संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २४२

नागरखण्डः - अध्याय २४२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ ऋषय ऊचुः ॥
नारद उवाच ॥
अष्टादश प्रकृतयः का वदस्व पितामह ॥
वृत्तिस्तासां च को धर्मः सर्वं विस्तरतो मम ॥१॥
 ॥ ब्रह्मोवाच ॥
मज्जन्माभूद्भगवतो नाभिपंकजकोशतः ॥
स्वकालपरिमाणेन प्रबुद्धस्य जगत्पतेः ॥२॥
ततो बहुतिथे काले केशवेन पुरा स्मृतः ॥
स्रष्टुकामेन विविधाः प्रजा मनसि राजसीः ॥३॥
अहं कमलजस्तत्र जातः पुत्रश्चतुर्मुखः ॥
उदरं नाभिनालेन प्रविश्याथ व्यलोकयम् ॥४॥
तत्र ब्रह्मांडकोटीनां दर्शनं मेऽभवत्पुनः ॥
विस्मयाच्चिंतयानस्य सृष्ट्यर्थमभिधावता ॥५॥
निर्गम्य पुनरेवाहं पद्मनालेन यावता ॥
बहिरागां विस्मृतं तत्सर्वं सृष्ट्यर्थकारणम् ॥६॥
पुनरेव ततो गत्वा प्रजाः सृष्ट्वा चतुर्विधाः ॥
नाभिनालेन निर्गत्य विस्मृतेनांतरात्मना ॥७॥
तदाहं जडवज्जातो वागुवाचाशरीरिणी ॥
तपस्तप महाबुद्धे जडत्वं नोचितं तव ॥८॥
दशवर्षसहस्राणि ततोऽहं तप आस्थितः ॥
पुनराकाशजा वाणी मामुवाचाविनश्वरा ॥९॥
वेदरूपाश्रिता पूर्वमाविर्भूता तपोबलात् ॥
ततो भगवताऽऽदिष्टः सृज त्वं बहुधा प्रजाः ॥१०॥
राजसं गुणमाश्रित्य भूतसर्गमकल्मषम् ॥
मनसा मानसी सृष्टिः प्रथमं चिंतिता मया ॥११॥
ततो वै ब्राह्मणा जाता मरीच्यादिमुनीश्वराः ॥
तेषां कनीयांस्त्वं जातो ज्ञानवेदांतपारगः ॥१२॥
कर्मनिष्ठाश्च ते नित्यं सृष्ट्यर्थं सततोद्यताः ॥
निर्व्यापारो विष्णुभक्त एकांतब्रह्मसेवकः ॥१३॥
निर्ममो निरहंकारो मम त्वं मानसः सुतः ॥
क्रमान्मया तु तेषां वै वेदरक्षार्थमेव च ॥१४॥
प्रथमा मानसी सृष्टिर्द्विजात्यादिर्विनिर्मिता ॥
ततोहमांगिकीं सृष्टिं सृष्टवांस्तत्र नारद ॥१५॥
मुखाच्च ब्राह्मणा जाता बाहुभ्यः क्षत्रिया मम ॥
वैश्या ऊरुसमुद्भूताः पद्भ्यां शूद्रा बभूविरे ॥१६॥
अनुलोमविलोमाभ्य ांक्रमाच्च क्रमयोगतः ॥
शूद्रादधोऽधो जाताश्च सर्वे पादतलोद्भवाः ॥१७॥
ताः सर्वास्तु प्रकृतयो मम देहांशसंभवाः ॥
नारद त्वं विजानीहि तासां नामानि वच्मि ते ॥१८॥
ब्राह्मणः क्षत्रियो वैश्यस्त्रय एव द्विजातयः ॥
वेदास्तपोऽध्ययनं च यजनं दानमेव च ॥१९॥
वृत्तिरध्यापनाच्चैव तथा स्वल्पप्रतिग्रहात् ॥
विप्रः समर्थस्तपसा यद्यपि स्यात्प्रतिग्रहे ॥२०॥
तथापि नैव गृह्णीयात्तपोरक्षा यतः सदा ॥
वेदपाठो विष्णुपूजा ब्रह्मध्यानमलोभता ॥२१॥
अक्रोधता निर्मलत्वं क्षमासारत्वमार्यता ॥
क्रियातत्परता दानक्रिया सत्यादिभिर्गुणैः ॥२२॥
भूषितो यो भवेन्नित्यं स विप्र इति कथ्यते ॥
क्षत्रियेण तपः कार्यं यजनं दानमेव च ॥२३॥
वेदपाठो विप्रभक्तिरेषां शस्त्रेण जीवनम् ॥
स्त्रीबालगोब्राह्मणार्थे भूम्यर्थे स्वामिसंकटे ॥२४॥
संप्रतिशरणं चैव पीडितानां च शब्दिते ॥
आर्तत्राणपरा ये च क्षत्रिया ब्रह्मणा कृताः ॥२५॥
धनवृद्धिकरो वैश्यः पशुपालः कृषीवलः ॥
रसादीनां च विक्रेता देवब्राह्मणपूजकः ॥२६॥
अर्थवृद्धिकरो व्याजा यज्ञकर्मादिकारकः ॥
दानमध्ययनं चेति वैश्यवृत्तिरुदाहृता ॥
एतान्येव ह्यमंत्राणि शूद्रः कारयते सदा ॥
नित्यं षड्दैवतं श्राद्धं हन्तकारोऽग्नि तर्पणम् ॥२८॥
देवद्विजातिभक्तिश्च नमस्कारेण सिद्ध्यति ॥
शूद्रोऽपि प्रातरुत्थाय कृत्वा पादाभिवंदनम् ॥२९॥
विष्णुभक्तिमयाञ्श्लोकान्पठन्विष्णुत्वमाप्नुयात् ॥
वार्षिकव्रतकृन्नित्यं तिथिवाराधिदैवतः ॥३०॥
अन्नदः सर्वजीवानां गृहस्थः शूद्र ईरितः ॥
अमंत्राण्यपि कर्माणि कुर्वन्नेव हि मुच्यते ॥३१॥
चातुर्मास्यव्रतकरः शूद्रोऽपि हरितां व्रजेत् ॥
शिल्पी च नर्तकश्चैव काष्ठकारः प्रजापतिः ॥३२॥
वर्धकिश्चित्रकश्चैव सूत्रको रजकस्तथा ॥
गच्छकस्तन्तुकारश्च चक्रिकश्चर्मकारकः ॥३३॥
सूनिको ध्वनिकश्चैव कौल्हिको मत्स्यघातकः ॥
औनामिकस्तु चंडालः प्रकृत्याष्टादशैव ते ॥३४॥
शिल्पिकः स्वर्णकारकश्च दारुकः कांस्यकारकः ॥
काडुकः कुम्भकारश्च प्रकृत्या उत्तमाश्च षट् ॥३५॥
खरवाह्युष्ट्रवाही हयवाही तथैव च ॥
गोपाल इष्टिकाकारो अधमाधमपञ्चकम् ॥३६॥
रजकश्चर्मकारश्च नटो बुरुड एव च ॥
कैवर्त्तमेदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः ॥३७॥
यो यस्य हीनो वर्णेन स चाष्टादशमो नरः ॥
सर्वासां प्रकृतीनां च उत्तमा मध्यमाः समाः ॥३८॥
भेदास्त्रयः समाख्याता विज्ञेयाः स्मृतिनिर्णयात् ॥
शिल्पिनः सप्त विज्ञेया उत्तमाः समुदाहृताः ॥३९॥
स्वर्णकृत्कंबुकश्चैव तन्दुलीपुष्पलावकः ॥
तांबूली नापितश्चैव मणिकारश्च सप्तधा ॥४०॥
न स्नानं देवताहोमस्तपोनियम एव च ॥
न स्वाध्यायवषट्कारौ न च शुद्धिर्विवाहिता ॥४१॥
एतासां प्रकृतीनां च गुरुपूजा सदोदिता ॥
विप्राणां प्राकृतो नित्यं दानमेव परो विधिः ॥४२॥
सर्वेषामेव वर्णानामाश्रमाणां महामुने ॥
सर्वासां प्रकृतीनां च विष्णुभक्तिः सदा शुभा ॥४३॥
इति ते कथितं सर्वं यथाप्रकृतिसंभवम् ॥
कथां शृणु महापुण्यां शूद्रः शुद्धिमगाद्यथा ॥४४॥
इदं पुराणं परमं पवित्रं विशुद्धधीर्यस्तु शृणोति वा पठेत् ॥
विधूय पापानि पुरार्जितानि स याति विष्णोर्भवनं क्रियापरः ॥४५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्येऽष्टादशप्रकृतिकथनंनाम द्विचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४२॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP