संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय १३०

नागरखण्डः - अध्याय १३०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ऋषय ऊचुः ॥
याज्ञवल्क्यसुतः सूत यस्त्वया परिकीर्तितः ॥
कतमा तस्य माताभूत्सर्वं नो ब्रूहि विस्तरात् ॥१॥
 ॥ सूत उवाच ॥
तस्य भार्याद्वयं श्रेष्ठमासीत्सर्वगुणान्वितम् ॥
एका गुणवती तस्य मैत्रेयीति प्रकीर्तिता ॥२॥
ज्येष्ठा चान्याथ कल्याणी ख्याता कात्यायनीति च ॥
यस्याः कात्यायनः पुत्रो वेदार्थानां प्रजल्पकः ॥३॥
ताभ्यां कुण्डद्वयं तत्र संतिष्ठति सुशोभनम् ॥
यत्र स्नाता नरा यांति लोकांस्तांश्च महोदयान् ॥४॥
कात्यायन्याश्च तीर्थस्य शांडिल्यास्तीर्थमुत्तमम् ॥
पतिव्रतात्वयुक्तायास्तथान्यत्तत्र संस्थितम् ॥५॥
यत्र कात्यायनी प्राप्ता शांडिल्या प्रतिबोधिता ॥
वैराग्यं परमं प्राप्ता सपत्नीदुःखदुःखिता ॥६॥
तत्र या कुरुते स्नानं तृतीयायां समाहिता ॥
नारी मार्गसिते पक्षे सा सौभाग्यवती भवेत् ॥
अथ दौर्भाग्यसंपन्ना काणा वृद्धाऽथ वामना ॥
अभीष्टा जायते सा च तत्प्रभावाद्द्विजोत्तमाः ॥८॥
 ॥ ऋषय ऊचुः ॥
कीदृक्सपत्निजं दुःखं कात्यायन्या उपस्थितम् ॥
उपदेशः कथं लब्धः शांडिल्याः सूत कीदृशः ॥९॥
कात्यायन्या समाचक्ष्व कौतुकं नो व्यवस्थितम् ॥
सामान्यो भविता नैष उपदेशस्तयेरितः ॥१०॥
 ॥ सूत उवाच ॥
मैत्रेय्या सह संसक्तं याज्ञवल्क्यं विलोक्य सा ॥
कात्यायनी सुदुःखार्ता संजाता चेर्ष्यया ततः ॥११॥
सा न स्नाति न भुंक्ते च न हास्यं कुरुते क्वचित् ॥
केवलं बाष्पपूर्णाक्षी निःश्वासाढ्या बभूव ह ॥१२॥
ततः कदाचिदेवाथ फलार्थं निर्गता बहिः ॥
अपश्यच्छांडिलीनाम पतिपार्श्वे व्यवस्थिताम् ॥१३॥
कृतांजलिपुटां साध्वी विनयावनता स्थिताम् ॥
सोऽपि तस्या मुखासक्तः सानुरागः प्रसन्नदृक् ॥१४॥
गुणदोषोद्भवां वार्तामापृच्छ्याकथयत्तथा ॥
सा च तौ दंपती दृष्ट्वा संहृष्टावितरेतरम् ॥१५॥
चित्ते स्वे चिंतयामास सुधन्येयं तपस्विनी ॥
यस्याः पतिर्मुखासक्तो गुणदोषप्रजल्पकः ॥
सानुरागश्च सुस्निग्धो नान्यां नारीं बिभर्त्ति च ॥१६॥
एवं संचित्य सा साध्वी भूयोभूयो द्विजोत्तमाः ॥
जगाम स्वाश्रमं पश्चान्निंद्यमाना स्वकं वपुः ॥१७॥
ततः कदाचिदेकांते स्थितां तां शांडिलीं द्विजाः ॥
बहिर्गते भर्तरि च तस्याः कार्येण केनचित् ॥१८॥
कात्यायनी समागम्य ततः पप्रच्छ सादरम् ॥
वद कल्याणि मे कंचिदुपदेशं महोदयम् ॥१९॥
मुखप्रेक्षः सदा भर्त्ता येन स्त्रीणां प्रजायते ॥
नापमानं करोत्येव दुरुक्तवचनैः क्वचित् ॥२०॥
नान्यां संगच्छते नारीं चित्तेनापि कथंचन ॥
अहं भर्तुः कृतैर्दुःखैरतीव परिपीडिता ॥
सपत्नीजैर्विशेषेण तस्मान्मे त्वं प्रकीर्तय ॥२१॥
यथा ते वशगो भर्त्ता संजातः कामदः सदा ॥
मनसापि न संदध्यान्नारीमेष कथंचन ॥२२॥
 ॥ शांडिल्युवाच ॥
शृणु साध्वि प्रवक्ष्यामि तवाहं गुह्यमुत्तमम् ॥
यथा ममाभवद्वश्यो मुखप्रेक्षस्तथा पतिः ॥२३॥
मम तातः कुरुक्षेत्रे शांडिल्यो मुनिसत्तमः ॥
वानप्रस्थाश्रमेऽतिष्ठत्पूर्वे वयसि संस्थितः ॥२४॥
तत्रैकाहं समुत्पन्ना कन्या तस्य महात्मनः ॥
वृद्धिं गता क्रमेणाथ तस्मिन्नेव तपोवने ॥२५॥
करोमि तत्र शुश्रूषां होमकाले यथोचिताम् ॥
नीवारादीनि धान्यानि नित्यं चैवानयाम्यहम् ॥२६॥
कस्यचित्त्वथ कालस्य नारदो मुनिसत्तमः ॥
आश्रमे मम तातस्य सुश्रांतः समुपागतः ॥२७॥
तातादेशात्ततस्तत्र मया स विश्रमः कृतः ॥
पादशौचादिभिः कृत्यैः स्नानाद्यैश्च तथापरैः ॥२८॥
ततो भुक्तावसानेऽथ निविष्टः मुखसंस्थित ॥
मम मात्रा परिपृष्टो विनयाद्वरवर्णिनि ॥२९॥
एकेयं कन्यकास्माकं जाते वयसि संस्थिते ॥
संजाता मुनिशार्दूल प्राणेभ्योऽपि गरीयसी ॥३०॥
तदस्याः कीर्तय क्षिप्रं सुखोपायं सुखोदयम् ॥
व्रतं वा नियमं वा त्वं होमं वा मन्त्रमेव वा ॥३१॥
येन चीर्णेन भर्त्ता स्यात्सुसौम्यः सद्गुणान्वितः ॥
प्रियंवदो मुखप्रेक्षः परनारीपराङ्मुखः ॥३२॥
तस्यास्तद्वचनं श्रुत्वा स मुनिस्तदनंतरम् ॥
चिरं ध्यात्वा वचः प्राह प्रसन्नवदनस्ततः ॥३३॥
हाटकेश्वरजे क्षेत्रे पञ्चपिंडा व्यवस्थिता ॥
गौरी गौर्या स्वयं तत्र स्थापिता परमेश्वरी ॥३४॥
तामेषा वत्सरं यावच्छ्रद्धया परया युता ॥
सदा पूजयतु प्रीत्या तृतीयायां विशेषतः ॥३५॥
ततो वर्षांतमासाद्य संप्राप्स्यति यथोचितम् ॥
भर्त्तारं नात्र संदेहो यादृग्रूपं यथोचितम् ॥३६॥
तत्र पूर्वं गता गौरी परित्यज्य महेश्वरम् ॥
गंगेर्ष्यया महाभागे ज्ञात्वा क्षेत्रं सुसिद्धिदम् ॥३७॥
ततः सा चिंतयामास कां देवीं पूजयाम्यहम् ॥
सौभाग्यार्थं यतोऽन्या मां पूजयंति सुरस्त्रियः ॥३८॥
तस्मादहं प्रभक्त्याढ्या स्वयमात्मानमेव च ॥
आत्मनैव कृतोत्साहा पूजयिष्यामि सिद्धये ॥३९॥
ततः प्राणाग्निहोत्रोत्थैर्मंत्रैराथर्वणैः शुभैः ॥
मृत्पिंडान्पंच संयोज्य ह्येकस्थाने समाहिता ॥४०॥
पृथ्वीमपश्च तेजश्च वायुमाकाशमेव च  ॥
तेषु संयोजयामास मृत्पिंडेषु निधाय सा ॥४१॥
महद्भूतानि चैतानि पञ्च देवी यतव्रता ॥
ततः संपूजयामास पुष्पधूपानुलेपनैः ॥४२॥
अथ तां तत्र विज्ञाय तपःस्थां गिरजां भवः ॥
तन्मंत्राकृष्टचित्तश्च सत्वरं समुपागतः ॥४३॥
प्रोवाच च प्रहृष्टात्मा कस्मात्त्वमिह चागता ॥
मां मुक्त्वा दोषनिर्मुक्तं मुखप्रेक्षं सदा रतम् ॥४४॥
तस्मादागच्छ कैलासं वृषारूढा मया सह ॥
अथवा कारणं ब्रूहि यदि दोषोऽस्ति मे क्वचित् ॥४५॥
 ॥ देव्युवाच ॥
त्वं मूर्ध्ना जाह्नवीं धत्से मूर्तां पदजलात्मिकाम् ॥
तस्मान्नाहं गमिष्यामि मंदिरं ते कथंचन ॥४६॥
यावन्न त्यजसि व्यक्तं मम सापत्न्यतां गताम् ॥
तथा नित्यं प्रणामं त्वं करोषि वृषभध्वज ॥४७॥
प्रत्यक्षमपि मे नित्यं संध्यायाश्च न लज्जसे ॥
तस्मादेतत्परित्यज्य कर्म लज्जाकरं परम् ॥४८॥
आकारयसि मां देव तत्स्याद्यदि मतं मम ॥
अन्यथाहं न यास्यामि तव हर्म्ये कथंचन ॥
एतच्छ्रुत्वा यदिष्टं ते कुरुष्व वृषभध्वज ॥४९॥
 ॥ देव उवाच  ॥
नाहं सौख्येन तां गंगां धारयामि सुरेश्वरि ॥५०॥
भगीरथेन भूपेन प्रार्थितो ज्ञाति कारणात् ॥
दिव्यं वर्षसहस्रं तु तपस्तप्त्वा सुदारुणम् ॥५१॥
येन नो याति पातालं गंगा स्वर्गपरिच्युता ॥
तस्मात्त्वं देव मद्वाक्यात्स्वमूर्ध्ना वह जाह्नवीम् ॥५२॥
मया तस्य प्रतिज्ञातं धारयिष्याम्यसंशयम् ॥
आकाशाज्जाह्नवीवेगं पतंतं धरणीतले ॥५३॥
नो चेद्व्रजेत पातालं यदत्र विषयेस्थि?म् ॥
ततोऽहं संप्रवक्ष्यामि तदिहैकमनाः शृणु ॥५४॥
एषा गंगा वरारोहे मम मूर्ध्नो विनिर्गता ॥
हिमवंतं नगं भित्त्वा द्विधा जाता ततः परम् ॥५५॥
ततः सिंध्वभिधाना सा पश्चिमं सागरं गता ॥
शतानि नव संगृह्य नदीनां परमेश्वरि ॥५६॥
तथा गंगाभिधाना च सैव प्राक्सागरं गता ॥
तावतीश्च समादाय नदीः पर्वतनन्दिनि ॥५७॥
एवमष्टादशैतानि नदीनां पर्वतात्मजे ॥
शतानि सागरे यांति तेन नित्यं स तिष्ठति ॥५८॥
सततं शोष्यमाणोऽपि वाडवेन दिवानिशम् ॥
समुद्रसलिलं मेघाः समादाय ततः परम् ॥५९॥
मर्त्यलोके प्रवर्षंति ततः सस्यं प्रजायते ॥
सस्येन जीवते लोकः प्रभवन्ति मखास्तथा ॥
मखांशेन सुराः सर्वे तृप्तिं यांति ततः परम् ॥६०॥
एतस्मात्कारणान्मूर्ध्नि देवि गंगां दधाम्यहम् ॥
न स्नेहात्कामतो नैव जगद्येन प्रवर्तते ॥६१॥
अथवा सन्त्यजाम्येनां यदि मूर्ध्नः कथंचन ॥
तद्दूरं वेगतो भित्त्वा पृथ्वीं याति रसातलम् ॥६२॥
ततः शोषं व्रजेदाशु समुद्रः सरितां पतिः ॥
और्वेण पीयमानोऽत्र ततो वृष्टिर्न जायते ॥
वृष्ट्यभावाज्जगन्नाशः सत्यमेतन्मयोदितम् ॥६३॥
एवं गंगाकृते प्रोक्तं मया तव सुरेश्वरि ॥
शृणु सन्ध्याकृतेऽन्यच्च येन तां प्रणमाम्यहम् ॥६४॥
इति श्रीस्कान्देमहापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्व रक्षेत्रमाहात्म्ये पंचपिण्डागौर्युत्पत्तिवर्णनंनाम त्रिंशदुत्तरशततमोऽध्यायः ॥१३०॥

N/A

References : N/A
Last Updated : December 29, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP