नागरखण्डः - अध्याय २७८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
ये चान्ये भास्करा स्तत्र संति ब्राह्मणसत्तमाः ॥
हाटकेश्वरजे क्षेत्रे याज्ञवल्क्यप्रतिष्ठिताः ॥१॥
यस्तान्पूजयते भक्त्या हृदि कृत्वाऽभिवांछितान् ॥
सप्तम्यां चैव सप्तम्यां लभते नात्र संशयः ॥२॥
॥ ऋषय उचुः ॥
एक एव स्थितः सूर्यो दृश्यते च नभस्तले ॥
तत्कथं द्वादशैते च तत्र क्षेत्रे प्रतिष्ठिताः ॥
कस्मिन्काले तथा कृत्ये किमर्थं सूतनन्दन ॥३॥
॥ सूत उवाच ॥
आसीत्पूर्वं कृतिर्नाम शुनःशेपसमुद्भवः ॥४॥
तस्य पुत्रः शुनः पुत्रो बभूव मुनिसत्तमः ॥
चारायणः सुतस्तस्य वभूव मुनिसत्तमः ॥५॥
कस्यचित्त्वथ कालस्य ब्रह्मा लोक पितामहः ॥
सावित्रीशापनिर्दग्धो ह्यवतीर्णो धरातले ॥६॥
गायत्री च यदा विप्रास्तेनोढा यज्ञकर्मणि ॥
प्राक्स्थितां च परित्यज्य सर्वदेवसमागमे ॥
कालात्ययो भवेन्नैव सावित्र्यागमने स्थिरे ॥७॥
ततस्तस्य समादेशाद्गायत्री गोपकन्यका ॥
शक्रेण च समानीता दिव्यलक्षणलक्षिता ॥८॥
गोपकन्यां च तां ज्ञात्वा गोश्च वक्त्रेण पद्मजः ॥
प्रवेश्याकर्षयामास गुह्येन च ततः परम् ॥९॥
ब्राह्मणानां गवां चैव कुलमेकं द्विधा स्थितम् ॥
एकत्र मन्त्रास्तिष्ठंति हविरेकत्र संस्थितम् ॥८.१०॥
तेन तां ब्राह्मणीं कृत्वा पश्चात्तस्याः परिग्रहम् ॥
गृह्योक्तविधिना चक्रे पुरःस्थोऽपि पितामहः ॥११॥
पत्नीशालोपविष्टायां ततस्तस्यां द्विजोत्तमाः ॥
सावित्री समनुप्राप्ता देवपत्नीभिरावृता ॥१२॥
ततस्तां सा समालोक्य रशनासमलंकृताम् ॥
दौर्भाग्यदुःखमापन्ना शशाप च विधिं ततः ॥१३॥
॥ सावित्र्युवाच ॥
यस्मात्त्वया परित्यक्ता निर्दोषाहं पितामह ॥
पितामहोऽसि मे नूनमद्यप्रभृति संगमे ॥१४॥
मनुष्याणां भवेत्कृत्यमन्यनारीपरिग्रहः ॥
एतत्त्वया कृतं यस्मान्मा नुषस्त्वं भविष्यसि ॥१५॥
कामार्तश्च विशेषेण मम वाक्यादसंशयम् ॥१६॥
एवमुक्त्वा तु सावित्री त्यक्त्वा तं यज्ञमंडपम् ॥
गिरेः शिखरमारूढा तपश्चक्रे महत्ततः ॥१७॥
पितामहोऽपि तच्छापाच्चारायणनिवेशने ॥
अवतीर्णो धरापृष्ठे कालेन महता ततः ॥१८॥
स यदा यौवनं भेजे मानुषं च पुरा स्थितः ॥
तथातथा च तापेन कामोत्थेन प्रपीड्यते ॥१९ ॥
ततोऽसौ वीक्षते नारीं कन्यां वाथ तपस्विनीम् ॥
अविकल्पमना भेजे रूपसौभाग्यगर्वितः ॥८.२०॥
ततस्तं ब्यसनार्तं च दृष्ट्वा चारायणो मुनिः ॥
स्वयं निःसारयामास प्रकोपेन निजाश्रमात् ॥२१॥
स च पित्रा परित्यक्तो भ्रममाणस्ततस्ततः ॥
चमत्कारपुरं प्राप्तः शाकल्यो यत्र तिष्ठति ॥२२॥
नाम्ना ब्राह्मणशार्दूलो नागरो वेदपारगः ॥
वृतः शिष्य सहस्रेण वेदविद्यां प्रचारयन् ॥२३॥
अथ तं स प्रणम्योच्चैः शिष्यत्वं समुपागतः ॥
वेदाध्ययनसंपन्नो बभूवाथ चिरादपि ॥२४॥
एतस्मिन्नेव काले नु आनर्ताधिपतिः स्वयम् ॥
आगतस्तिष्ठते यत्र जलशायी हरिः स्वयम् ॥२५॥
चातुर्मास्यव्रतं तेन गृहीतं तत्पुरस्तदा ॥
प्रार्थितस्तु ततो विप्राः शाकल्यस्तैन भूभुजा ॥२६॥
शांतिकं पौष्टिकं नित्यं त्वया कार्यं ममालये ॥
यावत्तिष्ठाम्यहं चात्र प्रसादः क्रियतामिति ॥
बाढमित्येव स प्रोक्त्वा दाक्षिण्येन द्विजोत्तमाः ॥
एकैकं प्रेषयामास स्वशिष्यं तस्य मंदिरे ॥२८॥
स शांतिकं विधायाथ दत्त्वाशीः पार्थिवस्य च ॥
संप्राप्य दक्षिणां तस्मात्पुनरेति च तं द्विजम् ॥२९॥
शाकल्याय च तां दत्त्वा दक्षिणां निजमंदिरे ॥
जगाम नित्यमेवं हि व्यवहारो व्यवस्थितः ॥८.३०॥
अन्यस्मिन्नहनि प्राप्ते शाकल्येन विसर्जितः ॥
शांत्यर्थं याज्ञवल्क्यस्तु पार्थिवस्यनिवेशनम् ॥३१॥
तस्य भूपस्य रूपाढया मंथरास्ति विलासिनी ॥
रात्रौ च कामिता तेन कामाढयेन सुकामिनी ॥३२॥
भावैर्वात्स्यायनप्रोक्तैः समालिंगनपूर्वकैः ॥
स तया विविधैः कृत्तो मयूरपदकादिभिः ॥
शरीरे चाधरे चैव तथा मणिप्रवालकैः ॥३३॥
संप्राप्तोऽध्ययनार्थाय यावच्छाकल्यसन्निधौ ॥
तावत्संप्रेषितस्तेन शांत्यर्थं भूपमंदिरे ॥३४॥
सोऽपि संप्रेषितस्तेन गत्वा तं पार्थिवालयम् ॥
शांतिकं च ततश्चक्रे यथोक्तविधिना द्विजाः ॥३५॥
शांतिकस्यावसाने तु प्रगृह्य कलशोदकम् ॥
पंचांगैः कल्पितं रुद्रैः स्वयमेवाभिमंत्रितैः ॥३६॥
साक्षतं सुमनोयुक्तं समादाय गतस्ततः ॥
संतिष्ठते नृपो यत्र आनर्तो त्रतसंयुतः ॥३७॥
द्यामालेखीति मंत्रं स प्रोच्चार्य विधिपूर्वकम् ॥
छंदर्षिसहितं चैव यावत्क्षिपति मस्तके ॥
तावन्निरीक्षितस्तेन नखलेखाविकर्तितः ॥३८॥
खंडितेनाधरेणैव ततोऽभूद्दुर्मना नृपः ॥३९॥
विटप्रायं तु तं दृष्ट्वा मलिनांबरधारिणम् ॥
तं प्रोवाच विहस्योच्चै देहि विप्राऽक्षताञ्जलम् ॥८.४०॥
मंदुरायां स्थितं यच्च काष्ठमेतत्प्रदृश्यते ॥
याज्ञवल्क्यस्ततो दृष्ट्वा सकोपस्तमुपाद्रवत् ॥४१॥
क्षिप्त्वा तत्र जलं विप्राः साक्षतं गृहमागमत् ॥
अगृह्य दक्षिणां तस्य पार्थिवस्य यथास्थिताम् ॥४२॥
एतस्मिन्नंतरे तस्य धवकाष्ठस्य सर्वतः ॥
निष्क्रांता विविधाः शाखाः पल्लवैः समलंकृताः ॥४३॥
तद्दृष्ट्वा विस्मितः सोऽथ आनर्ताधिपतिर्नृपः ॥
पश्चात्तापं परं चक्रे धिङ्मयैवमनुष्ठितम् ॥४४॥
स नूनं विबुधः कोऽपि विप्ररूपेण संगतः ॥
येनेदृशः प्रभावोऽयं तस्य मंत्रस्य संस्थितः ॥४५॥
यद्यहं प्रतिगृह्णामि तस्य मन्त्रोदितं जलम् ॥
जरामरणहीनस्तु तद्भवाभि न संशयः ॥४६॥
एवं चिंतयतस्तस्य तद्दिनं विस्मितस्य च ॥
पार्थिवस्य द्विजश्रेष्ठा जातं वर्षशतोपमम् ॥४७॥
दिवसे तु समाक्रांते कथंचित्तस्य भूपतेः [ ॥
विभावरी क्षयं याति कथंचिन्नैव शारदी ॥४८॥
ततः प्रभातसमये समुत्थाय महीपतिः ॥
आह्वयामास शाकल्यं पुरुषैराप्तकारिभिः ॥४९॥
ततः प्रोवाच विनयात्सादरं प्रांजलिः स्थितः ॥
कल्ये शिष्यः समायातो यस्त्वदीयो ममांतिकम् ॥८.५०॥
शांत्यर्थं प्रेषणीयस्तु सोऽद्यापि च द्विजोत्तम ॥
तस्योपरि परा भक्तिर्मम जाताऽद्य केवलम् ॥५१॥
स तथेति प्रतिज्ञाय गत्वाऽथ निजमन्दिरम् ॥
प्रोवाच याज्ञवल्क्यं च शांत्यर्थं श्लक्ष्णया गिरा ॥५८२॥
गच्छ वत्स त्वमद्यैव पार्थिवस्य निवेशनम् ॥
शांत्यर्थं तेन भूयोऽपि त्वमेवाशुनिमंत्रितः ॥५३॥
॥ याज्ञवल्क्य उवाच ॥
नाहं यास्यामि तद्धर्म्ये शांत्यर्थं द्विजपुंगव ॥
अनादरेण दृष्टोऽहं नाशीर्मे च समाहृता ॥५४॥
काष्ठोपरि मया दत्ता तस्य वाक्यादसंशयम् ॥
तस्मात्प्रेषय चान्यं त्वं गुरो शिष्यं विचक्षणम् ॥
आनर्तं रंजयेद्यस्तु विवेकेन समन्वितम् ॥५५॥
॥ शाकल्य उवाच ॥
राजाऽऽदेशः सदा कार्यः पुरुषैर्देशवासिभिः ॥
योगक्षेमविधानाय तथा लाभाय केवलम् ॥५६॥
प्रतिकूलो भवेद्यस्तु पाथिवानां स मन्दधीः ॥
न तस्य जायते सौख्यं कथंचिद्द्विजसत्तम ॥५७॥
ये जात्यादि महोत्सेकान्न नरेंद्रानुपासते ॥
तेषामामरणं भिक्षा प्रायश्चित्तं विनिर्मितम् ॥५८॥
एवं तयोर्विवदतोस्तदा वै गुरुशिष्ययोः ॥
भूयोऽपि तत्र संप्राप्ताः पुरुषाः पार्थिवेरिताः ॥५९॥
प्रोचुश्च त्वरया युक्ताः शाकल्यं प्रांजलिस्थिताः ॥
शिष्यं तं प्रेषय क्षिप्रं राजा मार्गं प्रतीक्षते ॥८.६०॥
असकृत्प्रोच्यमानोऽपि यदा गच्छति नैव सः ॥
तदा संप्रेषयामास उद्दालकमथारुणिम् ॥६१॥
शिष्यं विनयसंपन्नं कृतांजलिपुटं स्थितम् ॥
गच्छ वत्स समादेशात्सांप्रतं नृपमंदिरम् ॥६२॥
शांतिकर्म विधायाथ स्वाध्यायं च ततः कुरु ॥६३॥
स तथेति प्रतिज्ञाय गत्वा तं पार्थिवालयम् ॥
चकार शांतिकं कर्म विधिदृष्टेन कर्मणा ॥६४॥
ततः कलशतोयं स साक्षतं सुमनोन्वितम् ॥
गृहीत्वोपाद्रवत्तत्र यत्र राजा व्यवस्थितः ॥६५॥
॥ राजोवाच ॥
स्वकीयमन्त्रलिंगेन अभिषेकं तु यच्छ भोः ॥
काष्ठस्यास्य यदग्रे ते प्रोत्थितं तिष्ठते द्विज ॥६६॥
ततस्तेन शुभं मंत्रं प्रोच्याभीष्टं जलं स्वयम् ॥
अभिषिच्य च तत्काष्ठं ततश्च स्वगृहं ययौ ॥६७॥
तावद्रूपं च तत्काष्ठं दृष्ट्वाऽऽनर्तो महीपतिः ॥
विषादसहितश्चैव पश्चात्तापसमन्वितः ॥६८॥
भूयस्तु प्रेषयामास याज्ञवल्क्यकृते तदा ॥
अन्यं दूतं विदग्धं च शाकल्यस्य द्विजाश्रयम् ॥६९॥
वेदना कायसंस्था मे वर्तते द्विजसत्तम ॥
शांत्यर्थं प्रेषया क्षिप्रं तं शिष्यं पूर्वसंचितम् ॥८.७०॥
अपमानं कृतं तस्य मया कल्ये द्विजोत्तम ॥
तेन मे सहसा व्याधिराशीर्वादमनिच्छतः ॥७१॥
तस्मात्प्रेषय मे शीघ्रं येन मे स्वस्थता भवेम् ॥
असकृत्प्रोच्यमानोऽपि यदा नैव स गच्छति ॥७२॥
याज्ञवल्क्यस्ततः शिष्यमन्यं प्रोवाच सादरम् ॥
ततस्तं मधुकं पैग्यं प्रेषयामास तद्गृहे ॥ ७३॥
तेनापि विहितं तच्च यथोद्दालकनिर्मितम् ॥
आशीर्वादो नृपोद्देशाद्दत्तः काष्ठस्य तस्य च ॥७४॥
तद्रूपमपि तत्काष्ठं दृष्ट्वा भूयोऽपि पार्थिवः ॥
अन्यं संप्रेषयामास याज्ञवल्क्यकृते नरम् ॥७९॥
असकृत्प्रोच्यमानोऽपि याज्ञवल्क्यो व्रजेन्न हि ॥
यदा तदा बहुगुणमन्यं शिष्यं प्रदिष्टवान् ॥७६॥
प्रचूडं भागवित्तिं च सोऽपि गत्वा यथा पुरा ॥
चकार शांतिकं कर्म यथा ताभ्यां पुरा कृतम् ॥७७॥
ततः शांत्युदकं तस्मिन्प्राक्षिपच्चैव दारुणि ॥
मंत्रवच्च तथाप्येव तद्रूपं च व्यवस्थितम् ॥७८॥
ततः स्वयं ययौ राजा शाकल्यस्य निवेशनम् ॥
याज्ञवल्क्यस्य मन्त्रार्थं पश्चात्तापसमन्वितः ॥७९॥
प्रणम्य स द्विजश्रेष्ठः शाकल्यं च द्विजोत्तमम् ॥
शांत्यर्थं मम हर्म्ये त्वं कल्ये शिष्यं समादिश ॥
येन मे जायते शांतिः शरीरस्य द्विजोत्तम ॥८.८०॥
ततः प्रोवाच शाकल्यो याज्ञवल्क्यं द्विजोत्तमाः ॥
भूयोऽपि शृण्वतस्तस्य आनर्तस्य महीपतेः ॥८१॥
याज्ञवल्क्य द्रुतं गच्छ ममादेशान्नृपालयम् ॥
राज्ञोस्य रोगनाशाय शांतिकं कुरु पुत्रक ॥८२॥
॥ याज्ञवल्क्य उवाच ॥
नाहं तत्र गमिष्यामि गुरो मैवं ब्रवीहि माम् ॥
अपमानः कृतोऽनेन गुरो मम महीभुजा ॥८३॥
तस्य तद्वचनं श्रुत्वा स कोपं परमं गतः ॥
अब्रवीद्भर्त्समानस्तु याज्ञवल्क्यं ततः परम् ॥८४॥
एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ॥
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चानृणी भवेत् ॥८५॥
यस्मात्त्वं शिष्यतां गत्वा मम वाक्यं करोषि न ॥
तस्मात्त्वां योजयिष्यामि ब्रह्म शापेन सांप्रतम् ॥८६॥
॥ याज्ञवल्क्य उवाच ॥
अन्यायेन हि चेच्छापं गुरो मम प्रदास्यसि ॥
अहमप्येव दास्यामि प्रतिशापं तवाधुना ॥८७॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ॥
उत्पथे वर्तमानस्य परित्यागो विधीयते ॥८८॥
तस्मात्त्वं हि मया त्यक्तः सांप्रतं हि न मे गुरुः ॥
अविशषेण शिष्यार्थं यदादेशं प्रयच्छसि ॥८९॥
यावंतस्ते स्थिताः शिष्यास्तावद्भिर्दिवसैरहम् ॥
तवादेशं करिष्यामि नोचेद्यास्यामि दूरतः ॥८.९०॥
॥ शाकल्य उवाच ॥
यदि गच्छसि चान्यत्र तत्त्वं विद्यां परित्यज ॥
यां मया पाठितः पाप व्रज पश्चात्कुशिष्य भोः ॥९१॥
मयाभिमंत्रितं तोयं क्षुरिकामुण्डसंभवम् ॥
पिब तस्याः प्रभावेण शीघ्रमेव त्यजिष्यसि ॥
जठरान्मामकीं विद्यां त्वयाधीता पुरा तु या ॥९२॥
एवमुक्त्वा स चामंत्र्य मंत्रैराथर्वणैर्जलम् ॥
पानाय प्रददौ तस्मै वांत्यर्थं सद्विजोत्तमः ॥९३॥
याज्ञवल्क्योऽपि तत्पीत्वा जलं तेनाभिमंत्रितम् ॥
वांतिं कृत्वा सहान्नेन तद्विद्यां तां परित्यजत् ॥९४॥
ततो मूढत्वमापन्नो विश्वामित्रह्रदं शुभम् ॥
गत्वा स्नातो विधानेन शुचि र्भूत्वा समाहितः ॥९५॥
चकार मूर्तीस्ता भक्त्या रवेर्द्वादशसंख्यया ॥
प्रतिष्ठाप्य ततः सर्वाः पूजयामास भक्तितः ॥९६॥
धाता मित्रोऽर्यमा शक्रो वरुणः सांब एव च ॥
भगो विवस्वान्पूषा च सविता दशमस्तथा ॥
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ॥९७॥
एवं द्वादशधा सूर्यः स्थापितोऽत्र विपश्चिता ॥
आराधितस्ततो नित्यं गन्धपुष्पानुलेपनैः ॥९८॥
ततः कालेन महता गत्वा प्रत्यक्षतां रविः ॥
प्रोवाच सुन्दरं प्रीत्या वाक्यमेतन्मुनिं प्रति ॥९९॥
याज्ञवल्क्य प्रतुष्टोऽहं तव ब्राह्मणसत्तम ॥
इष्टं ददामि ते ब्रूहि यद्यत्संप्रति वांछितम् ॥१००॥
॥ याज्ञवल्क्य उवाच ॥
वरं ददासि चेन्मह्यं वेदपाठे नियोजय ॥
मां विभो येन शिष्यत्वं तव गच्छामि सांप्रतम् ॥१०१॥
॥ आदित्य उवाच ॥
मया पर्यटनं कार्यं सदैव द्विजसत्तम ॥
मेरोः प्रदक्षिणार्थाय लोकालोककृते द्विज ॥१०२॥
तत्कथं योजयामि त्वां वेदपाठेन स द्विज ॥१०३॥
तस्मात्त्वं लघुतां गत्वा मम मुख्यहयस्य च ॥
श्रवणे तिष्ठ मद्वाक्यात्तेजसा चैव येन मे ॥१०४॥
न दह्यसि महाभाग तत्र स्थोऽध्ययनं कुरु ॥
स तथेति प्रतिज्ञाय प्रविश्यादित्यवाजिनः ॥
कर्णेऽपठत्ततो वेदांश्चतुरोऽपि च तन्मुखात् ॥
अंगोपांगसमोपेतान्परिशिष्टसमन्वितान् ॥१०६॥
ततः समाप्ते स प्राह प्रार्थयस्व विभो हि माम् ॥
प्रदास्यामि न सन्देहस्तवाद्य गुरुदक्षिणाम् ॥१०७॥
॥ आदित्य उवाच ॥
यानि सूक्तानि ऋग्वेदे मदीयानि द्विजोत्तम ॥
सावनानि यजुर्वेदे सामानि च तृतीयके ॥१०८॥
कल्पोक्तानि चतुर्थे च तानि सर्वाणि भूतले ॥
त्वया प्रचारणीयानि कृत्वा व्याख्यानमुत्तमम् ॥९॥
ये द्विजास्तानि सर्वाणि कीर्तयिष्यंति मे पुरः ॥
ते सर्वे पाप निर्मुक्ताः प्रयास्यंति दिवालयम् ॥११०॥
व्याख्यास्यंति पुनर्ये च मम भक्तिपरायणाः ॥
ते यास्यंति द्विजा मुक्तिं सत्यमेतन्मयोदितम् ॥१११॥
॥ सूत उवाच ॥
एवं वेदान्पठित्वा स प्रदत्त्वा गुरुदक्षिणाम् ॥
सूर्यायाभ्यागतो भूयश्चमत्कारपुरं प्रति ॥११२॥
ततः शाकल्यमभ्येत्य गुरुस्त्वं प्राङ् मम स्थितः ॥
प्रार्थयस्व महाभाग दास्यामि गुरुदक्षिणाम् ॥११३॥
ज्येष्ठो भ्राता पिता चैव माता चैव गुरुस्तथा ॥
वैरुद्ध्येनापि वर्तंते यद्येते द्विजसतम ॥
तथापि पूजनीयाश्च पुरुषेण न संशयः ॥११४॥
सांगोपांगा मयाधीता वेदाश्चत्वार एव च ॥
अधीताश्चैव सर्वेषां तेषामर्थोऽवधारितः ॥११५॥
तत्त्वं वद महाभाग कां ते यच्छामि दक्षिणाम् ॥११६॥
॥ शाकल्य उवाच ॥
यानि वेदरहस्यानि सूर्येण कथितानि ते ॥११७॥
यैः स्यात्पापप्रणाशश्च व्याख्यातैः पठितैस्तथा ॥
तानि मे कीर्तय क्षिप्रमेषा मे गुरुदक्षिणा ११८॥
॥ याज्ञवल्क्य उवाच ॥
तदागच्छ मया सार्धं यत्र सूर्याः प्रतिष्ठिताः ॥
मया द्वादश तेषां च कीर्तयिष्यामि चात्रतः ॥११९॥
तच्छ्रुत्वा शिष्यसंयुक्तः शाकल्यस्तैश्च सद्द्विजैः ॥
शिष्यैस्तिष्ठन्ति ये तत्र स्थापितास्तेन भास्कराः ॥१२०॥
ततस्तु कीर्तयामास व्याख्यानं तत्पुरः स्थितः ॥
वेदान्तानां च सर्वेषां यथोक्तं रविणा पुरा ॥१२१॥
अवसाने च तेषां तु चतुश्चरणसंभवैः ॥
ब्राह्मणैर्याज्ञवल्क्यस्तु वेदान्तज्ञैः प्रतोषितः ॥१२२॥
प्रोक्तस्तव प्रसादेन वेदांतज्ञा वयं स्थिताः ॥
श्रुताध्ययनसंपन्ना याचस्व गुरुदक्षिणाम् ॥१२३॥
॥ याज्ञवल्क्य उवाच ॥
एतेषां भास्कराणां च मदीयानां पुरो द्विजाः ॥
कीर्तयिष्यंति ये विप्रास्तेषां युष्मत्प्रसादतः ॥
भूया स्वर्गगतिर्विप्रा एषा मे गुरु दक्षिणा ॥१२४॥
ये पुनर्भक्तिसंयुक्ताः करिष्यंति विचारणम् ॥
तेषां तुर्यपदं यच्च जरामरणवर्जितम् ॥१२५॥
॥ ब्राह्मणा ऊचुः ॥
भविष्यति कलौ विप्रा दौस्थ्यभावसमन्विताः ॥
पठने नैव शक्ताश्च व्याख्यानस्य च का कथा ॥१२६॥
तस्मात्सारस्वतं ब्रूहि वेदानां द्विजसत्तम ॥
अपि दौस्थ्यसमायुक्ता येन ते कीर्तयंति च ॥१२७॥
॥ याज्ञवल्क्य उवाच ॥
रथं युञ्जंति सूक्तं यत्प्रथमं वित्तलक्षणम् ॥
त्रिष्टुभेति च यत्सूक्तं तथाद्यं ब्राह्मणोत्तमाः ॥१२८॥
चित्रं देवानामिति च तथान्यत्तस्य वल्लभम् ॥
हंसः शुचिषदित्युक्तं ततश्चापि प्रहर्षदम् ॥१२९॥
पावमानं तथा सूक्तं ये पठिष्यंति बह्वृचः ॥
इत्येषामाद्यमेवं तु ते यास्यंति परां गतिम् ॥१३०॥
एकविंशतिसामानि आदित्येष्टानि यानि च ॥
सामगाः कीर्तयिष्यंति येऽत्रस्थाः शुचयः स्थिताः ॥१३१॥
निश्चयं तु परं धृत्वा येऽपि स्तोष्यंति भास्करम् ॥
ततस्तेऽपि प्रयास्यंति निर्भिद्य रविमंडलम् ॥१३२॥
क्षुरिकासंपुटं चैव सूर्यकल्पं तथैव च ॥
शांतिकल्पसमायुक्तं कीर्तयिष्यंति ये द्विजाः ॥१३३॥
अथर्वपाठकास्तेऽपि प्रयास्यंति परां गतिम् ॥
मूर्खा अपि समागत्य संप्राप्ते सूर्यवासरे ॥१३४॥
प्रणामं ये करिष्यंति श्रद्धया परया युताः ॥
सप्तरात्रकृतात्पापान्मुक्तिं प्राप्संति ते द्विजाः ॥१३५॥
॥ सूत उवाच ॥
तथेति तैः प्रतिज्ञाते चतुश्चरणसंभवैः ॥
ब्राह्मणैर्याज्ञवल्क्यस्तु विज्ञातो येन केन तु ॥१३६॥
विदेहेन ततः प्राप्तः श्रवणार्थं नराधिपः ॥
वेदांतानां च सर्वेषां रत्नाख्येन महीभुजा ॥१३७॥
तेनापि च परिज्ञाय माहात्म्यं सूर्यसं भवम् ॥
ततः संस्थापितः सूर्यस्तस्मिन्स्थाने द्विजोत्तमाः ॥१३८॥
तं चापि सूर्यवारेण यः प्रपश्यति मानवः ॥
सप्तरात्रकृतात्पापान्मुच्यते नात्र संशयः ॥१३९॥
एतद्वः कथितं सर्वं माहात्म्यं सूर्यसंभवम् ॥
यः शृणोति नरो भक्त्या अश्वमेधफलं लभेत् ॥१४०॥
संक्रांतौ यत्प्रदानेन सूर्ये वा श्रवणेन तु ॥
तत्फलं समवाप्नोति श्रुत्वा माहात्म्यमुतमम् ॥१४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये द्वादशार्कोत्पत्तिरत्नादित्योत्पत्तिमाहात्म्ये याज्ञवल्क्यवृत्तांतवर्णनं नामाष्टसप्तत्युत्तरद्विशततमोऽध्यायः ॥२७८॥
N/A
References : N/A
Last Updated : January 06, 2025
TOP