नागरखण्डः - अध्याय ११९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ऋषय ऊचुः ॥
यत्वया सूतज प्रोक्तं देवी कात्यायनी च सा ॥
महिषांतकरी जाता कथं सा मे प्रकीर्तय ॥१॥
कीदृग्दानववर्यः स माहिषं रूपमाश्रितः ॥
कस्मात्स सूदितो देव्या तन्मे विस्तरतो वद ॥२॥
॥ सूत उवाच ॥
अत्र वः कीर्तयिष्यामि देव्या माहात्म्यमुत्तमम् ॥
श्रुतमात्रेऽपि मर्त्यानां येन शत्रुक्षयो भवेत् ॥३॥
हिरण्याक्षसुतः पूर्वं महिषोनाम दानवः ॥
आसीन्महिषरूपेण येन भुक्तं जगत्त्रयम् ॥४॥
॥ ऋषय ऊचुः ॥
माहिषेण स्वरूपेण किंजातः सूतनंदन ॥
अथवा शापदोषेण सञ्जातः केनचिद्वद ॥५॥
॥ सूत उवाच ॥
संजातो हि सुरूपाढ्यः शतपत्रनिभाननः ॥
दीर्घबाहुः पृथुग्रीवः सर्वलक्षणलक्षितः ॥
नाम्ना चित्रसमः प्रोक्तस्तेजोवीर्यसमन्वितः ॥६॥
सबाल्यात्प्रभृति प्रायो महिषाणां प्रबोधनम् ॥
करोति संपरित्यज्य सर्वमश्वादिवाहनम् ॥७॥
कदाचिन्महिषारूढः स प्रतस्थे दनोः सुतः ॥
जाह्नवीतीरमासाद्य विनिघ्नञ्जलपक्षिणः ॥८॥
अथासीत्सुसमाधिस्थो दुर्वासा मुनिसत्तमः ॥
गंगातीरे विधायोच्चैः पद्मा सनमनुत्तमम् ॥९॥
विहंगासक्तचित्तेन शून्येन स मुनीश्वरः ॥
दृष्टो न महिषक्षुण्णः खुरैर्वेगवशाद्द्विजः ॥१०॥
ततः क्षतजदिग्धांगः स दृष्ट्वा दानवं पुरः ॥
अथ दृष्ट्वा प्रणामेन रहितं कोपमाविशत् ॥
ततः प्रोवाच तं क्रुद्धस्तोयमादाय पाणिना ॥
यस्मात्पाप मम क्षुण्णं गात्रं महिषजैः खुरैः ॥१२॥
समाधेश्च कृतो भंगस्तस्मात्त्वं महिषो भव ॥
यावज्जीवसि दुर्बुद्धे सम्यग्ज्ञानसमन्वितः ॥१३॥
अथाऽसौ महिषो जातः कृष्णगात्रधरो महान् ॥
अतिदीर्घविषाणश्च अंजनाद्रिरिवापरः ॥१४॥
ततः प्रसादयामास तं मुनिं विनयान्वितः ॥
शापातं कुरु मे विप्र बाल्यभावादजानतः ॥१५॥
अथ तं स मुनिः प्राह न मे स्याद्वचनं वृथा ॥
तस्माद्यावत्स्थिताः प्राणास्तावदित्थं भविष्यति ॥१६॥
महिषस्य स्वरूपेण निन्दितस्य सुदुर्मते ॥
एवं स तं परित्यज्य गंगातीरं मुनीश्वरः ॥
जगामाऽन्यत्र सोऽप्याशु गत्वा शुक्रमुवाच ह ॥१७॥
अहं दुर्वाससा शप्तः कस्मिंश्चित्कारणांतरे ॥
महिषत्वं समानीतस्तस्मात्त्वं मे गतिर्भव ॥१८॥
यथा स्यात्पूर्वजं देहं तिर्यक्त्वं नश्यते यथा ॥
प्रसादात्तव विप्रेंद्र तथा नीतिर्विधीयताम् ॥१९॥
॥ शुक्र उवाच ॥
तस्य शापोऽन्यथा कर्तुं नैव शक्यः कथंचन ॥
केनापि संपरित्यज्य देवमेकं महेश्वरम् ॥२०॥
तस्मादाराधयाऽऽशु त्वं गत्वा लिंगमनुत्तमम् ॥
हाटकेश्वरजे क्षेत्रे सर्वसिद्धिप्रदायके ॥२१॥
तत्र सञ्जायते सिद्धिः शीघ्रं दानवसत्तम ॥
अपि पापयुगे प्राप्ते किं पुनः प्रथमे युगे ॥२२॥
एवमुक्तः स शुक्रेण दानवः सत्वरं ययौ ॥
हाटकेश्वरजं क्षेत्रं तपस्तेपे ततः परम् ॥२३॥
स्थापयित्वा महल्लिगं भक्त्या देवस्य शूलिनः ॥
प्रासादं च ततश्चक्रे कैलासशिखरोपमम् ॥२४॥
तस्यैवं वर्तमानस्य तपःस्थस्य महात्मनः ॥
जगाम सुमहान्कालः कृच्छ्रे तपसि वर्ततः ॥२५॥
ततस्तुष्टो महादेवो गत्वा तद्दृष्टिगोचरम् ॥
प्रोवाच परितुष्टोऽस्मि वरं वरय दानव ॥२६॥
॥ महिष उवाच ॥
अहं दुर्वाससा शप्तो महिषत्वे नियोजितः ॥
तिर्यक्त्वं नाशमायातु तस्मान्मे त्वत्प्रसादतः ॥२७॥
॥ श्रीभगवानुवाच ॥
नान्यथा शक्यते कर्तुं तस्य वाक्यं कथंचन ॥
तस्मात्तव करिष्यामि सुखोपायं शृणुष्व तम् ॥२८॥
ये केचिन्मानवा भोगा दैविका ये तथाऽऽसुराः ॥
ते सर्वे तव गात्रेऽत्र सम्प्रयास्यंति संश्रयम् ॥२९॥
भोगार्थमिष्यते कायं यतो मर्त्यं सुरासुरैः ॥
समवाप्स्यसि तान्सर्वांस्तस्मात्तव कलेवरम् ॥३०॥
॥ महिष उवाच ॥
यद्येवं देवदेवेश भोगप्राप्तिर्भवेन्मम ॥
तस्मादवध्यमेवास्तु गात्रमेतन्मम प्रभो ॥३१॥
दशानां देवयोनीनां मनुष्याणां विशेषतः ॥
तिर्यञ्चानां च नागानां पक्षिणां सुरसत्तम ॥३२॥
॥ श्रीभगवानुवाच ॥
नावध्योऽस्ति धरापृष्ठे कश्चिद्देही च दानव ॥
तस्मादेकं परित्यक्त्वा शेषान्प्रार्थय दैत्यप ॥३३॥
ततः स सुचिरं ध्यात्वा प्रोवाच वृषभध्वजम् ॥
स्त्रियमेकां परित्यक्त्वा नान्येभ्यस्तु वधो मम ॥३४॥
तथात्र मामके तीर्थे यः कश्चिच्छ्रद्धया नरः ॥
करोति स्नानमव्यग्रस्त्वां पश्यति ततः परम् ॥३५॥
तस्य स्यात्त्वत्प्रसादेन संसिद्धिः सार्वकामिकी ॥
सर्वोपद्रवनाशश्च तेजोवृद्धिश्च शंकर ॥३६॥
॥ श्रीभगवानुवाच ॥
मार्गशुक्लचतुर्दश्यां तीर्थे स्नात्वाऽत्र तावके ॥
विलोकयिष्यति प्रीत्या मम लिंगं ततः परम् ॥३७॥
भूतप्रेतपिशाचादि संभवास्तस्य तत्क्षणात् ॥
दोषा नाशं प्रयास्यंति तथा रोगा ज्वरादयः ॥३८॥
एवमुक्त्वाऽथ देवेशस्ततश्चादर्शनं गतः ॥
महिषोऽपि निजं स्थानं प्रजगाम ततः परम् ॥३९॥
स गत्वा दानवान्सर्वान्समाहूय ततः परम् ॥
प्रोवाचामर्षसंयुक्तः सभामध्ये व्यवस्थितः ॥४०॥
पिता मम पितृव्यश्च ये चान्ये मम पूर्वजाः ॥
दानवा निहता देवैर्वासुदेवपुरोगमैः ॥४१॥
तस्मात्तान्नाशयिष्यामि देवानपि महाहवे ॥
अहं त्रैलोक्यराज्यं हि ग्रहीष्यामि ततः परम् ॥४२॥
अथ ते दानवाः प्रोचुर्युक्तमेतदनुत्तमम् ॥
अस्मदीयमिदं राज्यं यच्छक्रः कुरुते दिवि ॥४३॥
तस्मादद्यैव गत्वाऽऽशु हत्वेन्द्रं रणमूर्धनि ॥
दिव्यान्भोगान्प्रभुञ्जानाः स्थास्यामः सुखिनो दिवि ॥४४॥
एवं ते दानवाः सर्वे कृत्वा मंत्रविनिश्चयम् ॥
मेरुशृंगं ततो जग्मुः सभृत्यबलवाहनः ॥४५॥
अथ शक्रादयो देवा दृष्ट्वा तद्दानवोद्भवम् ॥
अकस्मादेव संप्राप्तं बलं शस्त्रास्त्रसंयुतम् ॥
युद्धार्थं स्वपुरद्वारि निर्ययुस्तदनंतरम् ॥४६॥
आदित्या वसवो रुद्रा नासत्यौ च भिषग्वरौ ॥
विश्वेदेवास्तथा साध्याः सिद्धा विद्याधराश्च ये ॥४७॥
ततः समभवद्युद्धं देवानां सह दानवैः ॥
मिथः प्रभर्त्स्यमानानां मृत्युं कृत्वा निवर्तनम् ॥४८॥
एवं समभवद्युद्धं यावद्वर्षत्रयं दिवि ॥
रक्तनद्योतिविपुलास्तत्रातीव प्रसुस्रुवुः ॥४९॥
अन्यस्मिन्दिवसे शक्रं दृष्टैवारावणसंस्थितम् ॥
तं शुक्लेनातपत्रेण ध्रियमाणेन मूर्धनि ॥
देवैः परिवृतं दिव्यशस्त्रपाणिभिरेव च ॥५०॥
ततः कोपपरीतात्मा महिषो दानवाधिपः ॥
महावेगं समासाद्य तस्यैवाभिमुखो ययौ ॥५१॥
शृंगाभ्यां च सुतीक्ष्णाभ्यां ततश्चैरावणं गजम् ॥
विव्याध हृदये सोऽथ चक्रे रावं सुदारुणम् ॥५२॥
ततः पराङ्मुखो भूत्वा पलायनपरायणः ॥
अभिदुद्राव वेगेन पुरी यत्रामरावती ॥५३॥
अंकुशोत्थप्रहारैश्च क्षतकुंभोऽपि भूरिशः ॥
महामात्रनिरुद्धोऽपि न स तस्थौ कथंचन ॥५४॥
अथाब्रवीत्सहस्राक्षो महिषं वीक्ष्य गर्वितम् ॥
गर्जमानांस्तथा दैत्यान्क्ष्वेडनास्फोटनादिभिः ॥५५॥
मा दैत्य प्रविजानीहि यन्नष्टस्त्रिदशाधिपः ॥
एष नागो रणं हित्वा विवशो याति मे बलात् ॥५६॥
तस्मात्तिष्ठ मुहूर्तं त्वं यावदास्थाय सद्रथम् ॥
नाशयामि च ते दर्पं निहत्य निशितैः शरैः ॥५७॥
एतस्मिन्नंतरे प्राप्तो मातलिः शक्रसारथिः ॥
सहस्रैदर्शभिर्युक्तं वाजिनां वातरंहसाम् ॥५८॥
ते ऽथ मातलिना अश्वाः प्रतोदेन समाहताः ॥
उत्पतंत इवाकाशे सत्वं संप्रदुद्रुवुः ॥५९॥
अथ चापं समारोप्य सत्वरं पाकशासनः ॥
शरैराशीविषाकारैश्छादयामास दानवम् ॥६०॥
ततः स वेगमास्थाय भूयोऽपि क्रोधमूर्छितः ॥
अभिदुद्राव वेगेन स यत्र त्रिदशाधिपः व ॥६१॥
ततस्तान्सुहयांस्तस्य शृंगाभ्यां वेगमाश्रितः ॥
दारयामास संक्रुद्ध आविध्याविध्य चासकृत् ॥६२॥
ततस्ते वाजिनस्त्रस्ताः संजग्मुः क्षतवक्षसः ॥
रक्तप्लावितसर्वांगा मार्गमैरावणस्य च ॥६३॥
ततः शक्ररथं दृष्ट्वा विमुखं सुरसत्तमाः ॥
सर्वे प्रदुद्रुवुर्भीतास्तस्य मार्गमुपाश्रिताः ॥६४॥
ततस्तु दानवाः सर्वे भग्नान्दृष्ट्वा रणे सुरान् ॥
शस्त्रवृष्टिं प्रमुंचंतो गर्जमाना यथा घनाः ॥६५॥
एतस्मिन्नंतरे प्राप्ता रजनी तमसावृता ॥
न किंचित्तत्र संयाति कस्यचिद्दृष्टिगोचरे ॥६६॥
ततस्तु दानवाः सर्वे युद्धान्निर्वृत्य सर्वतः ॥
मेरुशृंगं समाश्रित्य रम्यं वासं प्रचक्रमुः ॥६७॥
विजयेन समायुक्तास्तुष्टिं च परमां गताः ॥
कथाश्चक्रुश्च युद्धोत्था युद्धं तस्य यथा भवत् ॥६८॥
देवाश्चापि हतोत्साहाः प्रहारैः क्षतविक्षताः ॥
मंत्रं चक्रुर्मिथो भूत्वा बृहस्पतिपुरःसराः ॥६९॥
सांप्रतं दानवैः सैन्यमस्माकं विमुखं कृतम् ॥
विध्वस्तं सुनिरुत्साहमक्षमं युद्धकर्मणि ॥७०॥
तस्मात्त्यक्त्वा प्रवेक्ष्यामः पुरीं चैवामरावतीम् ॥
ब्रह्मणः सदनं यत्र न स्याद्दानवजं भयम् ॥७१॥
एवं ते निश्चयं कृत्वा ब्रह्मलोकं ततो गताः ॥
शून्यां शक्रपुरीं कृत्वा सर्वे देवाः सवासवाः ॥७२॥
ततः प्रातः समुत्थाय दानवास्ते प्रहर्षिताः ॥
शून्यां शक्रपुरीं दृष्ट्वा विविशुस्तदनंतरम् ॥७३॥
अथ शाक्रे पदे दैत्यं महिषं संनिधाय च ॥
प्रणेमुस्तुष्टिसंयुक्ताश्चक्रुश्चैव महोत्सवम् ॥७४॥
जगृहुर्यज्ञभागांश्च सर्वेषां त्रिदिवौकसाम् ॥
देवस्थानेषु सर्वेषु देवताऽभिमताश्च ये ॥७६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये देवसेनापराजयवर्णनंनामैकोनविंशत्युत्तरशततमोऽध्यायः ॥११९॥
N/A
References : N/A
Last Updated : December 29, 2024
TOP