नागरखण्डः - अध्याय २५७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पार्वत्युवाच ॥
द्वादशाक्षरमाहात्म्यं मम विस्तरतो वद ॥
यथावर्णं यत्फलं च यथा च क्रियते मया ॥१॥
॥ श्रीमहादेव उवाच ॥
द्विजातीनां सहोंकारसहितो द्वादशाक्षरः ॥
स्त्रीशूद्राणां नमस्कारपूर्वकः समुदाहृतः ॥२॥
प्रकृतीनां रामनाम संमतो वा षडक्षरः ॥
सोऽपि प्रणवहीनः स्यात्पुराणस्मृतिनिर्णयः ॥३॥
क्रमोऽयं सर्ववर्णानां प्रकृतीनां सदैव हि ॥
क्रमेण रहितो यस्तु करोति मनुजो जपम् ॥
तस्य प्रकुप्यति विभुर्नरकादिप्रदायकः ॥४॥
॥ पार्वत्युवाच ॥
मया त्रिमात्रया स्वामिन्सेव्यते जगदीश्वरः ॥
रूपमस्य कथं जाने वचसामप्यगोचरम् ॥५॥
॥ ईश्वर उवाच ॥
प्रणवस्याधिकारो न तवास्ति वरवर्णिनि ॥
नमो भगवते वासुदेवायेति जपः सदा ॥६॥
॥ पार्वत्युवाच ॥
यदि सप्रणवं दद्याद्द्वादशाक्षरचिंतनम ॥
प्रणवे नाधिकारो मे कथं भवति धूर्जटे ॥७॥
॥ ईश्वर उवाच ॥
प्रणवः सर्वदेवानामादिरेष प्रकीर्तितः ॥
ब्रह्मा विष्णुः शिवश्चैव वसंति दयितायुताः ॥८॥
तत्र सर्वाणि भूतानि सर्व तीर्थानि भागशः ॥
तिष्ठंति सर्वतीर्थानि कैवल्यं ब्रह्म एव यः ॥९॥
तस्य योग्या तदा देवि भविष्यसि यदा तपः ॥
चातुर्मास्ये हरिप्रीत्यै करिष्यसि शुभानने ॥१०॥
तपसा प्राप्यते कामस्तपसा च महत्फलम् ॥
तपसा जायते सर्वं तत्तपः सुलभं नरैः ॥११॥
यशः सौभाग्यमतुलं क्षमासत्यादयो गुणाः ॥
सुलभं तपसा नित्यं तपश्चर्त्तुं न शक्यते ॥१२॥
यदा हि तपसो वृद्धिस्तदा भक्तिर्हरौ भवेत् ॥
तदा हि तपसो हानिर्यदा भक्तिं विना कृतम् ॥१३॥
तावत्तपांसि गर्जंति देहेऽस्मिन्सततं नृणाम् ॥
यदा विष्णुं स्मरेन्नित्यं जिह्वाग्रं पावनं भवेत् ॥१४॥
यथा प्रदीपे ज्वलिते प्रणश्यति महत्तमः ॥
तथा हरेः कथायां च याति पापमनेकधा ॥१५॥
तस्मात्पार्वति यत्नेन हरौ सुप्ते तपः कुरु ॥
चातुर्मास्येऽथ संप्राप्ते प्रणवेन समन्वितम् ॥१६॥
विशुद्धहृदया भूत्वा मन्त्रराजमिमं जप ॥
स एव भगवांस्तुष्टो द्वादशाक्षरसंयुतम् ॥१७॥
प्रदास्यति परं ज्ञानं ब्रह्मरूपमखण्डितम् ॥
ब्रह्मकल्पांतकोटीषु जप त्वं द्वादशाक्षरम् ॥१८॥
मन्त्रराजं सप्रणवं ध्यायेत्सोऽपि न पश्यति ॥
इत्युक्ता सा तपोनिष्ठा तपश्चरितुमागता ॥१९॥
हिमाचलस्य शिखरे चातुर्मास्ये समागते ॥
ब्रह्मचर्यव्रतपरा वसनत्रयसंयुता ॥२०॥
प्रातर्मध्येऽपराह्ने च ध्यायन्ती हरिशंकरम् ॥
वपुर्यथा पुरा कृष्टं पूजने शंकरस्य च ॥२१॥
सखीजन समायुक्ता पितुः शृंगे मनोहरे ॥
अतपत्सा विशालाक्षी क्षमादिगुणसंयुता ॥२२॥
॥ गालव उवाच ॥
या हि योगीश्वरध्येया या वन्द्या विश्ववन्दिता ॥
जननी या च विश्वस्य साऽपि कामात्तपोगता ॥२३॥
या हि प्रकृतिसद्रूपा तडित्कोटिसमप्रभा ॥
विरजा या स्वयं वन्द्या गुणातीताचरत्तपः ॥२४॥
पृथ्व्यंबु तेजो वायुश्च गगनं यन्मयं विदुः ॥
मूलप्रकृतिरूपा या सा चकारोत्तम तपः ॥२५॥
या स्थावरं जंगममाशु विश्वं व्याप्य स्थिता या प्रकृतेः पुरापि ॥
स्पृहादिरूपेण च तृप्तिदात्री देवे प्रसुप्ते तपसाऽऽप शुद्धिम् ॥२६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये द्वादशाक्षरनाममहिमपूर्वकपार्वतीतपोवर्णनं नाम सप्तपंचाशदुत्तरशततमोऽध्यायः ॥२५७॥
N/A
References : N/A
Last Updated : January 06, 2025
TOP