संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २६९

नागरखण्डः - अध्याय २६९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


सूत उवाच ॥
कपालेशस्य माहात्म्यं श्रूयतामधुना द्विजाः ॥
चतुर्थस्य महाभागास्तत्र क्षेत्रे स्थितस्य च ॥१॥.
श्रुतमात्रेण येनात्र नरः पापात्प्रमुच्यते ॥२॥
ऋषय ऊचुः ॥
त्रयाणां चैव लिंगानां पूर्वोक्तानां महामते ॥
श्रुतास्माभिः समुत्पत्तिःकपालेश्वरवर्जिता ॥
केनायं स्थापितो देवः कपालेश्वरसंज्ञितः ॥३॥
तस्मिन्दृष्टे फलं किं स्यात्पूजिते च वदस्व नः ॥४॥
सूत उवाच ॥
इंद्रेण स्थापितः पूर्वमेष देवो द्विजोत्तमाः ॥
कपालेश्वसंज्ञस्तु ब्रह्महत्या विमुक्तये ॥५॥
तत्प्रभावत्सुरश्रेष्ठ स्तया मुक्ते द्विजोत्तमाः ॥
पापं पूरुषदानेन इत्येषा वैदिकी श्रुतिः ॥
अन्योऽपि यो नरस्तं च पूजयित्वा प्रभक्तितः ॥
प्रयच्छेद्ब्राह्मणेन्द्राय शुद्धये पापपूरुषम् ॥
स मुच्येत्पातकाद्घोराद्ब्रह्महत्यासमुद्भवात् ॥७॥
दक्षिणामूर्तिमासाद्य प्रोवाचेदं बृहस्पतिः ॥
हाटकेश्वरजे क्षेत्रे गत्वा तं वीक्ष्य शंकरम् ॥८॥
यो ददाति शरीरं च कृत्वा हेममयं ततः ॥
मुच्यते नात्र संदेहः पातकैः पूर्वसंयुतैः ॥९॥
ऋषय ऊचुः ॥
ब्रह्महत्या कथं जाता सुरेन्द्रस्य हि सूतज ॥
एतन्नः सर्वमाचक्ष्व परं कौतूहलं हि नः ॥१०॥
कपालेश्वरसंज्ञस्तु कथं देवोऽत्र संस्थितः ॥
ब्रह्महत्या कथं नष्टा तत्प्रभावाद्दिवस्पतेः ॥११॥
स पापपूरुषो देयो विधिना केन सूतज ॥
कैर्मंत्रैः स हि देयः कैश्चैव ह्युपस्करैः ॥१२॥
दर्शनात्पूजनाच्चापि किं फलं जायते नृणाम् ॥
अदत्त्वा स्वशरीरं वा पूजया केवलं वद ॥१३॥
सूत उवाच ॥
अहं वः कीर्तयिष्यामि कथामेतां पुरातनीम् ॥
यां श्रुत्वापि महाभागा नरः पापात्प्रमुच्यते ॥१४॥
अज्ञानाज्ज्ञानतो वापि विहितैरन्यजन्मजैः ॥
दृष्टमात्रेण येनात्र पातकात्तद्दिनोद्भवात् ॥
मुच्यते नात्र संदेहः सत्यमेतन्मयोदितम् ॥१५॥
पुरा त्वष्टुः सुतो जज्ञे वृत्रो हि द्विजसत्तमाः ॥
पुलोमदुहितुः पार्श्वाद्विभावर्याः सुवीर्यवान् ॥१६॥
स बाल एव धर्मात्मा आसीत्सर्वजनप्रियः ॥
दानवं भावमुत्सृज्य द्विजभक्तिपरायणः ॥१७॥
स गत्वा पुष्करारण्यं परमेण समाधिना ॥
तोषयामास देवेशं पद्मजं तपसि स्थितः ॥१८॥
तस्य तुष्टः स्वयं ब्रह्मा दृष्टिगोचरमागतः ॥
प्रोवाच वरदोऽस्मीति किं ते कृत्यं करोम्यहम् ॥१९॥
वृत्र उवाच ॥
यदि तुष्टोसि मे देव ब्राह्मणत्वं प्रयच्छ मे ॥
ब्राह्मणत्वं समासाद्य साधयामि परं पदम् ॥२०॥
तेन किंचिदसाध्यं न ब्राह्मण्येन भवेन्मम ॥
ब्राह्मणेन समं चान्यन्न किंचित्प्रतिभाति मे ॥२१॥
परमं दैवतं किंचिन्न विप्राद्विद्यते परम् ॥
तस्मान्मे हृत्स्थितं नान्यदपि राज्यं त्रिविष्टपे ॥२२॥
सूत उवाच ॥
तस्य तद्वचनं श्रुत्वा तुष्टस्तस्य पितामहः ॥
ब्राह्मणत्वं स्वयं दत्त्वा ततः प्रोवाच सादरम् ॥२३॥
मया त्वं विहितो विप्र पुत्र प्रकुरु वांछितम् ॥
प्रसादयस्व सततं ब्राह्मणान्ब्रह्मवित्तमान् ॥२४॥
ब्राह्मणैः सुप्रसन्नैश्च प्रीयंते सर्वदेवताः ॥
तस्मात्सर्वप्रयत्नेन पूजनीया द्विजोत्तमाः ॥२५॥
सूत उवाच ॥
एवमुक्तस्तदा तेन वृत्रोऽभूद्ब्राह्मणस्ततः ॥
ब्राह्म्या लक्ष्म्या समोपेतो ब्रह्मचर्यपरायणः ॥२६॥
तस्मिंस्तपसि संस्थे तु हता इंद्रेण दानवाः ॥
वंशोच्छेदे समापन्ने दानवानां महात्मनाम् ॥
ततस्ते दानवाः सर्वे पराभूताः सुरैस्ततः ॥
स्वं स्थानं संपरित्यज्य दुःखशोकसमन्विताः ॥२८॥
तन्मातरं पुरस्कृत्वा तत्सकाशमुपागताः ॥
स च तां मातरं दृष्ट्वा वृतां तैश्च समन्वितः ॥२९॥
दानवैश्च पराभूतैस्तथाभूतां च मातरम् ॥
किमागमनकृत्यं च दुःखितानां ममांतिके ॥३०॥
दानवा ऊचुः ॥
वयं देवैः पराभूता भवंतं शरणागताः ॥
क्व यामोऽन्यत्र चाऽस्माकं त्वां विना नास्ति संश्रयः ॥३१॥
तेषां तद्वचनं श्रुत्वा वृत्रः प्रोवाच सादरम् ॥
देवानहं हनिष्यामि गम्यतां तत्र मा चिरम् ॥३२॥
तवागमनकृत्यं च मातः कथय सांप्रतम् ॥३३॥
मातोवाच ॥
तथा कुरु महाभाग शीघ्रं दारपरिग्रहम् ॥
वंशवृद्धौ प्रमाणं चेद्वाक्यं तव ममोद्भवम् ॥३४॥
एष एव परो धर्म एष एव परो नयः ॥
पुत्रस्य जननीवाक्यं यत्करोति समाहितः ॥३५॥
तथा स्त्रीणां पतिं मुक्त्वा नान्यास्ति भुवि देवता ॥
जनन्यां जीवमानायां तथैव च सुतस्य च ॥३६॥
अतिक्रम्य च या नारी पतिं धर्मपरा भवेत् ॥
तत्सर्वं विफलं तस्या जायते नात्र संशयः ॥३७॥
पुत्रः स्वजननीवाक्यं योऽतिक्रम्य यथारुचि ॥
करोति धर्मकृत्यानि तानि सर्वाणि तस्य च ॥३८॥
भवंति च तथा नूनं वृथा भस्महुतं यथा ॥
अरण्ये रुदितानीव ऊषरे वापितानि च ॥३९॥
यथैव बधिरस्याग्रे गीतं नृत्यमचक्षुषः ॥
तद्वन्मातृमतादन्यकृतं पुत्रस्य धर्मजम् ॥४०॥
सर्वं कर्म न संदेहस्तेनाहं त्वामुपागता ॥
बंधूनां वचनात्पुत्र दुःखार्ता च विशेषतः ॥४१॥
किं वा ते बहुनोक्तेन भूयो भूयश्च पुत्रक ॥
आनृण्यं जायते यद्वत्पितॄणां तत्तथा शृणु ॥४२॥
तव वत्स प्रमाणं चेत्कुरुष्व च वचो मम ॥
तस्यास्तद्वचनं श्रुत्वा वृत्रः संचिंत्य चेतसि ॥४३॥
श्रुतिस्मृत्युक्तमार्गेण न मातुर्विद्यते परम् ॥
स तथेति प्रतिज्ञाय आनिनाय परिग्रहम् ॥४४॥
त्वष्टा तस्मै ददौ प्रीतस्ततो रत्नान्यनेकशः ॥
संख्याहीनानि तस्यैव कुप्याकुप्यमनंतकम् ॥४५॥
हस्त्यश्वयानकोशाढ्यं सोऽभिषिक्तः पदे निजे ॥
दानवानां महावीर्यो ब्राह्मण्येन समन्वितः ॥४६॥
अभिषिक्तं तदा वृत्रं स्वराज्ये तेऽसुरादयः ॥
श्रुत्वाभिषेकं संहृष्टास्तस्य वृत्रस्य बांधवाः ॥४७॥
दानवाश्च समाजग्मुर्ये तत्रासन्पुरोगताः ॥
पातालाद्गिरिदुर्गाच्च स्थलदुर्गेभ्य एव च ॥
कृतवैराः समं देवैः कोपेन महता वृताः ॥४८॥
ततः प्रोत्साहितः सर्वैर्दानवैः स महाबलः ॥
प्रस्थितः शत्रुनाशाय महेन्द्रभवनं प्रति ॥४९॥
शक्रोऽपि वृत्रमाकर्ण्य समायांतं युयुत्सया ॥
सन्मुखः प्रययौ हृष्टः सर्वदेवसमन्वितः ॥५०॥
ततः समभवद्युद्धं देवानां दानवैः सह ॥
मेरुपृष्ठे सुविस्तीर्णे नित्यमेव दिवानिशम् ॥५१॥
नित्यं पराजयो जज्ञे देवानां दानवैः सह ॥
तत्रोवाच गुरुः शक्र मा युद्धं कुरु देवप ॥५२॥
वृत्रोऽयं दारुणो युद्धे बलद्वयसमन्वितः ॥
चत्वारश्चाग्रतो वेदाः पृष्ठतः सशरं धनुः ॥५३॥
तेन जेयतमो दैत्यस्तवैव च महाहवे ॥
तस्मात्संधानमेतेन त्वं कुरुष्व शचीपते ॥५४॥
ततो विश्वासमाया तं जहि वज्रेण दानवम् ॥
षडुपायै रिपुर्वध्य इति शास्त्रनिदर्शनम् ॥५५॥
भुंजानश्च शयानश्च दत्त्वा कन्यामपि स्वकाम् ॥
विप्रदानेन संयोज्य कृत्वापि शपथं गुरुम् ॥
मायाप्रपंचमासाद्य तस्मादेवं समाचर ॥५६॥
इन्द्र उवाच ॥
यद्येवं च स्वयं गत्वा त्वं विश्वासे नियोजय ॥
तव वाक्येन विश्वासं नूनं यास्यति दानवः ॥५७॥
सूत उवाच ॥
शक्रस्य मतमाज्ञाय प्रतस्थे च बृहस्पतिः ॥
यत्र वृत्रः स्थितो दैत्यो युद्धार्थं कृतनिश्चयः ॥५८॥
वृत्रोऽपि तं समालोक्य स्वयं प्राप्तं बृहस्पतिम् ॥
सदैव द्विजभक्तः स हृष्टात्मा समपद्यत ॥
विशेषात्प्रणिपत्योच्चैर्वाक्यमेतदभाषत ॥५९॥
वृत्र उवाच ॥
स्वागतं ते द्विजश्रेष्ठ किं करोमि प्रशाधि माम् ॥
प्रिया मे ब्राह्मणा यस्मात्तस्मात्कीर्तय सांप्रतम् ॥६०॥
बृहस्पतिरुवाच ॥ संदिग्धो विजयो युद्धे यस्माद्दैवेन सत्तम ॥
तस्मात्कुरु महेंद्रेण व्यवस्थां वचनान्मम ॥६१॥
त्वं भुंक्ष्व भूतलं कृत्स्नं शक्रश्चापि त्रिविष्टपम् ॥
व्यवस्थयाऽनया नित्यं वर्तितव्यं परस्परम् ॥६२॥
वृत्र उवाच ॥
अहं तव वचो ब्रह्मन्करिष्यामि सदैव हि ॥
संगमं कुरु शक्रेण सांप्रतं मम सद्द्विज ॥६३॥
सूत उवाच ॥
अथ शक्रं समानीय बृहस्पतिरुदारधीः ॥
वृत्रेण सह संधानं चक्रे चैव परस्परम् ॥६४॥
एकारिमित्रतां गत्वा तावुभौ दैत्यदेवपौ ॥
प्रहृष्टौ गतवन्तौ तौ ततश्चैव निजं गृहम् ॥६५॥
अथ शक्रच्छलान्वेषी सदा वृत्रस्य वर्तते ॥
न च्छिद्रं लभते क्वापि वीक्षमाणोपि यत्नतः ॥६६॥
कथंचिदपि सोऽभ्येति तत्सकाशं पुरंदरः ॥
किंचिच्छिद्रं समासाद्य तत्प्रतापेन दह्यते ॥६७॥
इंद्र उवाच ॥
न शक्नोमि च तं दैत्यं वीक्षितुं च कथंचन ॥
तेजसा सर्वतो व्याप्तं तत्कथं सूदयाम्यहम् ॥६८॥
तस्मात्कंचिदुपायं मे तद्वधार्थं प्रकीर्तय ॥
यथा शक्नोमि तत्सोढुं तेजस्तस्य दुरात्मनः ॥६९॥
सूत उवाच ॥
तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा बृहस्पतिः ॥
ततः प्रोवाच तं शक्रं विनयावनतं स्थितम् ॥७०॥
बृहस्पतिरुवाच ॥
तस्य ब्राह्म्यं स्थितं तेजः सम्यग्गात्रे पुरंदर ॥
वीक्षितुं नैव शक्नोषि तेन त्वं त्रिदशाधिप ॥७१॥
तथा ते कीर्तयिष्यामि तस्योपायं वधोद्भवम् ॥
वधयिष्यसि येनात्र तं त्वं दानवसत्तमम् ॥७२॥
प्राचीसरस्वतीतीरे पुष्करारण्यमाश्रितः ॥
दधीचिर्नाम विप्रर्षिः शतयोजनमुच्छ्रितः ॥७३ ॥.
तत्र नित्यं तपः कुर्वन्स्तौति नित्यं पितामहम् ॥
स निर्विण्णो मुनिश्रेष्ठः प्राणानां धारणे हरे ॥७४॥
चिरंतनो मुनिः स स्याज्जरयातिसमावृतः ॥
तं प्रार्थय द्रुतं गत्वा तस्यास्थीनि गुरूणि च ॥७५॥
स ते दास्यस्त्यसंदिग्धं त्यक्त्वा प्राणानतिप्रियान् ॥
तस्यास्थिभिः प्रहरणं वज्राख्यं ते भविष्यति ॥७६॥
अमोघं ते ततो नूनं त्वं वृत्रं सूदयिष्यसि ॥
तस्य वज्रस्य तत्तेजो ब्रह्मतेजोऽभिबृंहितम् ॥
तेन वृत्रोद्भवं तेजः प्रशमं संप्रयास्यति ॥७७॥
सूत उवाच ॥
तच्छ्रुत्वा सत्वरं शक्रः सर्वैर्दैवगणैः सह ॥
जगाम पुष्करारण्ये यत्र प्राची सरस्वती ॥७८॥
त्रयस्त्रिंशत्समोपेता तीर्थानां कोटिभिर्युता ॥
दधीचेराश्रमं तत्र सोऽविशच्चित्रसंयुतम् ॥७९॥
क्रीडंते नकुलैः सर्पा यत्र तुष्टिं गता मिथः ॥
मृगाः पंचाननैः सार्धं वृषदंशास्तथाऽऽखुभिः ॥८०॥
उलूक सहिताः काका मिथो द्वेषविवर्जिताः ॥
प्रभावात्तस्य तपसो दधीचेः सुमहात्मनः ॥८१॥
दधीचिरपि चालोक्य देवाञ्छक्रपुरोगमान् ॥
समायातान्प्रहृष्टात्मा सत्वरं संमुखोभ्यगात् ॥८२॥
ततश्चार्घ्यं समादाय प्रणिपत्य मुहुर्मुहुः ॥
शक्रमभ्यागतं प्राह किं ते कृत्यं करोम्यहम् ॥८३॥
गृहायातस्य देवेश तच्छीघ्रं मे निवेदय ॥८४ ॥.
इंद्र उवाच ॥
आतिथ्यं कुरु विप्रेंद्र गृहायातस्य सन्मुने ॥
त्वदस्थीनि निजान्याशु मम देह्यविकल्पितम् ॥८५॥
अतदर्थमहं प्राप्तस्त्वत्सकाशं मुनीश्वर ॥
अस्थिभिस्ते परं कार्यं देवानां सिद्धिमेष्यति ॥८६॥
सूत उवाच ॥
इंद्रस्य तद्वचः श्रुत्वा दधीचिस्तोषसंयुतः ॥
ततः प्राह सहस्राक्षं सर्वैर्देवैः समन्वितम् ॥८७॥
अहो नास्ति मया तुल्यः सांप्रतं भुवि कश्चन ॥
पुण्यवान्यस्य देवेशः स्वयमर्थी गृहागतः ॥८८॥
धन्यानि च ममास्थीनि यानि देवेश ते हितम् ॥
करिष्यंति सदा कार्यं रक्षार्थं त्रिदिवौकसाम् ॥८९॥
एषोऽहं संप्रदास्यामि प्रियान्प्राणान्कृते तव ॥
गृहाण स्वेच्छयाऽस्थीनि स्वकार्यार्थं पुरंदर ॥९०॥
एवमुक्त्वा महर्षिः स ध्यानमाश्रित्य सत्वरम् ॥
ब्रह्मरंध्रेण निःसार्य प्राणमात्मानमत्यजत् ॥९१॥
तदात्मना परित्यक्तं तस्य गात्रं च तत्क्षणात् ॥
पतितं मेदनीपृष्ठे व्यसु तद्द्विजसत्तमाः ॥९१॥
तस्मिन्नेव काले तु तस्यास्थीनि शतक्रतुः ॥
प्रगृह्य विश्वकर्माणं ततः प्रोवाच सादरम् ॥९३॥
एतैरस्थिभिः शीघ्रं मे कुरु त्वं वज्रमायुधम् ॥
येन व्यापादयाम्याशु वृत्रं दानवसत्तमम् ॥९४॥
तस्य तद्वचनं श्रुत्वा विश्वकर्मा त्वरान्वितः ॥
यथायुधं तथा चक्रे वज्राख्यं दारुणाकृति ॥९५॥
षडस्रि शतपर्वाख्यं मध्ये क्षामं विभीषणम् ॥
प्रददौ च ततस्तस्मै सहस्राक्षाय धीमते ॥९६॥
अथ तं स समादाय द्वादशार्कसमप्रभम् ॥
समाधिस्थं चरैर्ज्ञात्वा वृत्रं संध्यार्चने रतम् ॥९७॥
ततश्च पृष्ठभागं स समाश्रित्य त्रिलोकराट् ॥
चिक्षेप वज्रमुद्दिश्य तद्वधार्थं समुत्सुकः ॥९८॥
स हतस्तेन वज्रेण दानवो भस्मसाद्गतः ॥
शक्रोपि हतमज्ञात्वा भयात्तस्याथ दुद्रुवे ॥९९॥
मनुष्यरहिते देशे विषमे गुल्मसंवृते ॥
लिल्ये शक्रस्तदा सर्वं मेने वृत्रमयं जगत् ॥१००॥
एतस्मिन्नंतरे देवाः पश्यंतः सर्वतो दिशम् ॥
सिद्धचारणगन्धर्वा आजग्मुश्च शतक्रतुम् ॥१०१॥
ततः कृच्छ्राच्च तैर्दृष्टः शक्रोऽसौ गहने वने ॥
निलीनो भयसंत्रस्तो गुल्ममध्ये व्यवस्थितः ॥१०२॥
देवा ऊचुः ॥
किं त्वं भीतः सहस्राक्ष वृत्रोऽयं घातितस्त्वया ॥
परिवारेण सर्वेण वीक्षितोऽस्माभिरेव च ॥१०३॥
अस्मादागच्छ गच्छामो गृहं प्रति पुरंदर ॥
कुरु त्रैलोक्यराज्यं त्वं सांप्रतं हतकण्टकम् ॥१०४॥
तच्छ्रुत्वाऽथ विनिष्क्रांतो गुल्ममध्याच्छतक्रतुः ॥
हृष्टरोमा हतं श्रुत्वा वृत्रं दानवसत्तमम् ॥
अथ पश्यंति यावत्तं देवाः सर्वे शतक्रतुम् ॥
तावत्तेजोविहीनं तद्गात्रं दुर्गंधितायुतम् ॥१०६॥
दृष्ट्वा लोकगुरुर्ब्रह्मा देवान्सर्वानुवाच ह ॥
शक्रोऽयं सांप्रतं व्याप्तः पापया ब्रह्महत्यया ॥१०७॥
यदनेन हतो वृत्रो ब्रह्मभूतश्छलेन सः ॥
तस्मात्त्याज्यः सुदूरेण नो चेत्पापमवाप्स्यथ ॥१०८॥
ब्रह्मघ्नेन समं स्पर्शः संभाषोऽथ विनिर्मितः ॥
पापाय जायते पुंसां तस्मात्तं दूरतस्त्यजेत् ॥१०९॥
आस्तां संस्पर्शनं तस्य संभाषो वा विशेषतः ॥
दर्शनं वापि तस्याहुः सर्वपापप्रदं नृणाम् ॥११०॥
सूत उवाच ॥.
तच्छ्रुत्वा ब्रह्मणो वाक्यं शक्रो दृष्ट्वाऽऽत्मनस्तनुम् ॥
तेजसा संपरित्यक्तां दुर्गन्धेन समावृताम् ॥१११॥
ततः प्रोवाच लोकेशं दीनः प्रणतकन्धरः ॥
तवाहं किंकरो देव त्वयेंद्रत्वे नियोजितः ॥११२॥
तस्मात्कुरु प्रसादं मे ब्रह्महत्याविनाशनम् ॥
प्रायश्चित्तं विभो ब्रूहि येन शुद्धिः प्रजायते ॥११३ ॥
ब्रह्मोवाच ॥
अष्टषष्टिषु तीर्थेषु त्वं स्नात्वा बलसूदन ॥
आत्मानं हेमजं देहि पापपूरुषसंज्ञितम् ॥११४॥
मंत्रवत्तं यथोक्तं च ब्राह्मणाय महात्मने ॥
स्नात्वा पुण्यजले तीर्थे ब्रह्मघ्नोऽहमिति ब्रुवन् ॥११५॥
स्नातमात्रस्य ते हस्ताद्यत्र तत्पतति क्षितौ ॥
तेजः संजायतेगात्रे दुर्गंधश्च प्रणश्यति ॥११६॥
तस्मिंस्तीर्थे त्वया तच्च स्थाप्यं शक्र कपालकम् ॥
महेश्वरस्य नाम्ना च पूजनीयं ततः परम् ॥११७॥
पंचभिर्वक्त्रमंत्रैश्च ततो देयाऽऽत्मतस्तनूः ॥
हेमोद्भवा द्विजेन्द्राय ततः शुद्धिमवाप्स्यसि ॥११८॥
शक्रस्तु तद्वचः श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः ॥
कपालं वृत्रजं गृह्य तीर्थयात्रां ततो गतः ॥११९॥
अष्टषष्टिषु तीर्थेषु गच्छन्स च सुरेश्वरः ॥
हाटकेश्वरजे क्षेत्रे समायातः क्रमेण च ॥१२०॥
विश्वामित्रह्रदे स्नात्वा यावत्तस्माद्विनिर्गतः ॥
कपालं पतितं तस्मात्स्वयमेव हतात्मनः ॥१२१॥
ततस्तं पूजयामास मन्त्रैर्वक्त्रसमुद्भवैः ॥
सर्वपापहरैः पुण्यैर्यथोक्तैर्ब्रह्मणा पुरा ॥१२२॥
एतस्मिन्नेव काले तु दुर्गन्धो नाशमाप्तवान् ॥
तच्छरीराद्द्विजश्रेष्ठा महत्तेजो व्यजायत ॥१२३॥
एतस्मिन्नन्तरे ब्रह्मा सह देवैः समागतः ॥
ब्रह्महत्याविमुक्तं तं ज्ञात्वा सर्वसुराधिपम् ॥१२४॥
श्रीब्रह्मोवाच ॥
ब्रह्महत्याकृतो दोषो गतस्ते सुरसत्तम ॥
शेषपापविशुद्ध्यर्थं स्वर्णदानं प्रयच्छ भोः ॥१२५॥
कपालमेतद्देशेऽत्र यत्त्वया परिपूजितम् ॥
वृत्रस्य पंचभिर्मंत्रैर्हरवक्त्रसमुद्भवैः ॥१२६॥
प्रदास्यसि ततो भक्त्या हेमजामात्मनस्तनुम् ॥
विधिना मंत्रयुक्तेन तव पापं प्रयास्यति ॥
यद्यत्पूर्वकृतं कृत्स्नं प्रदाय ब्राह्मणाय भोः ॥१॥
एवमुक्तस्ततः शक्रो ब्रह्मणा सुरसंनिधौ ॥
तथेत्युक्त्वा तु तत्कालं पापपिंडं निजं ददौ ॥१२८॥
कृत्वा हेममयं विप्रा ब्राह्मणाय महात्मने ॥
गर्तातीर्थसमुत्थाय वाताख्यायाहिताग्नये ॥१२९॥
एतस्मिन्नंतरे विप्रो गर्हितः सोऽथ नागरैः ॥.
धिग्धिक्पाप वृथा वेदा ये त्वया पारिताः पुरा ॥१३०॥
नास्माभिः सह संपर्कं कदाचित्त्वं करिष्यसि ॥
गृहीतं यत्त्वया दानं पापपिंडसमुद्भवम् ॥१३१॥
ततः प्रोवाच विप्रः स उपमन्युकुलोद्भवः ॥
विवर्णवदनो भूत्वा नाम्ना ख्यातः स वातकः ॥१३२॥
त्वया शक्र प्रदत्तो मे पापपिंडः स्वको यतः ॥
मया प्रतिग्रहस्तेन दाक्षिण्येन कृतस्तव ॥१३३॥
न लोभेन सुरश्रेष्ठ पश्यतस्ते विगर्हितः ॥
अहं च ब्राह्मणैः सर्वैरेतैर्नगरवासिभिः ॥१३४॥
तस्मान्नाहं ग्रहीष्यामि एतं तव प्रतिग्रहम् ॥१३५॥
भूयोऽपि तव दास्यामि न त्वं गृह्णासि चेत्पुनः ॥
ब्रह्मशापं प्रदास्यामि दारुणं च क्षयात्मकम् ॥१३६॥
इंद्र उवाच ॥
वेदागंपारगो विप्रो यदि कुर्यात्प्रतिग्रहम् ॥
न स पापेन लिप्येत पद्मपत्रमिवांभसा ॥१३७॥
तस्मात्ते पातकं नास्ति शृणुष्वात्र वचो मम ॥
एतैस्त्वं गर्हिते यस्माद्ब्राह्मणैर्नगरोद्भवैः ॥१३८॥
एतेषां सर्वकृत्येषु प्रधानस्त्वं भविष्यसि ॥
एतेषां पुत्रपौत्रा ये भविष्यंति तथा तव ॥१३९॥
ते सर्वे चाज्ञया तेषां वर्तयिष्यंत्यसंशयम् ॥
युष्मद्वाक्यविहीनं यत्कृत्यं स्वल्पमपि द्विज ॥१४०॥
तेषां संपत्स्यते वन्ध्यं यथा भस्महुतं तथा ॥
कपालमोचनं नाम ख्यातमेतद्भविष्यति ॥१४१॥
ये तु संस्मृत्य मनुजाः कपालं मम सद्द्विज ॥
तत्र श्राद्धं करिष्यंति ते नरा मुक्तिसंयुताः ॥
श्राद्धपक्षे विशेषेण प्रयास्यंति परांगतिम् ॥१४२॥
स्थानबाह्यद्विजातीनां कुले दारपरिग्रहम् ॥
कृत्वा त्वद्गोत्रसंभूता ब्राह्मणा मत्प्रसादतः ॥१४३॥
व्यवहार्या भविष्यंति नगरे सर्वकर्मसु ॥
एवमुक्त्वा सहस्राक्षस्ततश्चादर्शनं गतः ॥१४४॥
वातोपि तेन वित्तेन प्रतिग्रहकृतेन च ॥
चकार तत्र प्रासादं देवदेवस्य शूलिनः ॥
ततः प्रोवाच शक्रस्तान्ब्राह्मणान्नगरोद्भवान् ॥
कपालमोचने स्नात्वा यो देवं ह्यर्चयिष्यति ॥१४६॥
ब्रह्महत्योद्भवं पापं तस्य नश्यत्यसंशयम् ॥
महापातकयुक्तो वा विपाप्मा संभविष्यति ॥१४७॥
स तथेति प्रतिज्ञाय ब्राह्मणान्नगरोद्भवान् ॥
तत्रैव स्वाश्रमं कृत्वा पूजयामास शंकरम् ॥१४८॥
ततःप्रभृति यत्किंचित्तेषां कृत्यं प्रजायते ॥
तद्वाक्येन प्रकुर्वंति तत्र ये नागरः स्थिताः ॥१४९॥
एतस्मात्कारणाज्जातो मध्यगो द्वितीयस्त्विह ॥१५०॥
एतद्वः सर्वमाख्यातमाख्यानं पापनाशनम् ॥
कपालेश्वरदेवस्य शृण्वतां पठतां नृणाम् ॥१५१॥
यथा देवेश्वरस्यात्र पापं नष्टं महात्मनः ॥
ब्रह्महत्या यथा नष्टा तस्मिंस्तीर्थे द्विजोत्तमाः ॥१५२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वातकेश्वरक्षेत्रकपालमोचनेश्वरोत्पत्तिमाहात्म्यवर्णनं नामैकोनसप्तत्युत्तरद्विशततमोऽध्यायः ॥२६९॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP