नागरखण्डः - अध्याय ११५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
त्रिजातो ब्राह्मणस्तत्र किन्नामा कस्य सम्भवः ॥
किंगोत्रश्चैव किंसंज्ञः कीर्तयस्व महामते ॥१॥
किं कुलीनैर्गुणाढ्यैर्वा तेजोविद्याविचक्षणैः ॥
त्रिजातोऽपि वरं सोऽपि स्वं स्थानं येन चोद्धृतम् ॥२॥
सूत उवाच ॥ सांकृत्यस्य मुनेर्वंशे स संभूतो द्विजोत्तमः ॥
प्रभाव इति विख्यातो दत्तसंज्ञो निमेः सुतः ॥३॥
स एवं स्थानमुद्धृत्य चकारायतनं शुभम् ॥
त्रिजातेश्वरनाम्ना च देवदेवस्य शूलिनः ॥४॥
तमाराध्य दिवा नक्तं सम्यक्छ्रद्धासमन्वितः ॥
सशरीरो गतः स्वर्गं ततः कालेन केनचित् ॥५॥
यस्तं पश्यति सद्भक्त्या स्नापयेद्विषुवे सदा ॥
न त्रिजातः कुले तस्य कथञ्चिदपि जायते ॥६॥
॥ ऋषय ऊचुः ॥
यानि गोत्राणि नष्टानि यानि संस्थापितानि च ॥
नामतस्तानि नो ब्रूहि तत्पुरं सूत नन्दन ॥७॥
॥ सूत उवाच ॥
तत्रोपमन्युगोत्रा ये क्रौंचगोत्रसमुद्भवाः ॥
कैशोर्यं गोत्रसंभूतास्त्रैवणेया द्विजोत्तमः ॥८॥
ते भूयोऽपि न संप्राप्ता यथा गोत्रचतुष्टयम् ॥
तत्पूर्वकं शुकादीनां यन्नष्टं नागजाद्भयात् ॥९॥
शेषान्वः संप्रवक्ष्यामि ब्राह्मणान्गोत्रसंभवान् ॥
कौशिकान्वयसं भूताः षड्विंशतिश्च ते स्मृताः ॥१०॥
कश्यपान्वयसंभूताः सप्ताशीतिर्द्विजोत्तमाः ॥
लक्ष्मणान्वयसंभूता एकविंशतिरागताः ॥११॥
तत्र नष्टाः पुनः प्राप्तास्तस्मिन्स्थाने सुदुःखिताः ॥
भारद्वाजास्त्रयः प्राप्ताः कौंडनीयाश्चतुर्दश ॥१२॥
रैतिकानां तथा विंशत्पाराशर्याष्टकं तथा ॥
गर्गाणां च द्विविंशं च हारीतानां विविंशतिः ॥१३॥
और्वभार्गवगोत्राणां पञ्चविंशदुदाहृताः ॥
गौतमानां च षड्विंशमालूभायनविंशतिः ॥१४॥
मांडव्यानां त्रिविंशच्च बह्वृचानां त्रिविंशतिः ॥
सांकृत्यानां विशिष्टानां पृथक्त्वेन दशैव तु ॥१५॥
तथैवांगिरसानां च पंच चैव प्रकीर्तिताः ॥
आत्रेया दश संख्याताः शुक्लात्रेयास्तथैव च ॥१६॥
वात्स्याः पञ्च समाख्याताः कौत्साश्च नव सप्त वै ॥
शांडिल्या भार्गवाः पञ्च मौद्गल्या विंशतिः स्मृताः ॥१७॥
बौधायनाः कौशलाश्च त्रिंशन्मात्राः प्रकीर्तिताः ॥
अथर्वाः पंचपंचाशन्मौनसाः सप्तसप्ततिः ॥१८॥
याजुषास्त्रिंशतिः ख्याताश्च्यावनाः सप्त विंशतिः ॥
आगस्त्याश्च त्रयस्त्रिंशज्जैमिनेया दशैव तु ॥१९॥
नैवृताः पंचपंचाशत्पाठीनाः सप्ततिर्द्विजाः ॥
गोभिलाश्चापि काक्वाश्च पंचपंच द्विजाः स्मृताः ॥२०॥
औशनसाश्च दाशार्हास्त्रयस्त्रय उदाहृताः ॥
लोकाख्यानां तथा षष्टिरैणिशानां द्विसप्ततिः ॥२१॥
कापिष्ठलाः शार्कराख्या दत्ताख्याः सप्तसप्ततिः ॥
शार्कवानां शतं प्रोक्तं दार्ज्यानां सप्तसप्ततिः ॥२२॥
कात्यायन्यास्त्रयोऽधिष्ठा वैदिशाश्च त्रयः स्मृताः ॥
कृष्णात्रेयास्तथा पंच दत्तात्रेया स्तथैव च ॥२३॥
नारायणाः शौनकेया जाबालाः शतसंख्यया ॥
गोपाला जामदन्याश्च शालिहोत्राश्च कर्णिकाः ॥२४॥
भागुरायणकाश्चैव मातृकास्त्रैणवास्तथा ॥
सर्वे ते ब्राह्मणश्रेष्ठाः क्रमेण द्विजसत्तमाः ॥२५॥
एतेषामेव सर्वेषां सत्काराय द्विजोतमाः ॥
चत्वारिंशत्तथाष्टौ च पुरा प्रोक्ताः स्वयंभुवा ॥२६॥
ते सर्वे च पृथक्त्वेन निर्दिष्टाः पद्मयोनिना ॥
संध्यातर्पणकृत्यानि वैश्वदेवोद्भवानि च ॥२७॥
श्राद्धानि पक्षकृत्यानि पितृपिंडांस्तथैव च ॥
यज्ञोपवीतसंयुक्ताः प्रवराश्चैव कृत्स्नशः ॥
तथा मौंजीविशेषाश्च शिखाभेदाः प्रकीर्तिताः ॥२८॥
त्रिजातेन समाराध्य देवदेवं पितामहम् ॥
तेषां कृत्वा द्विजेद्राणामात्मकीर्तिकृते तदा ॥२९॥
॥ ऋषय ऊचुः ॥
कथं सन्तोषितो ब्रह्मा त्रिजातेन महात्मना ॥
कर्मकांडं कथं भिन्नं कृतं तेन महात्मना ॥
सर्वं विस्तरतो ब्रूहि परं कौतूहलं हि नः ॥३०॥
॥ सूत उवाच ॥
तस्यार्थे ब्राह्मणैः सर्वैस्तोषितः प्रपितामहः ॥
अनेनैवोद्धृतं स्थानमस्माकं सकलं विभो ॥३१॥
तस्मादस्य विभो यच्छ वेदज्ञानमनुतमम् ॥
येन कर्मविशेषाश्च जायतेऽत्र पुरोत्तमे ॥३२॥
एतस्य च गुरुत्वं च प्रसादात्तव पद्मज ॥
यथा भवति देवेश तया नीतिर्विधीयताम् ॥३३॥
ब्रह्मा ददौ ततस्तस्य मंत्रग्राममनुत्तमम् ॥
येन विज्ञायते सर्वं वेदार्थो यज्ञकर्म च ॥३४॥
ततः प्रोवाच तान्सर्वान्प्रहष्टेनातरात्मना ॥
एष वेदार्थसंपन्नो भविष्यति महायशाः ॥३५॥
भर्तृयज्ञ इति ख्यातो यज्ञकर्मविचक्षणः ॥
यदेव वक्ति युष्माकं क्रियाकांडमशंकितैः ॥३६॥
तत्कार्यं स्वर्गमोक्षाय मम वाक्यात्प्रबोधितैः ॥
वेदार्थानेष सर्वेषां युष्माकं योजयिष्यति ॥३७॥
ये चान्येषु च देशेषु स्थानेषु च गताः क्वचित् ॥
एतत्स्थानं परित्यज्य सत्यमेतद्विजोत्तमाः ॥३८॥
वेदस्थाने च बुद्ध्यैष यत्कर्म प्रचरिष्यति ॥
नानृते वाथ पापे च वाणी चास्य चरिष्यति ॥३९॥
एवमुक्त्वा स देवेशो विरराम पितामहः ॥
भर्तृयज्ञोऽपि ताः सर्वाश्चक्रे यज्ञक्रियाः शुभाः ॥४०॥
ब्राह्मणानां हितार्थाय श्रुत्यर्थं तस्य केवलम् ॥
दशप्रमाणाः संप्रोक्ताः सर्वे ते ब्राह्मणोत्तमाः ॥४१॥
चतुःषष्टिषु गोत्रेषु ह्येवं ते ब्राह्मणोत्तमाः ॥
तेन तत्र समानीतास्त्रिजातेन महात्मना ॥४२॥
तेषामेकत्र जातानि दशपंचशतानि च ॥
सामान्य भोगमोक्षाणि तानि तेन कृतानि च ॥४३॥
अष्टषष्टिविभागेन पूर्वमायुव्ययोद्भवम् ॥
तत्रासीदथ गोत्रे च पुरुषाणां प्रसंख्यया ॥४४॥
ततः प्रभृति सर्वेषां सामान्येन व्यवस्थितम् ॥
त्रिजातस्य च वाक्येन येन दूरादपि द्रुतम् ॥४५॥
समागच्छंति विप्रेन्द्राः पुरवृद्धिः प्रजायते ॥
न कश्चिद्याति संत्यक्त्वा दौस्थ्यादन्यत्र च द्विजाः ॥४६॥
ततस्तेषां सुतैः पौत्रैर्नप्तृभिश्च सहस्रशः ॥
दौहित्रैर्भागिनेयैश्च भूयो भूरि प्रपूरितम् ॥४७॥
तत्पुरं वृद्धिमायाति दूर्वांकुरैरिव द्विजाः ॥
कांडात्कांडात्प्ररोहद्भिः संख्याहीनैरनेकधा ॥४८॥
॥ सूत उवाच ॥
एतद्वः सर्वमाख्यातं गोत्रसंख्यानकं शुभम् ॥
ऋषीणां कीर्तनं चापि सर्वपातकनाशनम् ॥४९॥
यश्चैतत्पठते नित्यं शृणुयाद्वा प्रभक्तितः ॥
न स्यात्तस्य कुलच्छेदः कदाचिदपि भूतले ॥५०॥
तथा विमुच्यते पापैराजन्ममरणोद्भवैः ॥
न पश्यति वियोगं च कदाचित्प्रियसंभवम् ॥५१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽष्टषष्टितीर्थोपाख्याने भर्तृयज्ञकृतयज्ञविधानमुनिगोत्रवर्णनंनाम पंचदशोत्तरशततमोऽध्यायः ॥११५॥
N/A
References : N/A
Last Updated : December 29, 2024
TOP