संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २२५

नागरखण्डः - अध्याय २२५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ आनर्त उवाच ॥
एकोद्दिष्टविधिं ब्रूहि मम त्वं वदतां वर ॥
पार्वणं तु यथा प्रोक्तं विस्तरेण महामते ॥१॥
 ॥ भर्तृयज्ञ उवाच ॥
त्रीणि संचयनादर्वाक्तानि त्वं शृणु सांप्रतम् ॥
यस्मिन्स्थाने भवेन्मृत्युस्तत्र श्राद्धं तु कारयेत् ॥२॥
एकोद्दिष्टं ततो मार्गे विश्रामो यत्र कारितः ॥
ततः संचयनस्थाने तृतीयं श्राद्धमिष्यते ॥३॥
प्रथमेऽह्नि द्वितीयेह्नि पञ्चमे सप्तमे तथा ॥
नवमे दशमे चैव नव श्राद्धानि तानि च ॥४॥
वैतरिण्याश्च संप्राप्तौ प्रेतस्तृप्तिमवाप्नुयात् ॥
एकोद्दिष्टं दैवहीनमेकार्घैकपवित्रकम् ॥५॥
आवाहनपरित्यक्तं कार्यं पार्थिवसत्तम ॥
तृप्तिप्रश्नस्तथा कार्यः स्वदितं च सकृत्ततः ॥६॥
अभिरम्यतामिति मन्त्रेण ब्राह्मणस्य विसर्जनम् ॥
अच्छिन्नाग्रमभिन्नाग्रं कुर्याद्दर्भतृणद्वयम् ॥
पवित्रं तद्विजानीयादेकोद्दिष्टे विधीयते ॥७॥
सर्वत्रैव पितः प्रोक्तं पिता तर्पणकर्मणि ॥
पित्र्ये संकल्पकाले च पितुरक्षय्यदापने ॥८॥
गोत्रं स्वरांतं सर्वत्र गोत्रे तर्पणकर्मणि ॥
गोत्राय कल्पनविधौ गोत्रस्याक्षय्यदापने ॥९॥
शर्मन्नर्घ्यादिकर्तव्ये शर्मा तर्पणकर्मणि ॥
शर्मणे सस्यदाने च शर्मणोऽक्षय्यके विधौ ॥१०॥
मातर्मात्रे तथा मातुरासने कल्पनेऽक्षये ॥
गोत्रे गोत्रायै गोत्रायाः प्रथमाद्या विभक्तयः ॥११॥
देवि देव्यै तथा देव्या एवं मातुश्च कीर्तयेत् ॥
प्रथमा च चतुर्थी च षष्ठी स्याच्छ्राद्धसिद्धये ॥१२॥
विभक्तिरहितं श्राद्धं क्रियते वा विपर्ययात् ॥
अकृतं तद्विजानीयात्पितृणां नोपतिष्ठति ॥१३॥
तस्मात्सर्वप्रयत्नेन ब्राह्मणेन विजानता ॥
विभक्तिभिर्यथोक्ताभिः श्राद्धे कार्यो विधिः सदा ॥१४॥
ततः सपिंडीकरणं वत्सरा दूर्ध्वतः स्थितम् ॥
वृद्धिर्वाऽऽगामिनी चेत्स्यात्तदार्वागपि कारयेत् ॥१५॥
पार्वणोक्तविधानेन त्रिदैवत्यमदैविकम् ॥
प्रेतमुद्दिश्य कर्तव्यमेको द्दिष्टं च पार्थिव ॥१६॥
एकेनैव तु पाकेन मम चैतन्मतं स्मृतम् ॥
अर्घपात्रं समादाय यत्प्रेतार्थं प्रकल्पितम् ॥१७॥
पितृपात्रेषु त्रिष्वेव त्रिधा तच्च परिक्षिपेत् ॥
एवं पिंडं त्रिधा कृत्वा पितृपिंडेषु च त्रिषु ॥१८॥
ये समानेति मन्त्राभ्यां न स्यात्प्रेतस्ततः परम् ॥
अवनेजनं ततः कृत्वा पितृपूर्वं यथाक्रमम् ॥१९॥
गन्धधूपादिकं सर्वं पुनरेव प्रदापयेत् ॥
पितृपूर्वं समुच्चार्य वर्जयेच्च चतुर्थकम् ॥२०॥
केचिच्चतुर्थं कुर्वंति प्रेतं च स्वपितुस्ततः ॥
पितुः पूर्वं भवेच्छ्राद्धं परं नैतन्मतं मम ॥२१॥
सपिण्डीकरणादूर्ध्वमेकोद्दिष्टं न कारयेत् ॥
क्षयाहं च परित्यज्य शस्त्राहत चतुर्दशीम् ॥२२॥
यः सपिण्डीकृतं प्रेतं पृथक्पिण्डे नियोजयेत् ॥
अकृतं तद्विजानीयात्पितृहा चोपजायते ॥२३॥
पिता यस्य तु निर्वृत्तो जीवते च पितामहः ॥
पितुः स नाम संकीर्त्य कीर्तयेत्प्रपितामहम् ॥२४॥
पितामहस्तु प्रत्यक्षं भुक्त्वा गृह्णाति पिण्डकम् ॥
पितामहक्षयाहे च पार्वणं श्राद्धमिष्यते ॥२५॥
जनकं स्वं परित्यज्य कथंचिन्नास्य दीयते ॥
तस्याकृतेन श्राद्धेन न स्वल्पं पितृतो भयम् ॥२६॥
अमावास्यासु सर्वासु मृते पितरि पार्वणम् ॥
नभस्यापरपक्षस्य मध्ये चैतदुदाहृतम् ॥२७॥
यावत्सपिंडता नैव न तावच्छ्राद्धमाचरेत् ॥२८॥
जनके मृत्युमापन्ने श्राद्धपक्षे समागते ॥
पितामहादेः कर्तव्यं श्राद्धं यन्नैकपिंडता ॥२९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सपिंडीकरणविधिवर्णनंनाम पञ्चविंशत्युत्तरद्विशततमोऽध्यायः ॥२२५॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP