ॥१२४॥
निश्वसन्तं यथा नागं बाष्पव्याकुललोचनम् ॥
समागच्छ मया सार्धं कैलासं पर्वतं प्रति ॥१२५॥
यत्रास्ति दयितो मह्यमुलूकश्चिरजीवभाक् ॥
स नूनं ज्ञास्यते तं हि मा वृथा मरणं कृथाः ॥१२६॥
ततोऽसौ तेन संयुक्तो बकेन सुमहात्मना ॥
मार्कंडेयेन संप्राप्तः कैलासं पर्वतोत्तमम् ॥१॥
सोऽपि दृष्ट्वा बकं प्राप्तं मित्रं परमसंमतम् ॥
समागच्छदसौ हृष्टः स्वागतेनाभ्यनन्दयत् ॥१२८॥
अथ तं चैव विश्रान्तं समालिङ्ग्य मुहुर्मुहुः ॥
प्राकारवर्णनामासौ वाक्यमेतदुवाच ह ॥१२९॥
स्वागतं ते द्विजश्रेष्ठ भूप सुस्वागतं च ते ॥
सख्येऽद्य यच्च ते कार्यं वदागमनकारणम् ॥१३०॥
कावेतौ पुरुषौ प्राप्तौ त्वया सार्धं ममांतिकम् ॥
दिव्यरूपौ महाभागौ तेजसा परिवारितौ ॥१३१॥
बक उवाच ॥
एष मार्कंडसंज्ञोऽत्र प्रसिद्धो भुवनत्रये ॥
महेश्वरप्रसादेन संसिद्धिं परमां गतः ॥
द्वितीयोऽसौ सुहृच्चास्य कश्चिन्नो वेद्मि तत्त्वतः ॥
मार्कंडेन समायातः सुहृदा व ममांतिकम् ॥१३२॥
यदि जानासि तं भूपमिन्द्रद्युम्नं महामते ॥
तत्त्वं कीर्तय येनासौ मरणाद्विनिवर्तते ॥१३५॥
चिरायुस्त्वं मया ज्ञातो ह्यतः प्राप्तोऽस्मि तेंऽतिकम् ॥१३६॥
उलूक उवाच ॥
अष्टाविंशत्प्रमाणेन कल्पा जातस्य मे स्थिताः ॥
न दृष्टो न श्रुतः कश्चिदिंद्रद्युम्नो महीपतिः ॥१३७॥
इंद्रद्युम्न उवाच ॥
तव कस्मादुलूकत्वं शीघ्रं तन्मे प्रकीर्तय ॥
एतन्मे कौतुकं भावि यत्ते ह्यायुरनन्तकम् ॥
उलूकत्वं च संजातं रौद्रं लोकविगर्हितम् ॥१३८॥
उलूक उवाच ॥
शृणु तेऽहं प्रवक्ष्यामि दीर्घायुर्मे यथा स्थितम् ॥
महेश्वरप्रसादेन बिल्वपत्रार्चनान्मया ॥
उलूकत्वं मया प्राप्तं भृगोः शापान्महात्मनः ॥१३९॥
अहमासं पुरा विप्रः सर्वविद्यासु पारगः ॥
चमत्कारपुरे श्रेष्ठे नाम्ना ख्यातस्तु घंटकः ॥
ब्रह्मचारी दमोपेतो हरपूजार्चने रतः ॥
अखंडितैर्बिल्वपत्रैरग्रजातैस्त्रिपत्रकैः ॥
त्रिकालं पूजितः शंभुर्लक्षमात्रैः सदा मया ॥१४१॥
ततो वर्षसह्स्रांते तुष्टो मे भगवान्हरः ॥
प्रोवाच दर्शनं गत्वा मेघगंभीरया गिरा ॥१४२॥
अहं तुष्टोऽस्मि ते वत्स वरं वरय सुव्रत ॥
अखंडितैर्बिल्वपत्रैस्त्रिकाले यत्त्वयार्चितः ॥१४३॥
बिल्वस्य प्रसवाग्रेण त्रिपत्रेण प्रजायते ॥
एकेनापि यथातुष्टिस्तथान्येषां न कोटिभिः ॥१४४॥
पुष्पाणामपि भद्रं ते सुगंधानामपि ध्रुवम् ॥
सखे मया प्रणम्योच्चैः स प्रोक्तः शशिशेखरः ॥
यदि तुष्टोसि मे देव यदि देयो वरो मम ॥
तन्मां कुरु जगन्नाथ जरामरणवर्जितम् ॥१४६॥
स तथेति प्रतिज्ञाय महादेवो महेश्वरः ॥
कैलासं प्रति देवेशः क्षणाच्चादर्शनं गतः ॥१४७॥
ततोहं परितुष्टोथ वरं प्राप्य महेश्वरात् ॥
कृतकृत्यमिवात्मानं चिंतयामि प्रहर्षितः ॥१४८॥
एतस्मिन्नेव काले तु भार्गवो मुनिसत्तमः ॥
कुशलः सर्वशास्त्रेषु वेदवेदांग पारगः ॥१४९॥
तस्य भार्याऽभवत्साध्वी नाम्ना ख्याता सुदर्शना ॥
प्राणेभ्योऽपि प्रिया तस्य गालवस्य मुनेः सुता ॥१५०॥
तस्य कन्या समभवद्रूपेणाप्रतिमा भुवि ॥
सा मया सहसा दृष्टा क्रीडमाना यथेच्छया ॥१५१॥
मध्यक्षामा सुकेशी च बिंबोष्ठी दीर्घलोचना ॥
तामहं वीक्षयित्वा तु कामदेववशं गतः ॥१५२॥
ततः पृष्टा मया कस्य कन्येयं चारुलोचना ॥
विभक्तसर्वावयवा देवकन्येव राजते ॥१५३॥
सखीभिः कीर्तिता मह्यं भार्गवस्य मुनेः सुता ॥
एषा चाद्यापि कन्यात्वे वर्तते चारुहासिनी ॥१५४॥
ततोऽहं भार्गवं गत्वा विनयेन समन्वितः ॥
ययाचे कन्यकां ता च कृतांजलिपुटः स्थितः ॥१५५ ॥
सवर्णं मां परिज्ञाय सोऽपि भार्गवनंदनः ॥
दत्तवांस्तां महाभाग विरूपस्यापि कन्यकाम् ॥१५६॥
अथ सा कन्यका ज्ञात्वा पित्रा दत्तास्मि धर्मतः ॥
विरूपाय ततो गत्वा मातरं वाक्यमब्रवीत् ॥५७॥
सुलज्जा साऽतिदुःखार्ता पश्यांब जनकेन च ॥
विरूपाय प्रदत्तास्मि नाहं जीवितुमुत्सहे ॥१५८॥
विषं वा भक्षयिष्यामि प्रवेक्ष्यामि हुताशनम् ॥
तस्यास्तद्वचनं श्रुत्वा निषिद्धः स द्विजस्तया ॥१५९॥
कस्मान्नाथ प्रदत्तासौ विरूपाय त्वया विभो ॥
कन्यकेयं सुरूपाढ्या सर्वलक्षणसंयुता ॥१६०॥
एतच्छ्रुत्वा तु वचनं भार्गवो मुनिसत्तमः ॥
ततस्तां गर्हयित्वासौ धिङ्नारी पुरुषायते ॥१६१॥
अनेन प्रार्थिता कन्या मया चास्मै प्रदीयते ॥
तत्किं निषेधयसि मां दीयमानां सुतामिमाम् ॥१६२॥
इत्युक्त्वा स प्रसुष्वाप पत्न्याथ कन्यया समम् ॥१६३॥
ततोऽर्द्धरात्रे चागत्य मया सुप्ता च भार्गवी ॥
हृत्वा स्वभवने नीता निशि सुप्ते जने तदा ॥१६४॥
नियुक्ता कामधर्मेण ह्यनिच्छंती बलान्मया ॥
विप्रः प्रातर्जजागार पिता तस्यास्ततः परम् ॥१६५॥
क्वासौ सा दुहिता केन हृता नष्टा मदीयिका ॥
अथासौ वीक्षितुं बाह्ये बभ्राम स्ववनांतिकम् ॥१६६॥
पदसंहतिमार्गेण मुनिभिर्बहुभिर्वृतः ॥
तेन दृष्टाऽथ सा कन्या कृतकौतुकमंगला ॥१६७॥
रुदंती सस्वनं तत्र लज्जमाना ह्यधोमुखी ॥
ततः कोपपरीतात्मा मां प्रोवाच स भार्गवः ॥१६८॥
निशाचरस्य धर्मेण यस्मादूढा सुता मम ॥
निशाचरो भवानस्तु कर्मणानेन सांप्रतम् ॥१६९॥
घंटक उवाच ॥
निर्दोषं मां द्विजश्रेष्ठ कस्मात्त्वं शपसि द्रुतम् ॥
त्वयैषा मे स्वयं दत्ता तेन रात्रौ हृता मया ॥१७०॥
यो दत्वा कन्यकां पूर्वं पश्चाद्यच्छेन्न दुर्मतिः ॥
स याति नरकं घोरं यावदाभूतसंप्लवम् ॥१७१॥
अथासौ चिंतयामास सत्यमेतेन जल्पितम् ॥
पश्चात्तापसमोपेतो वाक्यमेतदुवाच ह ॥
सत्यमेतत्त्वया प्रोक्तं न मे वचनमन्यथा ॥
उलूकरूपसंयुक्तो भविष्यसि न संशयः ॥१७३॥
उत्पत्स्यते यदा चात्र भर्तृयज्ञो महामुनिः ॥
तस्योपदेशमासाद्य भूयः प्राप्स्यसि स्वां तनुम् ॥१७४॥
ततः कौशिकरूपं तु पश्याम्यात्मानमेव च ॥
तथापि न स्मृतिर्नष्टा मम या पूर्वसंभवा ॥१७५॥
अथ या तत्सुता चोढा मया तस्मिन्गिरौ तदा ॥
सापि मां संनिरीक्ष्याथ तद्रूपं दुःखसंयुता ॥
प्रविष्टा हव्यवाहं सा विधवात्वमनिच्छती ॥१७६॥
एवं मे कौशिकत्वं हि संजातं तु महाद्युते ॥
भार्गवस्य तु शापेन कन्यार्थे यत्तवोदितम् ॥१७७॥
अखंडबिल्वपत्रेण पूजितो यन्महेश्वरः ॥
चिरायुस्तेनसंजातं सत्यमेतन्मयोदितम् ॥१७८॥
सत्यं कथय यत्कृत्यं गृहायातस्य किं तव ॥
प्रकरोमि महाभाग यद्यपि स्यात्सुदुर्लभम् ॥१७९॥
इन्द्रद्युम्न उवाच ॥
इन्द्रद्युम्नस्य ज्ञानाय प्राप्तोऽहं यत्तवांतिकम् ॥
नाडीजंघेन चानीतो मरणे कृतनिश्चयः ॥१८०॥
यदि नो ज्ञास्यति भवांस्तं कीर्त्या च कुलेन च ॥
प्रविशामि ततो नूनं प्रदीप्तं हव्यवाहनम् ॥१८१॥
नो चेत्कीर्तय मे कञ्चिदन्यं तु चिरजीविनम् ॥
पृच्छामि तेन तं गत्वा येन वेत्ति न वा च सः ॥१८२॥
बक उवाच ॥
युक्तमुक्तमनेनाद्य तत्कुरुष्व वदास्य भोः ॥
यदि जानासि कंचित्वमात्मनश्चिरजीविनम् ॥१८३॥
नो चेदहमपि क्षिप्रं प्रविशामि हुताशनम् ॥
मार्कंडेनापि सहितः सांप्रतं तव पश्यतः ॥१८४॥
एवम् ज्ञात्वा महाभाग चिन्तयस्व चिरंतनम् ॥
कंचिद्भूमितलेऽन्यत्र यतस्त्वं चिरजीवधृक् ॥१८५॥
आशया परया प्राप्तस्तवाहं किल मंदिरे ॥
पुमानेष विशेषेण मार्कंडेयः प्रियो मम ॥१८६॥
संत्यत्र पर्वतश्रेष्ठाः शतशोऽथ सहस्रशः ॥
येषु सन्ति महाभागास्तापसाश्चिरजीविनः ॥
नान्यथा जीवितं चास्य कथंचित्संभविष्यति ॥१८७॥
इंद्रद्युम्नस्य राजर्षेर्हितं परमकं भवेत् ॥
तथावयोर्द्वयोश्चापि तस्माच्चिंतय सत्वरम् ॥१८८॥
तस्य तं निश्चयं ज्ञात्वा मरणार्थं महीपतेः ॥
स उलूकः कृपां गत्वा ततो वचनमब्रवीत् ॥१८९॥
यद्येवं तु महाभाग मर्तुकामोऽसि सांप्रतम् ॥
तदागच्छ मया सार्धं गन्धमादनपर्वतम् ॥१९०॥
तत्र संतिष्ठते गृध्रः स च मे परमः सुहृत् ॥
चिरंतनस्तथा सम्यक्स ते ज्ञास्यति तं नृपम् ॥
कथयिष्यत्यसंदिग्धं मम वाक्यादसंशयम् ॥१९१॥
तस्य तद्वचनं श्रुत्वा मार्कंडेयादिभिस्त्रिभिः ॥
प्रोक्तः सर्वैर्महाभाग मा त्वं प्रविश पावकम् ॥१९२॥
वयं यास्यामहे सर्वे त्वया सार्धं च तत्र हि ॥
कदाचित्सोऽपि जानाति इंद्रद्युम्नं महीपतिम् ॥१९३॥
तेषां तद्वचनं श्रुत्वा आशया परया युतः ॥
स राजा सह तैः सर्वैः प्रययौ गंधमादनम् ॥१९४॥
गृध्रराजोऽपि तान्दृष्ट्वा सर्वानेव कृतांजलिः ॥
उलूकं पुरतो दृष्ट्वा प्रहृष्टः सन्मुखो ययौ ॥१९५॥
ततोऽब्रवीत्प्रहृष्टात्मा स्वागतं ते द्विजोत्तम ॥
चिरकालात्प्रदृष्टोऽसि क एतेऽन्येऽत्र ये स्थिताः ॥१९६॥
उलूक उवाच ॥
एष मे परमं मित्रं नाडीजंघो बकः स्मृतः ॥
एतस्यापि तु मार्कण्डः संस्थितः परमः सुहृत् ॥१९७॥
असौ त्रैलोक्यविख्यातः सप्तकल्पस्मरो भुवि ॥
एतस्यापि सुहृत्कश्चिन्नैनं जानामि सत्वरम् ॥१९८॥
म्रियमाणो मया ह्येष समानी तस्तवांतिकम् ॥
अयं जीवति विज्ञात इंद्रद्युम्ने नरेश्वरे ॥
नो चेत्प्रविशति क्षिप्रं प्रदीप्तं हव्यवाहनम् ॥१९९॥
स त्वं जानासि चेद्ब्रूहि इन्द्रद्युम्नं महीपतिम् ॥
चिरंतनो मयापि त्वं तेन प्रष्टुं समागतः ॥२००॥
गृध्र उवाच ॥
इन्द्रद्युम्नेति विख्यातं राजानं न स्मराम्यहम् ॥
न दृष्टो न श्रुतश्चापि इन्द्रद्युम्नो महीपतिः ॥२०१॥
तस्य तद्वचनं श्रुत्वा सोऽपि राजा सुदुर्मनाः ॥
मनसा चिन्तयामास मरणे कृतनिश्चयः ॥२०२॥
ततस्तु कौतुकाविष्टस्तं पप्रच्छ द्विजोत्तमम् ॥
कर्मणा केन संप्राप्तमायुष्यं चेदृशं वद ॥२०३॥
ततः संभावयिष्यामि श्रुत्वा तेऽहं विभावसुम् ॥२०४॥
गृध्र उवाच ॥ अहमासं चमत्कारपुरे मर्कटकः किल ॥
उपत्यकायां तत्रैव रक्तशृंगस्य भूभृतः ॥२०५॥
तत्रैवास्ति महच्छंभोर्मंदिरं मंदरोपमम् ॥
चित्रेश्वराभिधानं च सर्वपातकनाशनम् ॥२०६॥
वसंते तत्र संप्राप्ते पौरजानपदैस्तथा ॥
आगत्य चैव सुमहानुत्सवो विहितोऽभवत् ॥२०७॥
लिंगस्य सविधै रम्ये सर्वर्तुफलितद्रुमे ॥
कानने कामिनीलोककांते जनमनोहरे ॥
लिंगमारोपितं चारु तरोरांदोलके मुदा ॥२०८॥
कृत्वा दमनकेनार्चां स्थाप्यांदोले सुयंत्रिते ॥
ययुस्ते स्वगृहं पश्चादर्चयित्वा त्रिलोचनम् ॥२०९॥
ततोऽहं रजनीवक्त्रे तां दोलां सुमनोहराम् ॥
कौतुकाविष्टहृदयो दोलयामि मुहुर्मुहुः ॥२१०॥
एवं संदोलयानस्य मम प्राप्ता नरास्तदा ॥
कैश्चित्तैस्त्रासितो हत्वा लगुडैः सर्वतोदिशम् ॥२११॥
ततः पंचत्वमापन्नस्तत्रैवायतने द्रुतम् ॥
ततो जातिस्मरो भूत्वा संजातो नृपमंदिरे ॥२१२॥
कोटीश्वरस्यविख्यातो नाम्ना चैव कुशध्वजः ॥
पितृपैतामहं राज्यं मया प्राप्तं ततः क्रमात् ॥२१३॥
कोटीशे समनुप्राप्ते परलोकं स्वकर्मणा ॥
जागेश्वरं महाभागं दोलयामि यथेच्छया ॥२१४॥
शिवसिद्धांतजैर्मंत्रैर्गुरुणा संनिवेदितैः ॥
ततः कालेन महता तुष्टो देवो हरो मम ॥
भवतो वरदश्चास्मि वाक्यमेतदुवाच ह ॥२१५॥
कुशध्वज प्रतुष्टोऽस्मि श्रद्धया परया तव ॥
वरं वृणीष्व भद्रं ते यः सदा मनसि स्थितः ॥२१६॥
ततो मया प्रणम्योच्चैः स प्रोक्तो भगवान्हरः ॥२१७॥
यदि तुष्टोसि मे देव तन्मां कुरु निजं गणम् ॥
त्रैलोक्यराज्यमपि मे नान्यत्संप्रति रोचते ॥२१८॥
एवमुक्तो मया देवो विमाने मां निधाय सः ॥
शिवलोकं महापुण्यं सहसा मां समानयत् ॥२१९॥
ततः प्रसादतश्चाहं भवान्याश्च हरस्य च ॥
क्रीडामि स्वेच्छया तत्र गणमध्ये व्यवस्थितः ॥२२०॥
कस्यचित्त्वथ कालस्य विमानवरमाश्रितः ॥
स्वेच्छयाभ्रममाणस्तु प्राप्तोऽत्रैव महागिरौ ॥२२१॥
वसंतसमये प्राप्ते प्रवृत्ते दक्षिणानिले ॥
अग्निवेश्यसुता दृष्टा विवस्त्रा जलम ध्यगा ॥२२२॥
आलिभिर्बहुभिर्युक्ता क्रीडमाना यथेच्छया ॥
मुष्टिग्राह्या तु मध्ये सा बिंबोष्ठी वारिजेक्षणा ॥२२३॥
बिल्वस्तनी शशांकास्या सर्वलक्षणलक्षिता ॥
ततोऽहं मन्मथाविष्टः समभूवं हि तत्क्षणात् ॥२२४॥
अवतीर्य विमानाग्र्याद्गृहीताथ करे मया ॥
प्रकुर्वाणाथ करुणं पक्षिणीकुररी यथा ॥२२५॥
ततः कन्या मुनींद्राणां याः स्थितास्तत्र वारिणि ॥
रुदंत्यः संप्रयातास्ता अग्निवेश्यस्य संनिधौ ॥२२६॥
नीयते त्वत्सुता ब्रह्मन्विमानवरमाश्रिता ॥
वैमानिकेन केनापि क्रन्दमाना निरर्गलम् ॥२॥
तच्छ्रुत्वा कुपितः सोऽथ व्योममार्गावलोकनः ॥
स्वाश्रमात्संप्रयातः स भर्त्समानो मुहुर्मुहुः ॥२२९॥
तिष्ठतिष्ठेति च प्रोच्य स्तंभयामास सर्वतः ॥
तपसोग्रेण विप्रस्य विमानं मम संस्थितम् ॥२२९॥
अब्रवीच्च ततो मां स कोपेन महताऽन्वितः ॥
यस्मात्पाप त्वया कन्या क्रीडती विहृताधुना ॥२३०॥
अकामा मांसपेशीव यथा गृध्रेण दुर्मते ॥
तस्माद्गृध्रो भवत्वाशु मम वाक्यादसंशयम् ॥२३१॥
एवमुक्तस्ततस्तेन लज्जयाऽहं परिप्लुतः ॥
निवेद्य कन्यकां तस्मै प्रणिपत्य मुहुर्मुहुः ॥२३२॥
ततः प्रोक्तो मया विप्रस्त्वग्निवेश्यो महातपाः ॥
न मया ते सुता ज्ञाता न कोपयितुमर्हसि ॥२३३॥
गृध्रत्वं मे यथा न स्यात्तथाकुरु मुनीश्वर ॥२३४॥
ततोऽहं तेन च प्रोक्तो न मिथ्यावचनं मम ॥
कथंचिज्जायते तस्माद्गृध्रत्वं प्रभविष्यति ॥२३५॥
आनर्तस्योपदेशेन यदा यास्यसि भोऽधम ॥
भर्तृयज्ञं महाभागमुपदेशकृते तदा ॥२३६॥
तस्माच्च निष्कृतिं प्राप्य गृध्रत्वं ते प्रयास्यति ॥
स मयाऽन्वेषमाणेन न दृष्टो नैव च श्रुतः  ॥
निर्विण्णो गृध्रभावेन शापांतो न च मेऽभवत् ॥२३७॥
गृध्र उवाच ॥
एतत्ते सर्वमाख्यातं गृधत्वस्य च कारणम् ॥
आयुष्यं च यथा जातं मम संख्याविवर्जितम् ॥२३८॥
इन्द्रद्युम्न उवाच ॥
अनुज्ञां देहि मे शीघ्रं प्रविशामि हुताशनम् ॥
येन वैराग्यमापन्नो न हि जीवितुमुत्सहे ॥२३९॥
एवमुक्तः स तेनाथ चिंतयामास चेतसि ॥
ममांतिकं समायात एवं मित्रसमन्वितः ॥
तत्करोमि यथाशक्त्या स्वोपकारं सुदुर्लभम् ॥२४॥
ततः प्रोवाच तं प्रीत्या दाक्षिण्यं परमं गतः ॥
मा साधय चाग्निं भोः शृणु तावद्वचो मम ॥२४१॥
अहं ते कीर्तयिष्यामि मत्तो योऽपि चिरंतनः ॥२४२॥
यो ज्ञास्यति न संदेह इंद्रद्युम्नं महीपतिम् ॥२४२॥
तदागच्छ मया सार्धं तत्समीपं महात्मनः ॥
सहायैः सहितः सर्वैर्मया सार्धं तथैव च ॥२४३॥
 ॥ इंद्रद्युम्न उवाच ॥
कस्तवाप्यधिकोऽप्यस्ति जीवितव्येन सद्द्विज ॥
एतन्मे कौतुकं भूरि तस्माद्वद महामते ॥२४४॥
गृध्र उवाच ॥
अस्ति मंथरकोनाम कमठश्चिरजीवितः ॥
मानसे सरसि ख्यात इन्द्रद्युम्नं स वेत्स्यति ॥२४५॥
तस्य तद्वचनं श्रुत्वा मार्कंडाद्याश्च ते त्रयः ॥
तमूचुः पार्थिवश्रेष्ठं मरणे कृतनिश्चयम् ॥२४६॥
युक्तमुक्तं महाभाग गृधराजेन धीमता ॥
तत्र यास्यामहे सर्वे यत्रासौ कमठः स्थितः ॥२४७॥
अनिर्वेदः श्रियो मूलं यतः शंसंति पंडिताः ॥
नीतिशास्त्रविदः सर्वे तस्मादागच्छ गम्यताम् ॥२४८॥
 ॥ सूत उवाच ॥
तेषां तद्वचनं श्रुत्वाकृच्छ्रान्निर्वर्त्य पार्थिवः ॥
मरणाद्ब्राह्मणश्रेष्ठा वैराग्यं परमं गतः ॥२४९॥
अथ ते प्रस्थिताः सर्वे गंधमादनपर्वतात् ॥
पंचापि च समादिश्य मानसं सर उत्तमम् ॥
अथ प्राप्ताः क्रमेणैव गच्छमाना विहायसा ॥२५०॥
मानसं तत्सरो रम्यं कूर्मस्तोयाद्विनिर्गतः ॥
निदाघे सेवमानस्तु संतिष्ठति यदृच्छया ॥२५१॥
स च तांश्चतुरो दृष्ट्वा सुचिरं च निरीक्ष्य तान् ॥
परिज्ञाय ततः सर्वान्प्रनष्टः सलिलं प्रति ॥२५२॥
अथ तं कौशिकः प्राह गच्छमानं पराङ्मुखम् ॥
भोभो मित्राय मां दृष्ट्वा संजातोऽसि पराङ्मुखः ॥२५३॥
सुनीचोऽपि गृहं प्राप्तो भवेत्पूज्य तमः सताम् ॥२५४॥
अथासौ तोयमध्यस्थः शिरोमात्रं बहिर्गतः ॥
प्रत्युवाचाथ तं गृध्रं विनयाद्द्विजसत्तमाः ॥२५५॥
नाहं पराङ्मुखो जात स्त्वां दृष्ट्वाऽनंतरावुभौ ॥
पंचमोऽयं समभ्येति यो युष्माकं महापुमान् ॥२५६॥
भयात्तस्य प्रणष्टोऽहमिंद्रद्युम्नस्य भूपतेः ॥
अनेन तु प्रदग्धा मे पुरा पृष्ठिर्मखाग्निना ॥
सततं यजमानेन रोचके सत्पुरोत्तमे ॥२५७॥
एतदीयं पुनः स्मृत्वा भयं मे सुमहत्स्थितम् ॥
इंद्रद्युम्नस्य राजर्षेः कीर्ति संश्रयणं महत् ॥२५८॥
इत्येवमुक्ते वचने कमठेन तदा दिवः ॥
देवदूतः समागच्छच्छासनात्परमेष्ठिनः ॥२५९॥
 ॥ देवदूत उवाच ॥
आगच्छागच्छ राजर्षे सांप्रतं ब्रह्मणोंऽतिकम् ॥
उक्तोऽहं ब्रह्मणा राजन्कीर्तिश्चास्य पृथग्विधा ॥२६०॥
यदा प्रकाशतां याति स्वल्पापि जगती तले ॥
तदाऽऽनेयो द्रुतं राजा मम लोके सुदुर्लभे [ ॥ २६१॥
तस्मादागच्छ गच्छामो विमानारोहणं कुरु ॥
नयामि येन तत्पार्श्वं ब्रह्मणोऽव्यक्तजन्मनः ॥२६२॥
 ॥इंद्रद्युम्न उवाच ॥
यद्येते सुहृदो मह्यं बककौशिककच्छपाः ॥
मार्कंडेयेन सहिता आगच्छंति मया सह ॥२६३॥
आगच्छामि त्वया सार्धं तदहं ब्रह्मणोंऽतिकम् ॥
अन्यथा नागमिष्यामि सत्यमेतन्मयोदितम् ॥२६४॥
 ॥ देवदूत उवाच ॥
एते हरगणाः सर्वे शापभ्रष्टा क्षितिं गताः ॥
शापांते हरपार्श्वे तु यो यास्यंत्यसंशयम् ॥२६५॥
तस्मादागच्छ गच्छामो मुक्त्वात्रैतान्द्रुतं नृप ॥
न चैषां रोचते स्वर्गो मुक्त्वा देवं महेश्वरम् ॥२६६॥
 ॥ इंद्रद्युम्न उवाच ॥
यद्येवं गच्छ ते भद्रं नाहं गंता त्रिविष्टपम् ॥
तथातथा यतिष्यामि भविष्यामि यथा गणः ॥२६७॥
तत्रस्थस्य ध्रुवं भावि नित्यं च पतनाद्भयम् ॥
एवमुक्तः स तेनाथ समादाय विमानकम् ॥२६८॥
ब्रह्मलोकं गतो दूतो वैलक्ष्यं परमं गतः ॥
इंद्रद्युम्नोपि प्रपच्छ तं कूर्मं विनयान्वितः ॥२६९॥
आख्याहि कूर्म स्वं कर्म यदीदृक्त्वं चिरंतनः  ॥
कर्मणा केन तत्प्राप्तं कूर्मत्वं शंस मे द्रुतम् ॥०॥
 ॥ कूर्म उवाच ॥
अहमासं पुरा विप्रो बालभावे व्यवस्थितः ॥
चमत्कारपुरे रम्ये शांडिल्यो नाम विश्रुतः ॥१॥
बालक्रीडासु सर्वासु क्रीडमानो यदृच्छया ॥
पक्वेष्टिकमयं शंभोः क्रीडता निर्मितं गृहम् ॥
तत्र जागेश्वरं लिंगं हृत्वाऽथ विनिवेशितम् ॥२॥
ततोऽहं भक्तिसंयुक्तः पूजयामि दिनेदिने ॥
क्रीडमानो विना मंत्रैः शिशुभिः परिवारितः ॥३॥
कस्यचित्त्वथ कालस्य मरणे समुपस्थिते  ॥
जातिस्मरो ह्यहं विप्रो जातो वै वैदिशे पुरे ॥४॥
ततो मेऽभ्यधिका जाता भक्तिर्देवं हरं प्रति ॥
कृत्त्वा भिक्षाटनं नित्यं याचयित्वा धनं बहु ॥६॥
कृत्वा प्रासादमात्रं तु लिंगं संस्थापितं मया ॥
पूजयामि ततो भक्त्या देवं पशुपतिं हरम् ॥६॥
ब्रह्मविद्यासमोपेतो भिक्षान्नकृतभोजनः ॥
ब्रह्मचर्यसमोपेतस्त्रिकालं च जपञ्छिवम् ॥७॥
ततस्तेन प्रभावेन संजा तोऽहं भवांतरे ॥
सार्वभौमो महीपालो जातिस्मरणसंयुतः ॥८॥
ततः संख्याविहीनाश्च प्रासादाः कारिता मया ॥
त्रिनेत्रस्य महाराज कैलास शिखरोपमाः ॥९॥
तथा निरूपिता पूजा बहुपुष्पसमुद्भवा ॥
नान्यत्किंचित्करोम्यत्र धर्म दानादिकं नृप ॥२८०॥
ततः कालेन महता तुष्टो मे शशिशेखरः ॥
ततः प्रोवाच राजर्षे प्रहसञ्छ्लक्ष्णया गिरा ॥२८१॥
जयदत्त प्रतुष्टोऽस्मि तव पार्थिवसत्तम ॥
भक्त्याऽनया द्रुतं ब्रूहि किं ते यच्छामि वांछितम् ॥२८२॥
प्रणिपत्य ततोऽष्टांगं स्तुत्वा चैव पृथिग्विधम् ॥
मया प्रोक्तो हरो राजन्कुरु मामजरामरम् ॥
स तथेति प्रतिज्ञाय गतोंऽतर्धानमेव हि ॥२८३॥
अप्रमेयगतिर्देवश्चतुर्दशजगत्पतिः ॥
ततोऽहं तुष्टिसंयुक्तो जरामरणवर्जितः ॥
विचरामि महीपृष्ठे स्वेच्छया शत्रु वर्जितः ॥२८४॥
ततः कालेन महता गतेन नृपसत्तम ॥
बहुकामाग्निसंतप्तः शिवभक्तिविवर्जितः ॥२८५॥
यांयां पश्यामि रूपाढ्यां परनारीं मनोरमाम् ॥
तांतां निरीक्ष्य सुचिरं धर्षयामि ततः परम् ॥२८६॥
धर्मराजभयत्यक्तः पार्थिवत्वं समाश्रितः ॥२८७॥
एतस्मिन्नंतरे राजन्मम पापेन कर्मणा ॥
हाहाकारस्ततो जातः समग्रे धरणीतले ॥२८८॥
एतस्मिन्नंतरे प्राप्तो धर्मराजः शिवांतिकम् ॥
अब्रवीत्प्रणिपत्योच्चैर्दुःखित स्तदनंतरम् ॥२८९॥
त्वया देव महीपालो जयदत्तो महीतले ॥
यो निर्मितः प्रतुष्टेन जरामरणवर्जितः ॥२९॥
स सतीनां सतीत्वं च बलान्नाशयते कुधीः ॥
सर्वो भूपभयाल्लोकः सर्वधर्मबहिष्कृतः ॥२९१॥
संजातो विबुधश्रेष्ठ न स्वभावात्कथंचन ॥
तस्यैकमपि मे नास्ति भयं सत्यं ब्रवीमि ते ॥२९२॥
तस्माद्वारय तं शीघ्रं यावद्धर्मो न नश्यति ॥
मर्त्यलोकादशेषेण सतीनां धर्षणेन च ॥२९३॥
एवमुक्तस्ततो देवः कोपेन महतान्वितः ॥
शशाप मां समानीय वेपमानं कृताञ्जलिम् ॥२९४॥
यस्माद्दुष्टसमाचार कृतं कर्म विगर्हितम् ॥
तस्मान्मच्छाप निर्दग्धः कमठो वै भविष्यसि ॥२९५॥
ततो मया सुदीनेन प्रार्थितः परमेश्वरः ॥
शापांतं मे कुरुष्वेश कुरुष्व च दयां मम ॥२९६॥
ततस्तेन पुनः प्रोक्तं कल्पांते षष्टिसंज्ञिते ॥
स्वशरीरं पुनः प्राप्य मद्गणस्त्वं भविष्यसि ॥२९७॥
एतस्मिन्नंतरे कूर्मः संजातोऽहं महीपते ॥
समुद्रसलिलं प्राप्य संस्थितो दुःखितोऽनिशम् ॥२९८॥
कस्यचित्त्वथकालस्य राजंस्त्वं भूतले स्थितः ॥
यजनार्थं समानीतः समुद्रसलिलस्त्वया ॥२९९॥
स्थापितो भूमिपृष्ठे तु मंत्रै संस्तंभितस्तथा ॥
ममोपरि ततो यज्ञाः कृताः शतसहस्रशः ॥३००॥
क्रियमाणैश्च यैर्दग्धा मम पृष्ठिः समंततः ॥
दह्यतोऽपि महाराज तेन यज्ञाग्निना तदा ॥
प्रसादनान्महेशस्य न मे प्राणात्ययो ऽभवत् ॥३०१॥
केवलं जायते दाहो यथा पापं पुरा कृतम् ॥
अनुभूतं च तत्सर्वं हरकोपादसंशयम् ॥३०२॥
अथ प्राप्ते दिवं चैव त्वयि पार्थिवसत्तम ॥
एकार्णवे तु संजाते जलपूर्णे धरातले ॥
संप्राप्तः प्लवमानस्तु ततोऽहं मानसं सरः ॥३०३॥
षड्पंचाशत्प्रमाणेन कल्पा मम च संस्थिताः ॥
चतुर्भिरपरैर्मोक्षः कूर्मत्वात्संभविष्यति ॥३०४॥
एतत्ते सर्वमाख्यातं दीर्घायुष्ट्वस्य कारणम् ॥
हरप्रसादकरणाद्बहुपुष्पार्चनाद्विभोः ॥३०५॥
कूर्मत्वं च यथा जातं कामदेवस्य कोपतः ॥
स त्वं वद महाभाग गृहायातस्य किं तव ॥
करोमि सांप्रतं कृत्यं शत्रोरपि हृदि स्थितम् ॥३०६॥
 त्वया मे सुचिरं कालं दग्धा पृष्ठिर्मखाग्निना ॥
अद्यापि च प्रपश्यामि तां ज्वलंतीमिव स्थिताम् ॥३०७॥
एतस्मात्कारणान्नष्टस्त्वां दृष्ट्वाहं महीपते ॥
कस्मात्त्वं न गतः स्वर्गं विमानेऽपि समागते ॥
एतस्मात्कारणाद्धर्मं प्रकुर्वंति नराधिपाः ॥३०८॥
 ॥ इन्द्रद्युम्न उवाच ॥
स्वर्गस्थाने च लोकानां नित्यं च पतना द्भयम् ॥
तन्न यास्याम्यहं तत्र यतिष्यामि विमुक्तये ॥३०९॥
स त्वं करोषि चेत्कृत्यं गृहायातस्य मे मखे ॥
चिरंतनं कथय मे यद्यस्ति तव सौहृदम् ॥३१०॥
 ॥ कूर्म उवाच ॥
लोमशो नाम विप्रर्षिः स मत्तोऽस्ति चिरंतनः ॥
श्रूयते स मया दृष्टो नदीतीरं समाश्रितः ॥३११॥
 ॥ इन्द्रद्युम्न उवाच ॥
तदागच्छत गच्छामो यतः सर्वे द्रुतं स्वयम् ॥
पृच्छामो बहुकालस्य जीवितस्य च कारणम् ॥३१२॥
अथ ते सहिताः पञ्च व्योममार्गेण संस्थिताः ॥
अथ ते ददृशुस्तत्र लोमशं च निराश्रयम् ॥३१३॥
स्वाध्यायनिरतं दांतं जपहोमपरायणम् ॥
सव्य हस्ते तृणौघेन छायार्थं विधृतेन च ॥३१४॥
दधतं चाक्षमालां च दक्षिणेन करेण हि ॥
ते तं दृष्ट्वा महात्मानं कृत्वा तस्य प्रदक्षिणाम् ॥
उपविष्टास्ततः सर्वे स्वागतेनाभिनन्दिताः ॥३१५॥
पृष्टास्तेन ततश्चैव के यूयं किमिहागताः ॥
विश्रब्धं कथ्यतां मह्यं येन सर्वं करोम्यहम् ॥३१६॥
 ॥ कूर्म उवाच ॥
मार्कंडो नाम विप्रर्षिः सप्तकल्पस्मरो ह्ययम् ॥
इन्द्रद्युम्नेन चानीतो भूभुजानेन सन्मुने ॥३१७॥
बकस्यास्य समीपे तु नाडीजंघस्य धीमतः ॥
चिरायुरिति विज्ञाय आत्मनश्चायुरुत्तमम् ॥
इन्द्रद्युम्नस्य वार्तार्थं द्विगुणायुषमात्मनः ॥३१८॥
अथ तेन न विज्ञातो यदा स पृथिवीपतिः ॥
तदा द्वावपि चायातावुलूकस्यास्य संनिधौ ॥३१९॥
द्विगुणास्तत्प्रमाणेन कल्पाश्चास्य महात्मनः ॥
वर्तंते नैव विज्ञातो नृपो ह्येतेन सद्द्विज ॥३२०॥
ततस्त्रयोऽपि चानीता गृध्रराजस्य चान्तिकम् ॥३२१॥
षट्पञ्चाशत्प्रमाणेन कल्पाश्चास्य महात्मनः ॥
वर्तन्ते नैव विज्ञातो नृपो ह्येतेन सद्द्विज ॥३२२॥
चत्वारोऽपि समानीता एतेनैव ममान्तिकम् ॥
चिरायुषं च मां ज्ञात्वा मित्रभावेन ते द्विज ॥३२३॥
मयाप्यसौ परिज्ञातो दूरादेव समागतः ॥
इन्द्रद्युम्नो ध्रुवं ह्येष दग्धा पृष्ठिः पुरा मम ॥३२४॥
येन यज्ञाग्निना मंत्रै स्तंभयित्वा क्षितेरधः ॥
ततोऽहं तद्भयान्नष्टो गृध्राद्यैश्च निवारितः ॥३२५॥
उपालंभैस्तु बहुभिः प्रणया ज्जलमाविशत् ॥
मयोक्तोऽथ स भूयोऽपि नाहं तव पराङ्मुखः ॥३२६॥
इन्द्रद्युम्नेन मे पृष्ठिर्येन दग्धा मखाग्निना ॥
एतस्मिन्नन्तरे स्वर्गाद्देवदूतो महामनाः ॥
विमानवरमारूढः प्राप्तश्चास्य महात्मनः ॥३॥
कीर्तिलोपाच्युतः स्वर्गादयमासीन्महीपतिः ॥
ततो विमानमायातमुक्तमात्रे मया दिवः ॥३२८॥
अथासौ न गतः स्वर्गं विनाऽस्माभिर्द्विजोत्तम ॥
मार्कंडेयं परित्यज्य तिर्यग्योनिगतैस्त्रिभिः ॥३२९॥
पृच्छतोऽस्य मया प्रोक्तमायुष्यं चात्मनः पुनः ॥
षण्णवतिप्रमाणेन कल्पा मे जीवतो गताः  ॥ ३३०॥
पृष्टोऽहं पूर्वमेवात्र संस्थितस्तव पार्श्वतः ॥
चिरंतनतमो ब्रूहि मया त्वं तु निवेदितः ॥३३१॥
एतस्मात्कारणात्प्राप्ता वयं सर्वे तवांतिकम् ॥
तस्माद्यत्पृच्छते भूप एष त्वां तत्प्रकीर्तय ॥३३२॥
 ॥ भर्तृयज्ञ उवाच ॥
लोमशोऽप्यथ तं प्राह विश्रब्धं पृच्छ पार्थिव ॥
अवश्यं कथयिष्यामि यन्मां त्वं परिपृच्छसि ॥३३३॥
 ॥ इंद्रद्युम्न उवाच ॥
कस्मात्त्वं ग्रीष्मकालेऽपि मध्यं प्राप्ते दिवाकरे ॥
निवासार्थं गृहं रम्यं किमर्थं न करिष्यसि ॥३३४॥
 ॥ लोमश उवाच ॥
कस्यार्थे क्रियते गेहमनित्यं जीवितं यतः ॥
यदि स्याच्छाश्वतो देहस्तदर्थं क्रियते च तत् ॥३३५॥
 ॥ इन्द्रद्युम्न उवाच ॥
सर्वेषामेव लोकानां चिरायुः श्रूयते भवान् ॥
तेनाहमपि संप्राप्तो भवद्दर्शनकाम्यया ॥३३६॥
 ॥ लोमश उवाच ॥
कल्पे कल्पे तु संप्राप्ते रोमकं मम नश्यति ॥
अभावे सर्वरोम्णां च ततो नाशो भविष्यति ॥३३७॥
पश्य त्वं मच्छरीरेऽस्मिन्प्रकाशं रोमवर्जितम् ॥
न करोमि गृहं तेन कारणेन महामते ॥३३८॥
 ॥ इन्द्रद्युम्न उवाच ॥
किं त्वया विहितं कर्म येनेदृग्जीवितं स्थितम् ॥
किं दानस्यप्रभावोऽयं तपसो नियमस्य वा ॥३३९॥
 ॥ लोमश उवाच ॥
अहमासं पुरा शूद्रो दरिद्रेण परिप्लुतः ॥
भ्रमामि मेदिनीपृष्ठ उदरस्य कृते सदा ॥३४॥
कर्मयोगेन महता संप्राप्तो हाटकेश्वरम् ॥
क्षुत्क्षामस्तु पिपासार्तो यत्रैतल्लिंगमुत्तमम् ॥
अवधूतं ततो लिंगं मया दृष्ट्वा स्वयंभु तत् ॥३४१॥
स्नापितं तोयमादाय शीतमेतत्सुनिर्मलम् ॥
ततस्तु कमलैरेतैर्मया पूजा विनिर्मिता ॥३४२॥
अथ पूजां विनिर्वर्त्य यावन्मार्गसमाश्रितः ॥ क्षु
त्क्षामकण्ठस्य ततः प्राणा नष्टास्तदा मम ॥३४३॥
अथाहं ब्राह्मणगृहे जातो जातिस्मरस्ततः ॥
सर्वं स्मरामि भूपाल देवदेवस्यपूजनात् ॥३४४॥
ततो मूकत्वमापन्नो नैव जल्पामि किंचन ॥
ईशान इति मे नाम पिता चक्रे प्रहर्षितः ॥३४५॥
ईशानेन यतो दत्तः पूर्वमाराधितेन च ॥
वैराग्यं परमं प्राप्तो इष्ट्वा संसारसंस्थितिम् ॥३४६॥
पिता मे बहुवात्सल्याद्भेषजानि प्रयोजयेत् ॥
वाचार्थं मंत्रवादांश्च तथा चैवोपयाचितम् ॥
ब्राह्मणान्पृच्छते नित्यं दिवारात्रिमतंद्रितः ॥३४७॥
ततो मे जायते हास्यं निजचित्ते नराधिप ॥
दृष्ट्वा संसारसंसक्तिं पितुर्मातुश्च भूरिशः ॥३४८॥
ततश्च यौवनं प्राप्तः क्रमेण नृपसत्तम ॥
यदा तदा निशि त्यक्त्वा तावुभौ चात्र संगतः ॥३४९॥
ततो हृष्टमना नित्यं पूजयामि समाहितः ॥
ईशानं परया भक्त्या संस्नाप्य सलिलेन च ॥३५॥
ब्राह्मणीतीर्थजातेन त्रिकालं नृपसत्तम ॥
शिलोंछवृत्तिमासाद्य प्राणयात्रां समाचरन् ॥
नीवारैर्बदरैः शाकैश्चिर्भटैः फलपत्रकैः ॥३५१॥
ततो मे भगवान्रुद्रः सर्वदेवेश्वरो हरः ॥
अब्रवीद्दर्शनं गत्वा मेघगम्भीरया गिरा ॥३५२॥
परितुष्टोऽस्मि ते वत्स वरं वरय सुवते ॥
अदेयमपि दास्यामि यद्यपि स्यात्सुदुर्लभम् ॥३५३॥
ततस्तं प्रणिपत्योच्चैः स्तुत्वा वाक्यैः पृथग्विधैः ॥
मया प्रोक्तं कुरु विभो जरामरण वर्जितम् ॥३५४॥
श्रीभगवानुवाच ॥ अमरत्वं यतो नास्ति मर्त्यलोकेऽत्र कर्हिचित् ॥
मर्यादां कुरु तस्मात्त्वं जीवितस्य स्वकस्य वै ॥३५५॥
ततो मे भगवानुक्तः कल्पांते समुपस्थिते ॥
रोम्ण एकस्य मे नाशो जायतां त्रिदशेश्वर ॥३५६॥
यदा च सर्वरोम्णां मे विनाशः संप्रजायते ॥
तदा मम गणत्वं च जायतां तावकं विभो ॥३५७॥
एवं भविष्यतीत्युक्तं परं लिंग सदा मम ॥
स्नाप्यं जलेन चैतेन ब्राह्मणीसंभवेन च ॥३९८॥
ब्रह्माद्यैः पूजनीय च त्रिकालं द्विजसत्तम ॥
ममकैवासरं यावत्तव चायुर्भविष्यति ॥३५९॥
अन्योऽपि यो नरो भक्त्या पूजयिष्यति मामिह ॥
स्नापयिष्यति सद्भक्त्या विपाप्मा स भविष्यति ॥३६०॥
नापमृत्युर्भवेत्तस्य कदाचिद्द्विजसत्तम ॥
सकृत्संपूजिते ऽप्येवं ब्रह्माद्यैर्मत्कलेवरे ॥३६१॥
सकृत्पिबति यस्तोयं ब्रह्मतीर्थसमुद्भवम् ॥
सर्वपापविशुद्धात्मा तत्क्षणाज्जायते हि सः ॥३६२॥
एवमुक्त्वाथ देवेशस्ततश्चादर्शनं गतः ॥३६३॥
अहं तु संस्थितश्चात्र ततः प्रभृति पार्थिव ॥
पूजयानश्च सद्भक्त्या लिंगमेतत्सदैव हि ॥३६४॥
एतस्मात्कारणाज्जातं ममायुरतिविस्तृतम् ॥
शंकरस्य प्रसादेन नान्यदस्तीह कारणम् ॥३६५॥
 ॥ इन्द्रद्युम्न उवाच ॥
अहमप्यर्चयिष्यामि लिंगमेत त्त्वया सह ॥
नान्यत्र वा गमिष्यामि ममैवं हृदि निश्चयः ॥३६६॥
 ॥ लोमश उवाच ॥
एवं कुरु महाभाग त्वमवाप्स्यसि वांछितम् ॥
हरभक्तस्य लोकस्य वांछितं नास्ति दुलर्भम् ॥३६७॥
नाडीजंघो गृहं यातु मार्कंडगृधकौशिकाः ॥
कच्छपेन समायुक्तस्त्वं हि तिष्ठ ममा श्रमे ॥३६८॥
ततः प्रोचुश्च ते सर्वे न वयं तु नरेश्वर ॥
त्वां विना संप्रयास्यामो भूय एव निजालयम्  ॥
लिंगमाराधयिष्यामो यदेतद्भवता र्चितम् ॥३६९॥
एवमुक्त्वा तु ते सर्वे लोमशस्य वराश्रमे ॥
तस्थुः संपूजयामासुस्त्रिकालं लिंगमेव तत् ॥३७०॥
संस्नाप्य ब्राह्मणीतोयैः पद्मा द्यैः पूजयंति च ॥३७१॥
कस्यचित्त्वथ कालस्य नारदो मुनिसत्तमः ॥
तीर्थयात्राप्रसंगेन संप्राप्तस्तत्र यत्र ते ॥३७२॥
अथ ? नारदं दृष्ट्वा कृत्वा चैवार्हणक्रियाम् ॥
विश्रांतं च ततो ज्ञात्वा पप्रच्छुर्विनयान्विताः ॥३७३॥
शापभ्रष्टा वयं सर्वे यतः संवर्तदर्शनात् ॥
बकाद्याश्चैव चत्वारः कूर्मांताश्च महामुने ॥३७४॥
न स विज्ञायते क्वापि कस्मिन्स्थाने व्यवस्थितः ॥
किंरूपः किंप्रमाणश्च किमाचारः क्व संस्थितः ॥३७५॥
स त्वं यदि विजानासि यत्र तं संस्थितं मुनिम् ॥
तद्वदस्व महाभाग न किंचित्तेऽस्त्यगोचरम् ॥३७६॥
 ॥ श्रीनारद उवाच ॥
अहं जानामि तं सम्यक्संवर्तं मुनिसत्तमम् ॥
गुप्ताचारेण तिष्ठंतं नान्यो वेत्ति कथंचनम् ॥३७७॥
वाराणास्यां स्थितो नित्यं सोऽवधूतो महामुनिः ॥
विवस्त्रो मलदिग्धांगः सदारण्यं समाश्रितः ॥३७८॥
भिक्षार्थं कुतपे काले समागच्छति तां पुरीम् ॥
पाणिपात्रकृताहारो गृहैः कैश्चित्सदैव हि ॥३७९॥
भूयोपि याति सायाह्ने किंचिदेव वनांतरम् ॥
तस्यां पुर्यां तथारूपाः शतशोऽथ सहस्रशः ॥३८०॥
तिष्ठंति तापसश्रेष्ठास्तस्य वक्ष्यामि लक्षणम् ॥
भवद्भिः स यथा ज्ञेयो मम वाक्यादसंशयम् ॥३८१॥
वाराणस्याः प्रतोल्यां च स्थापनीयं सुयत्नतः ः ॥
कुणपं चैव गुप्तं च यथा नो वेत्ति कश्चन ॥३८२॥
यास्यंति तापसाः सर्वे तमतिक्रम्य भूरिशः ॥
संवर्तो दिव्यदृष्टिस्तु शल्यं नातिक्रमिष्यति ॥३८३॥
निवर्तनं तु यश्चक्रे भूभागात्कुणपाश्रयात् ॥
स संवर्तः परिज्ञेयः प्रष्टव्यश्च ततः परम् ॥३८४॥
यदि पृच्छति केनाहं भवतां संनिवेदितः ॥
नारदेन ततो वाच्यं स त्वां जानाति वै सदा ॥३८५॥
यदि पृच्छति भूयः स नारदः क्व स तिष्ठति ॥३८६॥
ततो वाच्यो निवेद्य त्वां प्रतिष्टो हव्यवाहनम् ॥३८७॥
तच्छ्रुत्वा नारदवचः सर्वे वै लोमशादयः ॥
वाराणसीं पुरीं प्राप्तास्तस्य दर्शनलालसाः ॥३८८॥
प्रतोल्यां कुणपं स्थाप्य गुप्तं लोकैरलक्षितम् ॥
स्वयं चैव स्थिता दूरं प्रेक्षमाणाः प्रयत्नतः ॥३८९॥
ततस्तु कुतपे काले संवर्तस्तु समागतः ॥
यादृग्रूपः पुरा प्रोक्तो नारदेन महात्मना ॥३९०॥
स दृष्ट्वा कुणपं तत्र दिव्यदृष्ट्या महामुनिः ॥
निवृत्तः क्षुत्पिपासार्तो नैव शल्यमलंघयत् ॥३९१॥
अथ ते तं समुद्दिश्य पृष्ठतोऽनुययुस्तदा ॥
तिष्ठतिष्ठेति जल्पंतः प्रसादः क्रियतामिति  ॥ ३९२ ०॥
सोऽपि निर्भर्त्सयन्नेतान्निवर्तध्वमिति ब्रुवन् ॥
मा गच्छत मत्समीपमिति प्रोच्य पलायितम् ॥३९३॥
अथ दूरतरं गत्वा स प्रोवाच क्षुधान्वितः ॥३९४॥
केनादिष्टोऽस्मि युष्माकं स शीघ्रं मे निवेद्यताम् ॥
शापाग्नौ येन तं पापं भस्मसात्प्रकरोम्यहम् ॥३९५॥
 ॥ त ऊचुः ॥
नारदेन समाख्यातो भवानत्र स्थितो हि नः ॥
कथयित्वा ततो वह्नौ संप्रविष्टः स तत्क्षणात् ॥३९६॥
 ॥ संवर्त उवाच ॥
अहं तदेव कर्ता च तस्य दुष्टस्य सांप्रतम् ॥
निर्दिष्टो येन युष्माकं गुप्ताचारं समाश्रितः ॥३९७॥
त ऊचुः. ॥
भगवन्नारदेनोक्तस्त्वमस्माकं महामुने ॥
चिरादन्वेष्यमाणानां नान्यस्त्वां वेत्ति कश्चन ॥३९८॥
 तावन्निवेद्य चास्माकं प्रविष्टो हव्यवाहनम् ॥
तत्क्षणादेव विप्रेंद्र न विद्मस्तत्र कारणम् ॥३९९॥
 ॥ संवर्त उवाच ॥
अहमप्यतिसंक्रुद्धः शापात्कर्तुं समुद्यतः ॥४०॥
एतदेवहि तस्माच्च स्वयमेव कृतं च यत् ॥०
तस्माद्वदथ मे शीघ्रं कस्माद्यूयं समागताः ॥४०१॥
चिरं स्थास्यामि नात्राहं भ्रमिष्यामि पुरीं प्रति ॥
प्राणयात्राकृते भिक्षां करिष्यामि स्वयं यतः ॥४०२॥
विशल्यः क्रियतां मार्गः कुणपं ह्रियतां च यत् ॥
नोचेच्छापं प्रदास्यामि यद्येवं न करिष्यथ ॥४०३॥
तथाहं नैव वक्तव्यः कस्यचिच्चात्र संस्थितः  ॥
अन्वेषयति मां नित्यं मरुत्तः पृथिवीपतिः ॥४०४॥
यज्ञार्थं नैव तं भूपं याजयिष्ये कथंचन ॥
धिषणेन परित्यक्तो गुरुणा स महीपतिः ॥४०५॥
गुरुपुत्रं च मां ज्ञात्वा ततोऽन्वेषयते हि माम् ॥४०६॥
 ॥ त ऊचुः ॥
शापभ्रष्टा वयं सर्वे चत्वारोऽपि बकादयः ॥
पक्षित्वं चैव संप्राप्ता ब्रह्मशापेन सन्मुने ॥४०७॥
महेश्वरगणाश्चैव वयं त्रैलोक्यवंदिताः ॥
तिर्यग्योनिं समानीता वैराग्यं परमं गताः ॥४०८॥
शापांतस्तु समादिष्टस्तैर्विप्रैः स्त्रीसमु द्भवः  ॥
तवोपदेशतस्तेन बकाद्याः शरणं गताः ॥४०९॥
तस्मात्त्राहि महाभाग पक्षित्वात्सांप्रतं विभो ॥४१०॥
निर्विण्णाश्चिरकालं च पक्षित्वस्य निषेवणात् ॥
एतच्च कारणं नान्यत्तव संगसमुद्भवम् ॥४१३॥
 ॥ संवर्त उवाच ॥
यद्येवं गम्यतां शीघ्रं चमत्कारपुरं प्रति ॥
भर्तृ यज्ञः स्थितोऽप्यत्र सर्वसंदेहहारकः ॥४१२॥
स वै दास्यति सर्वेषामुपदेशं सुशोभनम् ॥
तेन प्राप्स्यथ संदेहं पूर्वीयं च यथास्थितम् ॥४१३॥
स पूर्वं याज्ञवल्क्योऽभूत्सर्वशास्त्रार्थपारगः ॥
ततो भवांतरेऽन्यस्मिन्कात्यायन इति स्मृतः ॥४१४॥
ततो देहांतरं प्राप्य ख्यातो वररुचिर्द्विजः ॥
ततो देहांतरेऽन्यस्मिन्वेश्यापुत्रो बभूव ह ॥४१५॥
आराधिता ब्रह्मसुता देवी वाग्रूपिणी सदा ॥
न च तुष्टा स्वयं देवी कारणं वीक्ष्य किंचन ॥४१६॥
ब्राह्मणेन प्रजातस्तु देहांतं प्राप्य किंचन ॥
तस्य वक्त्रं समापन्ना स्वयमेव सरस्वती ॥४१७॥
पूर्वमाराधिता नित्यं न सा त्यजति कर्हिचित् ॥
तस्याश्चर्यमभूच्चान्यद्यज्ञे वेश्यासुतस्य हि ॥४१९॥
ब्रह्मसूत्रं समभ्येति स्कंधे निर्याति गच्छति ॥४१९॥
पूर्वेषामेव लोकानां यज्ञकर्मसु संस्थितान् ॥
स संदेहान्हरत्येव यथा नान्योऽत्र कश्चन ॥४२०॥
 ॥ सूत उवाच ॥
तस्य तद्वचनं श्रुत्वा प्रणिपत्य मुहुर्मुहुः ॥
गतास्ते कुणपं यत्र संवर्तेन प्रणोदिताः ॥४२१॥
तच्चाकृष्य ततः सर्वे चमत्कारपुरं गताः ॥
वास्तुस्थानपदे तीर्थे तं दृष्ट्वा तत्र संस्थितम् ॥४२२॥
प्रणिपत्य ततः प्रोचुः सर्वे विनयसंस्थिताः ॥
ब्रह्मशापेन निर्दग्धा वयं चत्वार एव हि ॥४२३॥
पक्षित्वं समनुप्राप्तास्त्रयः कूर्मत्वमन्यकः ॥
य एते च त्रयोऽस्माकं स्थिताः पार्श्वे महत्तराः ॥४२४॥
मार्कंडः कथितो ह्येष इंद्रद्युम्नस्तथा परः ॥
तृतीयो लोमशो नाम विख्यातः सुमहातपाः ॥४२५॥
जीवितव्यस्य निर्विण्णास्त्रय एव च सांप्रतम् ॥
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ॥४२६॥
सूत उवाच ॥
तेषां तद्वचनं श्रुत्वा भर्तृयज्ञो महामुनिः ॥
अब्रवीत्सुचिरं ध्यात्वा ज्ञात्वा दिव्येन चक्षुषा ॥४॥
यूयं सप्तैव लिंगानि स्थापयध्वं समागताः ॥
हाटकेश्वरजे क्षेत्रे. नाम्ना चैवांतिके निभोः ॥४२८॥
ततो दानानि सप्तैव तेषामग्रे प्रयच्छत ॥
कुलपर्वतसंज्ञानि सर्वपापहराणि च ॥४२९॥
ततः प्राप्स्यथ चाभीष्टं वपुर्दिव्यं मनोरमम् ॥
गणत्वं देवदेवस्य त्रिने त्रस्य महात्मनः ॥४३०॥
 ॥ त ऊचुः ॥
प्रकीर्तय विभो दानं तेषां यच्छामहे यथा ॥
प्रमाणं च विधानं च विस्तरेण महामुने ॥४३१॥
 ॥ भर्तृयज्ञ उवाच ॥
देयो हेममयो मेरुः कैलासो रजतोद्भवः ॥
कार्प्पासेन हिमाद्रिस्तु गुडजो गंधमादनः ॥४३२॥
सुवेलस्तु तिलैर्देयो विंध्यः शर्करया तथा ॥
लवणेन तथा शृंगी यथोक्तविधिना ततः ॥४३३॥
 ॥ सूत उवाच ॥
तस्य तद्वचनं श्रुत्वा संस्थाप्य विधिपूर्वकम् ॥
सप्तलिंगानि तैः पश्चात्प्रदत्ताः कुलपर्वताः ॥४३४॥
इंद्रद्युम्नेश्वरस्याग्रे इंद्रद्युम्नः प्रतापवान् ॥
मेरुं हेममयं कृत्वा भर्तृयज्ञमते स्थितः ॥४३५॥
मार्कंडेश्वरदेवस्य मार्कंडेन च धीमता ॥
कैलासो राजतो दत्तो भक्तिपूर्वं द्विजोत्तमाः ॥४३६॥
कार्पासो हिमवान्दत्तः पालकेन द्विजातये ॥
गंधमादनसंज्ञस्तु प्रदत्तो गुडजः पुरः ॥४३७॥
घंटकेश्वरदेवस्य घंटकेन द्विजोत्तमाः ॥
कच्छपेन तु संदत्तः सुवेलः पर्वतोत्तमः ॥४३८॥
कच्छपेश्वरदेवस्य पुरस्तिलमयस्तथा ॥
शार्करस्तु तदा शैलः प्रदत्तो भक्तिपूर्वकम् ॥४३९॥
शैल ईशानसंज्ञेन निजदेवस्य चाऽग्रतः ॥
वानरेश्वर देवस्य पुरतो द्विजसत्तमाः ॥४४०॥
गृध्रेणाथ प्रदत्तस्तु लवणाख्यो महागिरिः ॥
शृंगी नाम महाभागः श्रद्धापूतेन चेतसा ॥४४१॥
तत्राश्चर्यमभूद्विप्रा दत्तमात्रैर्नगोत्तमैः ॥
पक्षित्वं निर्गतं तेषां कूर्मत्वमितरस्य च ॥४४२॥
एतस्मिन्नेव काले तु सर्वे ते तत्प्रभावतः ॥
दिव्यमाल्यांबरधरा दिव्यगंधानुलेपनाः ॥
संजाता ब्राह्मणश्रेष्ठा ये च तत्संमुखे स्थिताः ॥४४३॥
विमानानि च सर्वेषां समायातानि तत्क्षणात्  ॥१
भर्तृयज्ञमनुप्राप्य प्रणिपत्य च तान्द्विजान् ॥
कैलासं पर्वतं प्राप्ता विमानवरमाश्रिताः ॥४४४॥
एतद्वः सर्वमाख्यातं यथा तल्लिंगसप्तकम् ॥
हाटकेश्वरजे क्षेत्रे संजातं पापनाशनम् ॥४४५॥
अन्योऽपि यः पुनस्तेषां लिंगानां भक्तिसंयुतः ॥
कुलपर्वतदानं च कुर्यात्सोऽपि शिवं व्रजेत् ॥४४८॥
तानि लिंगानि यो मर्त्यः प्रातरुत्थाय वीक्षते ॥
अज्ञानविहितात्पापात्सोऽपि मुक्तिमवाप्नुयात् ॥४४७॥
यश्चैतान्पर्वतान्सप्त क्रमेणात्र प्रयच्छति ॥
द्विजातिभ्यः स्वलिंगानां पुरतस्त्रिदिवं व्रजेत् ॥४४८॥
स्थित्वा कल्पांतरं तत्र संसेव्य च वराप्सराः ॥
दिव्यान्भोगांश्च संसेव्य यदा भूमौ प्रजायते ॥
चक्रवर्तित्वमासाद्य सार्वभौमः प्रजायते ॥४४९॥
एकेन तु प्रदत्तेन जायते पापसंक्षयः ॥
द्वाभ्यां पुत्राश्च पौत्राश्च वांछितानि फलानि च ॥४५० ॥
त्रिभिः संजायते राजा चतुर्भिर्मंडलेश्वरः ॥
भारतस्य च खण्डस्य स्वामी भवति पंचभिः ॥४५१॥
जंबुद्वीपाधिपः षङ्भिश्चक्रवर्ती च सप्तभिः ॥
विधिवत्पर्वतैर्दत्तैरेत दाह पितामहः ॥४५२॥
नरः स्याद्ब्राह्मणश्रेष्ठाः सदाजन्मनिजन्मनि ॥
न दुःखितो दरिद्रो वा व्याधितो वा प्रजायते ॥४५३॥
सौभाग्यसुखसंयुक्तः सुदेहो रत्नवान्भवेत् ॥
सर्वराज्यविनिर्मुक्तः प्रतापी विजितेन्द्रियः ॥४५४॥
तस्मात्सर्वप्रयत्नेन भूमिपालैर्विशेषतः ॥
एतं च पर्वता देया उद्दिश्य निजदेवताः ॥४५५॥

इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सप्तलिंगोत्पत्ति माहात्म्यवृत्तान्तवर्णनंनामैकसप्तत्युत्तरद्विशततमोऽध्यायः ॥२७१॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP