संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २१४

नागरखण्डः - अध्याय २१४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
तथान्योपि च तत्रास्ति विश्वामित्रप्रतिष्ठितः ॥
गणनाथो द्विजश्रेष्ठाः सर्वसिद्धिप्रदो नृणाम् ॥१॥
माघमासे चतुर्थ्यां च शुक्लायां पूजयेत्तु यः ॥
स च संवत्सरं यावत्सर्वै विघ्नैर्विमुच्यते ओ ॥ २॥
 ॥ ऋषय ऊचुः ॥
गणनाथस्य चोत्पत्तिं सांप्रतं सूत नो वद ॥
कथमेष समुत्पन्नः किं माहात्म्यः प्रकीर्तितः ॥३॥
 ॥सूत उवाच ॥
एष चोत्पादितो गौर्या निजांगमलतः स्वयम् ॥
क्रीडार्थं मानुषैरंगैर्मातंगाननशोभितः ॥४॥
चतुर्हस्तसमोपेत आखुवाहनगस्तथा ॥
कुठारहस्तश्च तथा मोदकाशनतोषकृत् ॥५॥
सर्वसिद्धिप्रदो लोके भक्तानां च विशेषतः ॥
एष पूर्वं प्रभोः कार्ये संग्रामे तारकामये ॥६॥
संग्राममकरोद्रौद्रं न कृतं यच्च केनचित् ॥
निहता दानवाः सर्वे संख्यया परिवर्जिताः ॥७॥
ततः शक्रेण तुष्टेन प्रोक्तः संग्रामभूमिपः ॥
क्षत विक्षतसर्वांगो रुधिरेण परिप्लुतः ॥८॥
अस्मदर्थे त्वया युद्धं यत्कृतं सुगजानन ॥
निहता दानवाः सर्वे संख्यया परिवर्जिताः ॥९॥
तस्मात्त्वं सर्वदेवानामपि पूज्यो भविष्यसि ॥
किंपुनर्मानुषाणां च ये नित्यं विघ्नसंप्लुताः ॥१०॥
ये त्वां संपूजयिष्यंति कार्यारंभेषु सर्वतः ॥
कार्यसिद्धिर्न संदेहस्तेषां भूयाद्गिरा मम ॥११॥
एवमुक्त्वा सहस्राक्षो विससर्जाथ तं तदा ॥
संमान्य बहुमानेन गौरीशंकरपार्श्वतः ॥१२॥
अयमर्थः पुरा पृष्टो रोहिताश्वेन धीमता ॥
सर्वविप्रविनाशार्थं मार्कंडेयं महामुनिम् ॥१३॥
तमेवार्थं महाभागाः कथयिष्ये यथार्थतः ॥
तच्छृणुध्वं पुरावृत्तं सर्वं सर्वे समाहिताः ॥१४॥
 ॥ रोहिताश्व उवाच ॥
भगवन्नत्र ये मर्त्याः सर्वे विघ्नसमन्विताः ॥
शुभकृत्येषु सर्वेषु जायंते शुचयोऽपि च ॥१५॥
प्रारब्धेषु च कार्येषु धर्मजेषु विशेषतः ॥
तानि विघ्नानि जायन्ते यैस्तत्कार्यं न सिध्यति ॥१६॥
तस्माद्विघ्नविनाशाय किंचिन्मे व्रतमा दिश ॥
व्रतं वा नियमो वाऽथ तपो वा दानमेव च ॥१७॥
सकृच्चीर्णेन येनात्र यावज्जीवति मानवः ॥
तावन्न जायते विघ्नमाजन्ममरणांतिकम् ॥१८॥
 ॥ मार्कण्डेय उवाच ॥
अत्र ते कीर्तयिष्यामि सर्वविघ्नविनाशनम् ॥
व्रतं सर्वगुणोपेतं सर्वपापप्रणाशनम् ॥
विश्वामित्रेण सञ्चीर्णं यत्पुरा भावितात्मना ॥१९॥
विश्वामित्र इति ख्यातो गाधिपुत्रः प्रतापवान् ॥
वसिष्ठेन समं तस्य वैरमासीन्महात्मनः ॥२०॥
ब्राह्मण्यार्थे न सम्प्रोक्तः कथंचित्स महातपाः ॥
ब्राह्मणस्त्वं वसिष्ठेन ततो वैरमजायत ॥२१॥
 ॥ रोहिताश्व उवाच ॥
कस्मान्न प्रोक्तवान्विप्रो वसिष्ठस्तु कथंचन ॥
ब्राह्मणः स परं प्रोक्तोब्रह्मादिभिरपि स्वयम् ॥२२॥
 ॥ मार्कण्डेय उवाच ॥
क्षत्रियश्च स्थितः पूर्वं विश्वामित्रो महीपतिः ॥
मृगयासु परिभ्रांतो वसिष्ठस्य तदाऽऽश्रमम् ॥
प्रविष्टः क्षुत्पिपासार्त्तः स तेनाथ प्रपूजितः ॥२३॥
तस्यासीन्नन्दिनीनाम धेनुः कामदुघा सदा ॥
सा सूते वाञ्छितं सद्यो यद्वसिष्ठोऽभिवाञ्छति ॥२४॥
तत्प्रभावात्स भूपालः सभृत्यबलवाहनः ॥
तेन तृप्तिपरा नीतो मिष्टान्नैर्विविधैस्ततः ॥२५॥
पार्थिवोऽयमिति ज्ञात्वा ह्यर्घ्याद्यैर्भोजनैः स च ॥
सोऽपि दृष्ट्वा प्रभावं तं सर्वं धेनोश्च संभवम् ॥
प्रार्थयामास तां मूल्यैर्गजवाजिसमु द्भवैः ॥२६॥
न ददौ स तदा विप्रः साम्ना दानेन वा पुनः ॥
भेदेन च ततो दण्डं योजयामास वै नृपः ॥२७॥
कालयामास तां धेनुं ततः कोपात्स पार्थिवः ॥२८॥
साऽब्रवीन्नीयमानाऽथ वसिष्ठं किं त्वया विभो ॥
दत्ताहमस्य नृपतेर्यन्मां नयति यत्नतः ॥२९॥
 ॥ वसिष्ठ उवाच ॥
न मया त्वं महाभागे दत्ता चास्य महीपतेः ॥
बलान्नयति यद्येष तस्माद्युक्तं समाचर ॥३०॥
तच्छ्रुत्वा कोपसंयुक्ता नन्दिनी धेनुरुत्तमा ॥
जृंभां चकार तत्सैन्यं समुद्दिश्य नृपोद्भवम् ॥३१॥
धूमावर्तिस्ततो जाता तस्या वक्त्रात्ततः परम् ॥
ततो ज्वाला महारौद्रास्ततो योधाः सहस्रशः ॥३२॥
नानाशस्त्रधरा रौद्रा यमदूता यथा च ते ॥
पुलिन्दा बर्बराभीराः किराता यवनाः शकाः ॥३३॥
ते प्रोचुस्तां वदास्माकं कस्मात्सृष्टा वयं शुभे ॥३४॥
 ॥ नन्दिन्युवाच ॥
एते मां ये बलात्पापा नयंति नृपसेवकाः ॥
तान्निघ्नन्तु समादेशान्नान्यद्वांछामि किंचन ॥३५॥
ततस्तैस्तस्य तत्सैन्यं विश्वामित्रस्य सूदितम् ॥
युध्यमानं महाराज दशरात्रेण संयुगे ॥३६॥
विश्वामित्रोऽपि तद्दृष्ट्वा ब्राह्म्यं बलमनुत्तमम् ॥
प्रतिज्ञामकरोत्तत्र तारेण सुस्वरेण च ॥३७॥
अथाहं संभविष्यामि ब्राह्मणो नात्र संशयः ॥
ममापि जायते येन प्रभावश्चेदृशोऽद्भुतः ॥३८॥
तस्मात्तपः करिष्यामि यदसाध्यं सुरैरपि ॥
स्वपुत्रं स्वे पदे धृत्वा ततश्चक्रे तपो महत् ॥३९॥
ब्राह्मण्यार्थं महारौद्रं सुमहद्दुष्करं तपः ॥
ब्राह्मण्यं तेन नैवाप्तं वैलक्ष्यं परमं गतः ॥४०॥
ततः कैलासमासाद्य देवदेवं महेश्वरम् ॥
सम्यगाराधयामास गौरीयुक्तं महेश्वरम् ॥४१॥
अहं तपः करिष्यामि ब्राह्मण्यस्य कृते प्रभो ॥
त्वदीये पर्वतश्रेष्ठे कैलासे शरणं गतः ॥४२॥
तस्माद्विघ्नस्य मे रक्षां देवदेवः प्रयच्छतु ॥
यथा नो नाशमायाति तपः सर्वं कृतं महत् ॥४३॥
 ॥ श्रीभगवानुवाच ॥
शुद्ध्यर्थं चैव यत्कार्यं कार्येस्मिन्नृपसत्तम ॥
विनायकसमुद्भूतां तत्त्वं पूजां समाचर ॥४४॥
येन ते जायते सिद्धिः सम्यग्ब्राह्मण्यसंभवा ॥४५॥
 ॥ विश्वामित्र उवाच ॥
तद्वदस्व सुरश्रेष्ठ तथा तस्य करोम्यहम् ॥
पूर्वं पूजां गणेशस्य सर्वविघ्नप्रशान्तये ॥४६॥
 ॥ श्रीभगवानुवाच ॥
एष गौर्या पुरा कृत्वा निजांगोद्वर्तनं कृतः ॥
निर्मलेन कृतः पश्चान्नराकारश्चतुर्भुजः ॥४७॥
क्रीडार्थं मम पुत्रोऽयं बालभावः प्रकल्पितः ॥
गजवक्त्रो महाकायो लंबोदरलघूरुकः ॥४- ॥
ततोऽहमनया प्रोक्तः सजीवः क्रियतामयम् ॥
पुत्रको मे यथा भावी लोके पूज्य तमो विभो ॥४९॥
ततो मयापि संस्पृष्टः सृष्टिसूक्तेन पार्थिव ॥
जीवसूक्तेन सम्यक्स प्राणवान्समजायत ॥५०॥
ततो मया प्रहृष्टेन प्रोक्ता देवी हिमाद्रिजा ॥
चतुर्थीदिवसे प्राप्ते मयाऽद्यायं विनिर्मितः ॥५१॥
पुत्रस्तव महाभागे जीवसूक्तप्रभावतः ॥
एष सर्वागणानां च मदीयानां सुरेश्वरि ॥
भविष्यति सदाऽध्यक्ष स्तस्माच्च गणनायकः ॥५२॥
पठ्यमानेन यश्चैनं जीवसूक्तेन सुन्दरि ॥
पूजयिष्यति सद्भक्त्या चतुर्थीदिवसे शुभे ॥५३॥
तस्य सर्वेषु कृत्येषु सर्वविघ्रानि कृत्स्नशः ॥
प्रयास्यंति क्षयं देवि तमः सूर्योदये यथा ॥५४॥
नमो लंबोदरायेति नमो गणविभो तथा ॥
कुठारधारिणे नित्यं तथा वाक्संगताय च ॥५५॥
नमो मोदकभक्षाय नमो दन्तैकधारिणे ॥५६॥
एभिर्मन्त्रैः समभ्यर्च्य पश्चान्मोद कजंशुभम् ॥
नैवेद्यं च प्रदातव्यं ततश्चार्घ्यं निवेदयेत् ॥५७॥
अहं कर्म करिष्यामि यत्किचिच्छंभुसंभवम् ॥
अविघ्नं तत्र कर्तव्यं सर्वदैव त्वया विभो ॥५८॥
ततस्तु ब्राह्मणानां च भोजनं मोदकोद्भवम् ॥
यथाशक्त्या प्रदातव्यं वित्तशाठ्यं विवर्जयेत् ॥५९॥
एवमुक्तं मया पूर्वं स्वयमेव नृपोत्तम ॥
गणनाथं समुद्दिश्य गौर्याः पुरत एव च ॥६०॥
ततः प्रहृष्टा सा देवी वाक्यमेतदुवाच ह ॥
अद्यप्रभृति यः पुत्रं मदीयं गणनाय कम् ॥६१॥
अनेन विधिना सम्यक्चतुर्थ्यां पूजयिष्यति ॥
तस्य विघ्नानि सर्वाणि नाशं यास्यंत्यसंशयम् ॥६२॥
स्मृत्वा वा पूजयित्वा वा यः कार्याणि करिष्यति ॥
भविष्यंति न संदेहस्ततोस्याविचलानि च ॥६३॥
न सन्देहस्ततोऽस्य श्रीरचलैव भविष्यति ॥६४॥
 ॥ श्रीभगवानुवाच ॥
तस्मात्त्वं हि महाभाग चतुर्थ्यां सम्यगाचर ॥
विनायकोद्भवां पूजां येनाभीष्टेन युज्यसे ॥६५॥
 ॥ मार्कण्डेय उवाच ॥
तस्य तद्वचनं श्रुत्वा विश्वामित्रो महीपतिः ॥
गणनाथसमुद्भूतां पूजां कृत्वा यथोचिताम् ॥६६॥
तपश्चचार विपुलं सर्वविघ्नविवर्जितम् ॥
ब्राह्मण्यं च ततः प्राप्तं सर्वेषामपि दुर्लभम् ओ ॥६७॥
तस्मात्त्वं हि महाभाग विनायकसमुद्भवाम् ॥
पूजां कुरु चतुर्थ्यां च संप्राप्तायां विशेषतः ॥
संप्राप्नोषि महाभोगान्हृदिस्थान्नात्र संशयः ॥६८॥
यो यं काममभिध्याय गणनाथं प्रपूजयेत् ॥
स तं सर्वमवाप्नोति महेश्वरवचो यथा ॥६९॥
अपुत्रो लभते पुत्रं धनहीनो महद्धनम् ॥
शत्रूञ्जयति संग्रामे स्मृत्वा तं गणनायकम् ॥७०॥
या नारी पतिना त्यक्ता दुर्भगा च विरूपिता ॥
सा सौभाग्यमवाप्नोति गणनाथस्य पूजया ॥७१॥
य इदं पठते नित्यं शृणुयाद्वा समाहितः ॥
न विघ्नं जायते तस्य सर्वकृत्येषु सर्वदा ॥७२॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रोपाख्यानप्रसंगेन गणपतिपूजाविधिमाहात्म्यवर्णनंनाम चतुर्दशोत्तरद्विशततमोऽध्यायः ॥२१४॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP