संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २७५

नागरखण्डः - अध्याय २७५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
दुःशीलोऽपि च तत्कृत्वा गुरोर्नाम्ना शिवालयम् ॥
निम्बेश्वर इति ख्यातं दक्षिणां दिशमाश्रितम् ॥१॥
चकार परया भक्त्या तत्पादाब्जमनुस्मरन् ॥
तथा तस्य तु भार्या या नाम्ना शाकंभरी स्मृता ॥२॥
स्वनामांका तत्र दुर्गा तथा संस्थापिता तया ॥
ततस्तु तद्धनं ताभ्यां किचिच्छेषं व्यवस्थितम् ॥३॥
पूजार्थं देवताभ्यां च ब्राह्मणेभ्यः समर्पितम् ॥
भिक्षाभुजौ ततो जातौ दम्पती तौ ततः परम् ॥४॥
कस्यचित्त्वथ कालस्य दुःशीलो निधनं गतः ॥५॥
शाकंभर्यपि तत्कायं गृहीत्वा हव्यवाहनम् ॥
प्रविष्टा नृपशार्दूल निर्विकल्पेन चेतसा ॥६॥
ततो विमानमारुह्य वराप्सरःसुसेवितम् ॥
गतौ तौ द्वावपि स्वर्गं संप्रहृष्टतनूरुहौ ॥७॥
एतं दुःशीलजं यस्तु पठेदाख्यानमुत्तमम् ॥
स सर्वैर्मुच्यते पापैरज्ञानविहितैर्नृप ॥८॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये निम्बेश्वरशाकंभर्युत्पत्तिमाहात्म्यवर्णनं नाम पञ्चसप्तत्युत्तरद्विशततमोद्भयायः ॥२७५॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP