संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २३९

नागरखण्डः - अध्याय २३९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नारद उवाच ॥
उपचारैः षोडशभिः पूजनं क्रियते कथम् ॥
ते के षोडश भावाः स्युर्नित्यं ये शयने हरेः ॥१॥
एतद्विस्तरतो ब्रूहि पृच्छतो मे प्रजापते ॥
तव प्रसादमासाद्य जगत्पूज्यो भवाम्यहम् ॥२॥
 ॥ ब्रह्मोवाच ॥
विष्णुभक्तिर्दृढा कार्या वेदशास्त्रविधानतः ॥
वेदमूलमिदं सर्वं वेदो विष्णुः सनातनः ॥३॥
ते वेदा ब्राह्मणाधारा ब्राह्मणाश्चाग्निदैवताः ॥
अग्नौ प्रास्ताहुतिर्विप्रो यज्ञे देवं यजन्सदा ॥४॥
जगत्संधारयेत्सर्वं विष्णुपूजारतः सदा ॥
नारायणः स्मृतो ध्यातः क्लेशदुःखादिनाशनः ॥५॥
चातुर्मास्ये विशेषेण जलरूपगतो हरिः ॥
जलादन्नानि जायंते जगतां तृप्तिहेतवे ॥६॥
विष्णुदेहांशसंभूतं तदन्नं ब्रह्म इष्यते ॥
तदन्नं विष्णवे दत्त्वा ह्यावाहनपुरःसरम् ॥७॥
पुनर्जन्मजराक्लेशसंस्कारैर्नाभिभूयते ॥
आकाशसंभवो वेद एक एव पुराऽभवत् ॥८॥
ततो यजुःसामसंज्ञामृग्वेदः प्राप भूतये ॥
ऋग्वेदोऽभिहितः पूर्वं यजुःसहस्रशीर्षेति च ॥९॥
षोडशर्चं महासूक्तं नारायणमयं परम् ॥
तस्यापि पाठमात्रेण ब्रह्महत्या निव र्तते ॥१०॥
विप्रः पूर्वं न्यसेद्देहे स्मृत्युक्तेन निजे बुधः ॥
ततस्तु प्रतिमायां च शालग्रामे विशेषतः ॥११॥
क्रमेण च ततः कुर्यात्पश्चादावाहनादिकम् ॥
आवाह्य सकलं रूपं वैकुण्ठस्थानसंस्थितम् ॥१२॥
कौस्तुभेन विराजंतं सूर्यकोटिसमप्रभम् ॥.
दंडहस्तं शिखासूत्रसहितं पीतवाससम् ॥१३॥
महासंन्यासिनं ध्यायेच्चातुर्मास्ये विशेषतः ॥
एवं रूपमयं विष्णुं सर्वपापौघहारिणम् ॥१४॥
आवाहयेच्च पुरतो ध्यानसंस्थं द्विजोत्तम ॥
ऋचा प्रथमया चास्योंकारादिसमुदीर्णया ॥१५॥
द्वितीयया चासनं च पार्षदैश्च समन्वितम् ॥
सौवर्णान्यासनान्येषां मनसा परिचिन्तयेत् ॥१६॥
चिन्तनैर्भक्तियोगेन परिपूर्णं च तद्भवेत् ॥
पाद्यं तृतीयया कार्यं गंगां तत्र स्मरेद्बुधः ॥१७॥
अर्घ्यः कार्यस्ततो विष्णोः सरिद्भिः सप्तसागरैः ॥
पुनराचमनं कार्यममृतेन जगत्पतेः ॥१८॥
त्रिभिराचमनैः शुद्धिर्ब्राह्मणस्य निगद्यते ॥
अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः ॥१९॥
हृत्कण्ठ तालुगाभिश्च यथावर्णं द्विजातयः ॥
शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरंततः ॥..२०॥
पञ्चम्याऽऽचमनं कार्यं भक्तियुक्तेन चेतसा ॥
भक्तिग्राह्यो हृषीकेशो भक्त्याऽऽत्मानं प्रयच्छति ॥२१॥
ततः सुवासितैस्तोयैः सर्वोषधिसमन्वितैः ॥
शेषोदकैः स्वर्णघटैः स्नानं देवस्य कारयेत् ॥२२॥
तीर्थोदकैः श्रद्धया च मनसा समुपाहृतैः ॥
अश्रद्धया रत्नराशिः प्रदत्तो निष्फलो भवेत् ॥२३॥
वार्यपि श्रद्धया दत्तमनंतत्वाय कल्पते ॥
चातुर्मास्ये विशेषेण श्रद्धया पूयते नरः ॥२४॥
 षष्ठ्या स्नानं ततः कार्यं पुनराचमनं भवेत् ॥
दद्याच्च वाससी स्वर्णसहिते भक्तिशक्तितः ॥२५॥
आच्छादितं जगत्सर्वं वस्त्रेणाच्छादितो हरिः ॥
चातुर्मास्ये विशेषेण वस्त्रदानं महाफलम् ॥२६॥
पुनराचमनं देयं यतये विष्णुरूपिणे ॥
वस्त्रदानं च सप्तम्या कार्यं विष्णोर्मुनीश्वर ॥
यज्ञोपवीतमष्टम्या तच्चाध्यात्मतया शृणु ॥
सूर्यकोटिसमस्पर्शं तेजसा भास्वरं तथा ॥२८॥
क्रोधाभिभूते विप्रे तु तडित्कोटिसभप्रभम् ॥
सूर्येन्दुवह्निसंयोगाद्गुणत्रयसमन्वितम् ॥२९॥
त्रयीमयं ब्रह्मविष्णुरुद्ररूपं त्रिविष्टपम् ॥
यस्य प्रभावाद्विप्रेंद्र मानवो द्विज उच्यते ॥३०॥
जन्मना जायते शूद्रः संस्काराद्द्विज उच्यते ॥
शापानुग्रहसामर्थ्यं तथा क्रोधः प्रसन्नता ॥३१॥
त्रैलोक्यप्रवरत्वं च ब्राह्मणादेव जायते ॥
न ब्राह्मणसमो बन्धुर्न ब्राह्मणसमा गतिः ॥३२॥
न ब्राह्मणसमः कश्चित्त्रैलोक्ये सचराचरे ॥
दत्तोपवीते ब्रह्मण्ये सुप्ते देवे जनार्दने ॥३३॥
सर्वजगद्ब्रह्ममयं संजातं नात्र संशयः ॥
नवम्या च सुलेपश्च कर्तव्यो यज्ञमूर्तये ॥३४॥
सुयक्षकर्दमैर्लिप्तो विष्णुर्येन जगद्गुरुः ॥
तेना प्यायितमेतद्धि वासितं यशसा जगत् ॥३५॥
तेजसा भास्करो लोके देवत्वं प्राप्य मानवः ॥
ब्रह्मलोकादिके लोके मोदते चंदनप्रदः ॥३६॥
चंदनालेपसुभगं विष्णुं पश्यंति मानवाः ॥
न ते यमपुरं यांति चातुर्मास्ये विशेषतः ॥३७॥
दशम्या पुष्पपूजा च भक्तिपूजा तथैव च ॥
पुष्पे चैव सदा लक्ष्मीर्वसत्येव निरंतरम् ॥३८॥
लक्ष्म्याः सर्वत्र गामिन्या दोषो नैव प्रजायते ॥
यथा सर्वमयो विष्णुर्न दोषैरनुभूयते ॥३९॥
तथा सर्वमयी लक्ष्मीः सतीत्वान्नैव हीयते ॥
प्रतिमासु च सर्वासु सर्वभूतेषु नित्यदा ॥४०॥
मनुष्यदेवपितृषु पुष्पपूजा विधीयते ॥
पुष्पैः संपूजितो येन हरिरेकः श्रिया सह ॥४१॥
आब्रह्मस्तंबपर्यंतं पूजितं तेन वै जगत् ॥
अतः सुश्वेतकुसुमैर्विष्णुं संपूजयेत्सदा ॥४२॥
चातुर्मास्ये विशेषेण भक्तियुक्तः सदा शुचिः ॥
भक्त्या सुविहिता ब्रह्मन्पुष्पपूजा नरैर्यदि ॥४३॥
यंयं काममभिध्यायेत्तस्य सिद्धिर्निरंतरा ॥
पुष्पैरुपचितं विष्णुं यद्यन्ये प्रणमंति च ॥४४॥
तेषामप्यक्षया लोकाश्चातुर्मास्येऽधिकं फलम् ॥
एकादश्या धूपदानं कर्तव्यं यतये हरौ ॥४५॥
वनस्पति रसो दिव्यो गंधाढ्यो गन्ध उत्तमः ॥
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥४६॥
इमं मंत्रं समुच्चार्य धूपमागुरुजं शुभम् ॥
दद्याद्भगवते नित्यं चातुर्मास्ये महाफलम् ॥४७॥
कर्पूरचन्दनदलैः सितामधुसमन्वितम् ॥
मांसीजटाभिः सहितं सुप्ते देवेऽथ सत्तम ॥४८॥
देवा घ्राणेन तुष्यंति धूपं घ्राणहरं शुभम् ॥
द्वादश्या दीपदानं तु कर्तव्यं मुक्तिमिच्छुभिः ॥४९॥
दीपः सर्वेषु कार्येषु प्रथमस्तेजसां पतिः ॥
दीपस्तमौघनाशाय दीपः कांतिं प्रयच्छति ॥५०॥
तस्माद्दीपप्रदानेन प्रीयतां मे जनार्दनः ॥
अयं पौराणजो मंत्रो वेदर्चेन समन्वितः ॥
दीपप्रदाने सकलः प्रयुक्तो नाशयेदघम् ॥५१॥
चातुर्मास्ये दीपदानं कुरुते यो हरेः पुरः ॥
तस्य पापमयो राशिर्निमेषादपि दह्यते ॥५२॥
तावत्पापानि गर्जंति तावद्बिभेति पातकी ॥
यावन्न विहितो भास्वान्दीपो नारायणालये ॥५३॥
दर्शनादपि दीपस्य सर्वसिद्धिर्नृणां भवेत् ॥५४॥
कामनां यां समुद्दिश्य दीपं कारयते हरौ ॥
सासा सिद्ध्यति निर्विघ्ना सुप्तेऽनंते गुणोत्तरम् ॥५५॥
पंचायतनसंस्थेषु तथा देवेषु पंचसु ॥
विहितं दीपदानं च चातुर्मास्ये महाफलम् ॥५६॥
एको विष्णुस्तुष्यते मुक्तिदाता नित्यं ध्यातः पूजितः संस्तुतश्च ॥
यच्चाभीष्टं यच्च गेहे शुभं वा तत्तद्देयं मुक्तिहेतोर्नृवर्यैः ॥५७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये तपोऽधिकारषोडशोपचारदीपमहिमवर्णनंनामैकोनचत्वारिंशदुत्तर द्विशततमोऽध्यायः ॥२३९॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP